०३ अनिष्टादिकार्यधिकरणम्

१२ अनिष्टादिकारिणामपि च श्रुतम् ॥

इष्टादिकारिणश्चन्द्रमसं गच्छन्तीत्युक्तम् । ये त्वितरेऽनिष्टादिकारिणः, तेऽपि किं चन्द्रमसं गच्छन्ति, उत न गच्छन्तीति चिन्त्यते । तत्र तावदाह — इष्टादिकारिण एव चन्द्रमसं गच्छन्तीत्येतत् न । कस्मात् ? यतोऽनिष्टादिकारिणामपि चन्द्रमण्डलं गन्तव्यत्वेन श्रुतम् । तथा हि अविशेषेण कौषीतकिनः समामनन्ति — ‘ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति’ (कौ. उ. १ । २) इति । देहारम्भोऽपि च पुनर्जायमानानां न अन्तरेण चन्द्रप्राप्तिम् अवकल्पते, ‘पञ्चम्यामाहुतौ’ इत्याहुतिसंख्यानियमात् । तस्मात्सर्व एव चन्द्रमसमासीदेयुः । इष्टादिकारिणामितरेषां च समानगतित्वं न युक्तमिति चेत् , न, इतरेषां चन्द्रमण्डले भोगाभावात् ॥ १२ ॥

१३ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥

तुशब्दः पक्षं व्यावर्तयति । नैतदस्ति — सर्वे चन्द्रमसं गच्छन्तीति । कस्मात् ? भोगायैव हि चन्द्रारोहणम् , न निष्प्रयोजनम् ; नापि प्रत्यवरोहायैव, — यथा कश्चिद्वृक्षमारोहति पुष्पफलोपादानाय, न निष्प्रयोजनम् , नापि पतनायैव ; भोगश्च अनिष्टादिकारिणां चन्द्रमसि नास्तीत्युक्तम् ; तस्मादिष्टादिकारिण एव चन्द्रमसमारोहन्ति, नेतरे । ते तु संयमनं यमालयमवगाह्य स्वदुष्कृतानुरूपा यामीर्यातना अनुभूय पुनरेव इमं लोकं प्रत्यवरोहन्ति ; एवंभूतौ तेषामारोहावरोहौ भवतः । कुतः ? तद्गतिदर्शनात् ; तथा हि यमवचनसरूपा श्रुतिः प्रयताम् अनिष्टादिकारिणां यमवश्यतां दर्शयति — ‘न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे’ (क. उ. १ । २ । ६) इति । ‘वैवस्वतं सङ्गमनं जनानाम्’ इत्येवंजातीयकं च बह्वेव यमवश्यताप्राप्तिलिङ्गं भवति ॥ १३ ॥

१४ स्मरन्ति च ॥

अपि च मनुव्यासप्रभृतयः शिष्टाः संयमने पुरे यमायत्तं कपूयकर्मविपाकं स्मरन्ति नाचिकेतोपाख्यानादिषु ॥ १४ ॥

१५ अपि च सप्त ॥

अपि च सप्त नरका रौरवप्रमुखा दुष्कृतफलोपभोगभूमित्वेन स्मर्यन्ते पौराणिकैः ; ताननिष्टादिकारिणः प्राप्नुवन्ति ; कुतस्ते चन्द्रं प्राप्नुयुः इत्यभिप्रायः ॥ १५ ॥

ननु विरुद्धमिदम् — यमायत्ता यातनाः पापकर्माणोऽनुभवन्तीति, यावता तेषु रौरवादिषु अन्ये चित्रगुप्तादयो नानाधिष्ठातारः स्मर्यन्त इति ; नेत्याह —

१६ तत्रापि च तद्व्यापारादविरोधः ॥

तेष्वपि सप्तसु नरकेषु तस्यैव यमस्याधिष्ठातृत्वव्यापाराभ्युपगमादविरोधः ; यमप्रयुक्ता एव हि ते चित्रगुप्तादयोऽधिष्ठातारः स्मर्यन्ते ॥ १६ ॥

१७ विद्याकर्मणोरिति तु प्रकृतत्वात् ॥

पञ्चाग्निविद्यायाम् ‘वेत्थ यथासौ लोको न सम्पूर्यते’ (छा. उ. ५ । ३ । ३) इत्यस्य प्रश्नस्य प्रतिवचनावसरे श्रूयते — ‘अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्य म्रियस्त्वेत्येतत्तृतीयँ स्थानं तेनासौ लोको न सम्पूर्यते’ (छा. उ. ५ । १० । ८) इति । तत्र एतयोः पथोरिति विद्याकर्मणोरित्येतत् । कस्मात् ? प्रकृतत्वात् ; विद्याकर्मणी हि देवयानपितृयाणयोः पथोः प्रतिपत्तौ प्रकृते — ‘तद्य इत्थं विदुः’ (छा. उ. ५ । १० । १) इति विद्या, तया प्रतिपत्तव्यो देवयानः पन्थाः प्रकीर्तितः ; ‘इष्टापूर्ते दत्तम्’ (छा. उ. ५ । १० । ३) इति कर्म, तेन प्रतिपत्तव्यः पितृयाणः पन्थाः प्रकीर्तितः — तत्प्रक्रियायाम् ‘अथैतयोः पथोर्न कतरेणचन’ इति श्रुतम् । एतदुक्तं भवति — ये न विद्यासाधनेन देवयाने पथ्यधिकृताः, नापि कर्मणा पितृयाणे, तेषामेष क्षुद्रजन्तुलक्षणोऽसकृदावर्ती तृतीयः पन्था भवतीति ; तस्मादपि न अनिष्टादिकारिभिश्चन्द्रमाः प्राप्यते । स्यादेतत् — तेऽपि चन्द्रबिम्बमारुह्य ततोऽवरुह्य क्षुद्रजन्तुत्वं प्रतिपत्स्यन्त इति । तदपि नास्ति, आरोहानर्थक्यात् । अपि च सर्वेषु प्रयत्सु चन्द्रलोकं प्राप्नुवत्सु असौ लोकः प्रयद्भिः सम्पूर्येत — इत्यतः प्रश्नविरुद्धं प्रतिवचनं प्रसज्येत ; तथा हि प्रतिवचनं दातव्यम् , यथा असौ लोको न सम्पूर्यते । अवरोहाभ्युपगमादसम्पूरणोपपत्तिरिति चेत् , न, अश्रुतत्वात् ; सत्यम् अवरोहादप्यसम्पूरणमुपपद्यते ; श्रुतिस्तु तृतीयस्थानसङ्कीर्तनेन असम्पूरणं दर्शयति — ‘एतत्तृतीयं स्थानँ तेनासौ लोको न सम्पूर्यते’ (छा. उ. ५ । १० । ८) इति ; तेन अनारोहादेव असम्पूरणमिति युक्तम् ; अवरोहस्येष्टादिकारिष्वप्यविशिष्टत्वे सति तृतीयस्थानोक्त्यानर्थक्यप्रसङ्गात् । तुशब्दस्तु शाखान्तरीयवाक्यप्रभवामशेषगमनाशङ्कामुच्छिनत्ति ; एवं सति अधिकृतापेक्षः शाखान्तरीये वाक्ये सर्वशब्दोऽवतिष्ठते — ये वै केचिदधिकृता अस्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति ॥ १७ ॥

यत्पुनरुक्तम् — देहलाभोपपत्तये सर्वे चन्द्रमसं गन्तुमर्हन्ति, ‘पञ्चम्यामाहुतौ’ इत्याहुतिसंख्यानियमादिति, तत्प्रत्युच्यते —

१८ न तृतीये तथोपलब्धेः ॥

न तृतीये स्थाने देहलाभाय पञ्चसंख्यानियम आहुतीनामादर्तव्यः । कुतः ? तथोपलब्धेः ; तथा हि अन्तरेणैवाहुतिसंख्यानियमं वर्णितेन प्रकारेण तृतीयस्थानप्राप्तिरुपलभ्यते — ‘जायस्व म्रियस्वेत्येतत्तृतीयँ स्थानम्’ (छा. उ. ५ । १० । ८) इति । अपि च ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ (छा. उ. ५ । ३ । ३) इति मनुष्यशरीरहेतुत्वेन आहुतिसंख्या सङ्कीर्त्यते, न कीटपतङ्गादिशरीरहेतुत्वेन, पुरुषशब्दस्य मनुष्यजातिवचनत्वात् । अपि च पञ्चम्यामाहुतावपां पुरुषवचस्त्वमुपदिश्यते, न अपञ्चम्यामाहुतौ पुरुषवचस्त्वं प्रतिषिध्यते, वाक्यस्य द्व्यर्थतादोषात् । तत्र येषामारोहावरोहौ सम्भवतः, तेषां पञ्चम्यामाहुतौ देह उद्भविष्यति ; अन्येषां तु विनैवाहुतिसंख्यया भूतान्तरोपसृष्टाभिरद्भिर्देह आरप्स्यते ॥ १८ ॥

१९ स्मर्यतेऽपि च लोके ॥

अपि च स्मर्यते लोके, द्रोणधृष्टद्युम्नप्रभृतीनां सीताद्रौपदीप्रभृतीनां च अयोनिजत्वम् । तत्र द्रोणादीनां योषिद्विषया एका आहुतिर्नास्ति ; धृष्टद्युम्नादीनां तु योषित्पुरुषविषये द्वे अप्याहुती न स्तः । यथा च तत्र आहुतिसंख्यानियमानादरो भवति, एवमन्यत्रापि भविष्यति । बलाकापि अन्तरेणैव रेतःसेकं गर्भं धत्त इति लोकरूढिः ॥ १९ ॥

२० दर्शनाच्च ॥

अपि च चतुर्विधे भूतग्रामे जरायुजाण्डजस्वेदजोद्भिज्जलक्षणे स्वेदजोद्भिज्जयोः अन्तरेणैव ग्राम्यधर्मम् उत्पत्तिदर्शनात् आहुतिसंख्यानादरो भवति । एवमन्यत्रापि भविष्यति ॥ २० ॥

ननु तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति ‘आण्डजं जीवजमुद्भिज्जम्’ (छा. उ. ६ । ३ । १) इत्यत्र त्रिविध एव भूतग्रामः श्रूयते ; कथं चतुर्विधत्वं भूतग्रामस्य प्रतिज्ञातमिति, अत्रोच्यते —

२१ तृतीयशब्दावरोधः संशोकजस्य ॥

‘आण्डजं जीवजमुद्भिज्जम्’ (छा. उ. ६ । ३ । १) इत्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोपसङ्ग्रहः कृतः प्रत्येतव्यः, उभयोरपि स्वेदजोद्भिज्जयोः भूम्युदकोद्भेदप्रभवत्वस्य तुल्यत्वात् । स्थावरोद्भेदात्तु विलक्षणो जङ्गमोद्भेद इत्यन्यत्र स्वेदजोद्भिज्जयोर्भेदवाद इत्यविरोधः ॥ २१ ॥