अतिक्रान्ते पादे पञ्चाग्निविद्यामुदाहृत्य जीवस्य संसारगतिप्रभेदः प्रपञ्चितः ; इदानीं तस्यैवावस्थाभेदः प्रपञ्च्यते । इदमामनन्ति — ‘स यत्र प्रस्वपिति’ (बृ. उ. ४ । ३ । ९) इत्युपक्रम्य ‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथारथयोगान्पथः सृजते’ इत्यादि । तत्र संशयः — किं प्रबोधे इव स्वप्नेऽपि पारमार्थिकी सृष्टिः, आहोस्विन्मायामयीति । तत्र तावत्प्रतिपाद्यते —