०६ अन्याधिष्ठिताधिकरणम्

२४ अन्याधिष्ठितेषु पूर्ववदभिलापात् ॥

तस्मिन्नेवावरोहे प्रवर्षणानन्तरं पठ्यते — ‘त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते’ (छा. उ. ५ । १० । ६) इति । तत्र संशयः — किमस्मिन्नवधौ स्थावरजात्यापन्नाः स्थावरसुखदुःखभाजोऽनुशयिनो भवन्ति, आहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेषु स्थावरशरीरेषु संश्लेषमात्रं गच्छन्तीति । किं तावत्प्राप्तम् ? स्थावरजात्यापन्नास्तत्सुखदुःखभाजोऽनुशयिनो भवन्तीति । कुत एतत् ? जनेर्मुख्यार्थत्वोपपत्तेः, स्थावरभावस्य च श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धेः, पशुहिंसादियोगाच्च इष्टादेः कर्मजातस्यानिष्टफलत्वोपपत्तेः ; तस्मान्मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म, श्वादिजन्मवत् — यथा ‘श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा’ इति मुख्यमेवानुशयिनां श्वादिजन्म तत्सुखदुःखान्वितं भवति, एवं व्रीह्यादिजन्मापीति । एवं प्राप्ते ब्रूमः —

अन्यैर्जीवैरधिष्ठितेषु व्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते, न तत्सुखदुःख भाजो भवन्ति, पूर्ववत् — यथा वायुधूमादिभावोऽनुशयिनां तत्संश्लेषमात्रम् , एवं व्रीह्यादिभावोऽपि जातिस्थावरैः संश्लेषमात्रम् । कुत एतत् ? तद्वदेवेहाप्यभिलापात् । कोऽभिलापस्य तद्वद्भावः ? कर्मव्यापारमन्तरेण सङ्कीर्तनम् — यथा आकाशादिषु प्रवर्षणान्तेषु न कञ्चित्कर्मव्यापारं परामृशति, एवं व्रीह्यादिजन्मन्यपि । तस्मान्नास्त्यत्र सुखदुःखभाक्त्वमनुशयिनाम् । यत्र तु सुखदुःखभाक्त्वमभिप्रैति, परामृशति तत्र कर्मव्यापारम् — ‘रमणीयचरणाः’ ‘कपूयचरणाः’ इति । अपि च मुख्येऽनुशयिनां व्रीह्यादिजन्मनि, व्रीह्यादिषु लूयमानेषु कण्ड्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभिमानिनोऽनुशयिनः प्रवसेयुः ; यो हि जीवो यच्छरीरमभिमन्यते, स तस्मिन्पीड्यमाने प्रवसति — इति प्रसिद्धम् ; तत्र व्रीह्यादिभावाद्रेतःसिग्भावोऽनुशयिनां नाभिलप्येत ; अतः संसर्गमात्रमनुशयिनामन्याधिष्ठितेषु व्रीह्यादिषु भवति । एतेन जनेर्मुख्यार्थत्वं प्रतिब्रूयात् , उपभोगस्थानत्वं च स्थावरभावस्य ; न च वयमुपभोगस्थानत्वं स्थावरभावस्यावजानीमहे ; भवत्वन्येषां जन्तूनामपुण्यसामर्थ्येन स्थावरभावमुपगतानाम् एतत् उपभोगस्थानम् ; चन्द्रमसस्तु अवरोहन्तोऽनुशयिनो न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे ॥ २४ ॥

२५ अशुद्धमिति चेन्न शब्दात् ॥

यत्पुनरुक्तम् — पशुहिंसादियोगादशुद्धमाध्वरिकं कर्म, तस्यानिष्टमपि फलमवकल्पत इत्यतो मुख्यमेवानुशयिनां व्रीह्यादिजन्म अस्तु ; तत्र गौणी कल्पना अनर्थिकेति — तत्परिह्रियते — न, शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य ; अयं धर्मः अयमधर्म इति शास्त्रमेव विज्ञाने कारणम् , अतीन्द्रियत्वात्तयोः ; अनियतदेशकालनिमित्तत्वाच्च — यस्मिन्देशे काले निमित्ते च यो धर्मोऽनुष्ठीयते, स एव देशकालनिमित्तान्तरेष्वधर्मो भवति ; तेन न शास्त्रादृते धर्माधर्मविषयं विज्ञानं कस्यचिदस्ति । शास्त्राच्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो धर्म इत्यवधारितः, स कथमशुद्ध इति शक्यते वक्तुम् । ननु ‘न हिंस्यात्सर्वा भूतानि’ इति शास्त्रमेव भूतविषयां हिंसाम् अधर्म इत्यवगमयति ; बाढम् — उत्सर्गस्तु सः ; अपवादोऽयं ‘अग्नीषोमीयं पशुमालभेत’ इति ; उत्सर्गापवादयोश्च व्यवस्थितविषयत्वम् ; तस्माद्विशुद्धं कर्म वैदिकम् , शिष्टैरनुष्ठीयमानत्वात् अनिन्द्यमानत्वाच्च ; तेन न तस्य प्रतिरूपं फलम् जातिस्थावरत्वम् । न च श्वादिजन्मवदपि व्रीह्यादिजन्म भवितुमर्हति ; तद्धि कपूयचरणानधिकृत्य उच्यते ; नैवमिह वैशेषिकः कश्चिदधिकारोऽस्ति । अतश्चन्द्रमण्डलस्खलितानामनुशयिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्युपचर्यते ॥ २५ ॥

२६ रेतःसिग्योगोऽथ ॥

इतश्च व्रीह्यादिसंश्लेषमात्रं तद्भावः, यत्कारणं व्रीह्यादिभावस्यानन्तरमनुशयिनां रेतःसिग्भाव आम्नायते — ‘यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति’ (छा. उ. ५ । १० । ६) इति ; न चात्र मुख्यो रेतःसिग्भावः सम्भवति ; चिरजातो हि प्राप्तयौवनो रेतःसिग्भवति ; कथमिव अनुपचरितं तद्भावम् अद्यमानान्नानुगतोऽनुशयी प्रतिपद्येत ? तत्र तावदवश्यं रेतःसिग्योग एव रेतःसिग्भावोऽभ्युपगन्तव्यः ; तद्वत् व्रीह्यादिभावोऽपि व्रीह्यादियोग एवेत्यविरोधः ॥ २६ ॥

२७ योनेः शरीरम् ॥

अथ रेतःसिग्भावस्यानन्तरं योनौ निषिक्ते रेतसि, योनेरधि शरीरम् अनुशयिनाम् अनुशयफलोपभोगाय जायत इत्याह शास्त्रम् — ‘तद्य इह रमणीयचरणाः’ (छा. उ. ५ । १० । ७) इत्यादि ; तस्मादप्यवगम्यते — नावरोहे व्रीह्यादिभावावसरे तच्छरीरमेव सुखदुःखान्वितं भवतीति । तस्मात् व्रीह्यादिसंश्लेषमात्रमनुशयिनां तज्जन्मेति सिद्धम् ॥ २७ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
तृतीयाध्यायस्य प्रथमः पादः ॥