२२ साभाव्यापत्तिरुपपत्तेः ॥
इष्टादिकारिणश्चन्द्रमसमारुह्य तस्मिन्यावत्सम्पातमुषित्वा ततः सानुशया अवरोहन्तीत्युक्तम् ; अथावरोहप्रकारः परीक्ष्यते । तत्रेयमवरोहश्रुतिर्भवति — ‘अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो’ (छा. उ. ५ । १० । ५) ‘भूत्वाभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति’ (छा. उ. ५ । १० । ६) इति । तत्र संशयः — किमाकाशादिस्वरूपमेवावरोहन्तः प्रतिपद्यन्ते, किं वा आकाशादिसाम्यमिति । तत्र प्राप्तं तावत् — आकाशादिस्वरूपमेव प्रतिपद्यन्त इति । कुतः ? एवं हि श्रुतिर्भवति ; इतरथा लक्षणा स्यात् ; श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या, न लक्षणा ; तथा च ‘वायुर्भूत्वा धूमो भवति’ इत्येवमादीन्यक्षराणि तत्तत्स्वरूपापत्तौ आञ्जस्येन अवकल्पन्ते ; तस्मादाकाशादिस्वरूपप्रतिपत्तिरिति ; एवं प्राप्ते, ब्रूमः — आकाशादिसाम्यं प्रतिपद्यन्त इति ; चन्द्रमण्डले यत् अम्मयं शरीरमुपभोगार्थमारब्धम् , तत् उपभोगक्षये सति प्रविलीयमानं सूक्ष्ममाकाशसमं भवति ; ततो वायोर्वशमेति ; ततो धूमादिभिः सम्पृच्यत इति । तदेतदुच्यते — ‘यथेतमाकाशमाकाशाद्वायुम्’ (छा. उ. ५ । १० । ५) इत्येवमादिना । कुत एतत् ? उपपत्तेः ; एवं हि एतदुपपद्यते ; न हि अन्यस्यान्यभावो मुख्य उपपद्यते ; आकाशस्वरूपप्रतिपत्तौ च वाय्वादिक्रमेणावरोहो नोपपद्यते ; विभुत्वाच्च आकाशेन नित्यसम्बद्धत्वात् न तत्सादृश्यापत्तेरन्यः तत्सम्बन्धो घटते । श्रुत्यसम्भवे च लक्षणाश्रयणं न्याय्यमेव । अत आकाशादितुल्यतापत्तिरेव अत्र आकाशादिभाव इत्युपचर्यते ॥ २२ ॥