०५ नातिचिराधिकरणम्

२३ नातिचिरेण विशेषात् ॥

तत्र आकाशादिप्रतिपत्तौ प्राग्व्रीह्यादिभावापत्तेः भवति विशयः — किं दीर्घं दीर्घं कालं पूर्वपूर्वसादृश्येनावस्थायोत्तरोत्तरसादृश्यं गच्छन्ति, उताल्पमल्पमिति । तत्रानियमः, नियमकारिणः शास्त्रस्याभावादित्येवं प्राप्ते, इदमाह — नातिचिरेणेति । अल्पमल्पं कालमाकाशादिभावेनावस्थाय वर्षधाराभिः सह इमां भुवमापतन्ति । कुत एतत् ? विशेषदर्शनात् ; तथा हि व्रीह्यादिभावापत्तेरनन्तरं विशिनष्टि — ‘अतो वै खलु दुर्निष्प्रपतरम्’ (छा. उ. ५ । १० । ६) इति ; तकार एकश्छान्दस्यां प्रक्रियायां लुप्तो मन्तव्यः ; दुर्निष्प्रपततरं दुर्निष्क्रमतरम् — दुःखतरमस्माद्व्रीह्यादिभावान्निःसरणं भवतीत्यर्थः ; तत् अत्र दुःखं निष्प्रपतनं प्रदर्शयन् पूर्वेषु सुखं निष्प्रपतनं दर्शयति ; सुखदुःखताविशेषश्चायं निष्प्रपतनस्य कालाल्पत्वदीर्घत्वनिमित्तः, तस्मिन्नवधौ शरीरानिष्पत्तेरुपभोगासम्भवात् । तस्माद्व्रीह्यादिभावापत्तेः प्राक् अल्पेनैव कालेनावरोहः स्यादिति ॥ २३ ॥