०२ कृतात्ययाधिकरणम्

०८ कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥

इष्टादिकारिणां धूमादिवर्त्मना चन्द्रमण्डलमधिरूढानां भुक्तभोगानां ततः प्रत्यवरोह आम्नायते — ‘तस्मिन्यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतम्’ (छा. उ. ५ । १० । ५) इत्यारभ्य, — यावत् — रमणीयचरणा ब्राह्मणादियोनिमापद्यन्ते कपूयचरणाः श्वादियोनिमिति । तत्रेदं विचार्यते — किं निरनुशया भुक्तकृत्स्नकर्माणोऽवरोहन्ति, आहोस्वित्सानुशया इति । किं तावत्प्राप्तम् ? निरनुशया इति । कुतः ? ‘यावत्सम्पातम्’ इति विशेषणात् — सम्पातशब्देनात्र कर्माशय उच्यते, सम्पतन्ति अनेन अस्माल्लोकात् अमुं लोकं फलोपभोगायेति ; ‘यावत्सम्पातमुषित्वा’ इति च कृत्स्नस्य तस्य कृतस्य तत्रैव भुक्ततां दर्शयति ; ‘तेषां यदा तत्पर्यवैति’ (बृ. उ. ६ । २ । १६) इति च श्रुत्यन्तरेणैष एवार्थः प्रदर्श्यते । स्यादेतत् — यावदमुष्मिल्ँलोके उपभोक्तव्यं कर्म तावदुपभुङ्क्त इति कल्पयिष्यामीति ; नैवं कल्पयितुं शक्यते, ‘यत्किञ्च’ इत्यन्यत्र परामर्शात् — ‘प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे’ (बृ. उ. ४ । ४ । ६) इति हि अपरा श्रुतिः ‘यत्किञ्च’ इत्यविशेषपरामर्शेन कृत्स्नस्येह कृतस्य कर्मणः तत्र क्षयितां दर्शयति । अपि च प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकम् ; प्राक्प्रायणात् आरब्धफलेन कर्मणा प्रतिबद्धस्याभिव्यक्त्यनुपपत्तेः ; तच्च अविशेषाद्यावत्किञ्चिदनारब्धफलं तस्य सर्वस्याभिव्यञ्जकम् ; न हि साधारणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति ; न ह्यविशिष्टे प्रदीपसन्निधौ, घटोऽभिव्यज्यते न पट इत्युपपद्यते । तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते ब्रूमः —

कृतात्ययेऽनुशयवानिति । येन कर्मबृन्देन चन्द्रमसमारूढाः फलोपभोगाय, तस्मिन्नुपभोगेन क्षयिते, तेषां यदम्मयं शरीरं चन्द्रमस्युपभोगायारब्धम् , तत् उपभोगक्षयदर्शनशोकाग्निसम्पर्कात्प्रविलीयते — सवितृकिरणसम्पर्कादिव हिमकरकाः, हुतभुगर्चिःसम्पर्कादिव च घृतकाठिन्यम् ; ततः कृतात्यये कृतस्येष्टादेः कर्मणः फलोपभोगेनोपक्षये सति, सानुशया एवेममवरोहन्ति । केन हेतुना ? दृष्टस्मृतिभ्यामित्याह । तथा हि प्रत्यक्षा श्रुतिः सानुशयानामवरोहं दर्शयति — ‘तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा’ (छा. उ. ५ । १० । ७) इति ; चरणशब्देनानुशयः सूच्यत इति वर्णयिष्यति । दृष्टश्चायं जन्मनैव प्रतिप्राण्युच्चावचरूप उपभोगः प्रविभज्यमान आकस्मिकत्वासम्भवादनुशयसद्भावं सूचयति, अभ्युदयप्रत्यवाययोः सुकृतदुष्कृतहेतुत्वस्य सामान्यतः शास्त्रेणावगमितत्वात् । स्मृतिरपि — ‘वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते’ (गौ. ध. सू. २ । २ । २९) इति सानुशयानामेवावरोहं दर्शयति ॥

कः पुनरनुशयो नामेति ? केचित्तावदाहुः — स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम, भाण्डानुसारिस्नेहवत् — यथा हि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते, भाण्डानुसार्येव कश्चित्स्नेहशेषोऽवतिष्ठते, तथा अनुशयोऽपीति । ननु कार्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषावस्थानं न्याय्यम् ; नायं दोषः ; न हि सर्वात्मना भुक्तफलत्वं कर्मणः प्रतिजानीमहे । ननु निरवशेषकर्मफलोपभोगाय चन्द्रमण्डलमारूढाः ; बाढम् — तथापि स्वल्पकर्मावशेषमात्रेण तत्रावस्थातुं न लभ्यते ; यथा किल कश्चित्सेवकः सकलैः सेवोपकरणैः राजकुलमुपसृप्तश्चिरप्रवासात्परिक्षीणबहूपकरणश्छत्रपादुकादिमात्रावशेषो न राजकुलेऽवस्थातुं शक्नोति, एवमनुशयमात्रपरिग्रहो न चन्द्रमण्डलेऽवस्थातुं शक्नोतीति ॥

न चैतद्युक्तमिव । न हि स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषानुवृत्तिरुपपद्यते, कार्यविरोधित्वात् — इत्युक्तम् । नन्वेतदप्युक्तम् — न स्वर्गफलस्य कर्मणो निखिलस्य भुक्तफलत्वं भविष्यतीति ; तदेतदपेशलम् — स्वर्गार्थं किल कर्म स्वर्गस्थस्यैव स्वर्गफलं निखिलं न जनयति, स्वर्गच्युतस्यापि कञ्चित्फललेशं जनयतीति ; न शब्दप्रमाणकानामीदृशी कल्पना अवकल्पते ; स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टत्वादुपपद्यते ; तथा सेवकस्योपकरणलेशानुवृत्तिश्च दृश्यते ; न त्विह तथा स्वर्गफलस्य कर्मणो लेशानुवृत्तिर्दृश्यते ; नापि कल्पयितुं शक्यते, स्वर्गफलत्वशास्त्रविरोधात् । अवश्यं चैतदेवं विज्ञेयम् — न स्वर्गफलस्येष्टादेः कर्मणो भाण्डानुसारिस्नेहवदेकदेशोऽनुवर्तमानोऽनुशय इति ; यदि हि येन सुकृतेन कर्मणा इष्टादिना स्वर्गमन्वभूवन् , तस्यैव कश्चिदेकदेशोऽनुशयः कल्प्येत, ततो रमणीय एवैकोऽनुशयः स्यात् , न विपरीतः ; तत्रेयमनुशयविभागश्रुतिरुपरुध्येत — ‘तद्य इह रमणीयचरणाः … अथ य इह कपूयचरणाः’ (छा. उ. ५ । १० । ७) इति । तस्मादामुष्मिकफले कर्मजाते उपभुक्तेऽवशिष्टमैहिकफलं कर्मान्तरजातमनुशयः, तद्वन्तोऽवरोहन्तीति ॥

यदुक्तम् — ‘यत्किञ्च’ इत्यविशेषपरामर्शात्सर्वस्येह कृतस्य कर्मणः फलोपभोगेनान्तं प्राप्य निरनुशया अवरोहन्तीति, नैतदेवम् ; अनुशयसद्भावस्यावगमितत्वात् , यत्किञ्चिदिह कृतमामुष्मिकफलं कर्म आरब्धभोगम् , तत्सर्वं फलोपभोगेन क्षपयित्वा — इति गम्यते । यदप्युक्तम् — प्रायणम् अविशेषादनारब्धफलं कृत्स्नमेव कर्माभिव्यनक्ति ; तत्र केनचित्कर्मणामुष्मिल्ँलोके फलमारभ्यते, केनचिदस्मिन् इत्ययं विभागो न सम्भवतीति — तदप्यनुशयसद्भावप्रतिपादनेनैव प्रत्युक्तम् । अपि च केन हेतुना प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकं प्रतिज्ञायत इति वक्तव्यम् ; आरब्धफलेन कर्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तेः, तदुपशमात् प्रायणकाले वृत्त्युद्भवो भवतीति यद्युच्येत — ततो वक्तव्यम् — यथैव तर्हि प्राक्प्रायणात् आरब्धफलेन कर्मणा प्रतिबद्धस्य इतरस्य वृत्त्युद्भवानुपपत्तिः, एवं प्रायणकालेऽपि विरुद्धफलस्यानेकस्य कर्मणो युगपत्फलारम्भासम्भवात् बलवता प्रतिबद्धस्य दुर्बलस्य वृत्त्युद्भवानुपपत्तिरिति । न हि अनारब्धफलत्वसामान्येन जात्यन्तरोपभोग्यफलमप्यनेकं कर्म एकस्मिन्प्रायणे युगपदभिव्यक्तं सत् एकां जातिमारभत इति शक्यं वक्तुम् , प्रतिनियतफलत्वविरोधात् ; नापि कस्यचित्कर्मणः प्रायणेऽभिव्यक्तिः कस्यचिदुच्छेद इति शक्यते वक्तुम् , ऐकान्तिकफलत्वविरोधात् ; न हि प्रायश्चित्तादिभिर्हेतुभिर्विना कर्मणामुच्छेदः सम्भाव्यते ; स्मृतिरपि विरुद्धफलेन कर्मणा प्रतिबद्धस्य कर्मान्तरस्य चिरमवस्थानं दर्शयति — ‘कदाचित्सुकृतं कर्म कूटस्थमिह तिष्ठति । मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते’ (म. भा. १२ । २९० । १८) इत्येवंजातीयका । यदि च कृत्स्नमनारब्धफलं कर्म एकस्मिन्प्रायणेऽभिव्यक्तं सत् एकां जातिमारभेत, ततः स्वर्गनरकतिर्यग्योनिष्वधिकारानवगमात् धर्माधर्मानुत्पत्तौ निमित्ताभावात् नोत्तरा जातिरुपपद्येत, ब्रह्महत्यादीनां च एकैकस्य कर्मणोऽनेकजन्मनिमित्तत्वं स्मर्यमाणमुपरुध्येत ; न च धर्माधर्मयोः स्वरूपफलसाधनादिसमधिगमे शास्त्रादतिरिक्तं कारणं शक्यं सम्भावयितुम् । न च दृष्टफलस्य कर्मणः कारीर्यादेः प्रायणमभिव्यञ्जकं सम्भवतीति, अव्यापिकापीयं प्रायणस्याभिव्यञ्जकत्वकल्पना । प्रदीपोपन्यासोऽपि कर्मबलाबलप्रदर्शनेनैव प्रतिनीतः ; स्थूलसूक्ष्मरूपाभिव्यक्त्यनभिव्यक्तिवच्चेदं द्रष्टव्यम् — यथा हि प्रदीपः समानेऽपि सन्निधाने स्थूलं रूपमभिव्यनक्ति, न सूक्ष्मम् — एवं प्रायणं समानेऽप्यनारब्धफलस्य कर्मजातस्य प्राप्तावसरत्वे बलवतः कर्मणो वृत्तिमुद्भावयति, न दुर्बलस्येति । तस्माच्छ्रुतिस्मृतिन्यायविरोधादश्लिष्टोऽयमशेषकर्माभिव्यक्त्युपगमः । शेषकर्मसद्भावेऽनिर्मोक्षप्रसङ्ग इत्ययमप्यस्थाने सम्भ्रमः, सम्यग्दर्शनादशेषकर्मक्षयश्रुतेः । तस्मात् स्थितमेतदेव — अनुशयवन्तोऽवरोहन्तीति । ते च अवरोहन्तो यथेतमनेवं च अवरोहन्ति ; यथेतमिति यथागतमित्यर्थः ; अनेवमिति तद्विपर्ययेणेत्यर्थः । धूमाकाशयोः पितृयाणेऽध्वन्युपात्तयोरवरोहे सङ्कीर्तनात् यथेतंशब्दाच्च यथागतमिति प्रतीयते ; रात्र्याद्यसङ्कीर्तनादभ्राद्युपसंख्यानाच्च विपर्ययोऽपि प्रतीयते ॥ ८ ॥

०९ चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः ॥

अथापि स्यात् — या श्रुतिरनुशयसद्भावप्रतिपादनायोदाहृता — ‘तद्य इह रमणीयचरणाः’ (छा. उ. ५ । १० । ७) इति, सा खलु चरणात् योन्यापत्तिं दर्शयति, नानुशयात् ; अन्यच्चरणम् , अन्योऽनुशयः — चरणं चारित्रम् आचारः शीलमित्यनर्थान्तरम् , अनुशयस्तु भुक्तफलात्कर्मणोऽतिरिक्तं कर्म अभिप्रेतम् ; श्रुतिश्च कर्मचरणे भेदेन व्यपदिशति — ‘यथाकारी यथाचारी तथा भवति’ (बृ. उ. ४ । ४ । ५) इति, ‘यान्यनवद्यानि कर्माणि तानि सेवितव्यानि । नो इतराणि । यान्यस्माकँ सुचरितानि तानि त्वयोपास्यानि’ (तै. उ. १ । ११ । २) इति च ; तस्मात् चरणाद्योन्यापत्तिश्रुतेः नानुशयसिद्धिः इति चेत् , नैष दोषः — यतोऽनुशयोपलक्षणार्थैव एषा चरणश्रुतिरिति कार्ष्णाजिनिराचार्यो मन्यते ॥ ९ ॥

१० आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥

स्यादेतत् — कस्मात्पुनश्चरणशब्देन श्रौतं शीलं विहाय लाक्षणिकः अनुशयः प्रत्याय्यते ? ननु शीलस्यैव श्रौतस्य विहितप्रतिषिद्धस्य साध्वसाधुरूपस्य शुभाशुभयोन्यापत्तिः फलं भविष्यति ; अवश्यं च शीलस्यापि किञ्चित्फलमभ्युपगन्तव्यम् , अन्यथा ह्यानर्थक्यमेव शीलस्य प्रसज्येत — इति चेत् , नैष दोषः । कुतः ? तदपेक्षत्वात् ; इष्टादि हि कर्मजातं चरणापेक्षम् ; न हि सदाचारहीनः कश्चिदधिकृतः स्यात् — ‘आचारहीनं न पुनन्ति वेदाः’ इत्यादिस्मृतिभ्यः । पुरुषार्थत्वेऽप्याचारस्य न आनर्थक्यम् ; इष्टादौ हि कर्मजाते फलमारभमाणे तदपेक्ष एवाचारस्तत्रैव कञ्चिदतिशयमारप्स्यते । कर्म च सर्वार्थकारि — इति श्रुतिस्मृतिप्रसिद्धिः । तस्मात्कर्मैव शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारणमिति कार्ष्णाजिनेर्मतम् ; न हि कर्मणि सम्भवति शीलात् योन्यापत्तिर्युक्ता ; न हि पद्भ्यां पलायितुं पारयमाणो जानुभ्यां रंहितुमर्हति — इति ॥ १० ॥

११ सुकृतदुष्कृते एवेति तु बादरिः ॥

बादरिस्त्वाचार्यः सुकृतदुष्कृते एव चरणशब्देन प्रत्याय्येते इति मन्यते ; चरणम् अनुष्ठानं कर्मेत्यनर्थान्तरम् । तथा हि अविशेषेण कर्ममात्रे चरतिः प्रयुज्यमानो दृश्यते — यो हि इष्टादिलक्षणं पुण्यं कर्म करोति, तं लौकिका आचक्षते — धर्मं चरत्येष महात्मेति । आचारोऽपि च धर्मविशेष एव । भेदव्यपदेशस्तु कर्मचरणयोर्ब्राह्मणपरिव्राजकन्यायेनाप्युपपद्यते । तस्मात् रमणीयचरणाः प्रशस्तकर्माणः, कपूयचरणा निन्दितकर्माणः इति निर्णयः ॥ ११ ॥