द्वितीयेऽध्याये स्मृतिन्यायविरोधो वेदान्तविहिते ब्रह्मदर्शने परिहृतः, परपक्षाणां च अनपेक्षत्वं प्रपञ्चितम् , श्रुतिविप्रतिषेधश्च परिहृतः ; तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानि ब्रह्मणो जायन्त इत्युक्तम् । अथेदानीम् उपकरणोपहितस्य जीवस्य संसारगतिप्रकारः तदवस्थान्तराणि ब्रह्मतत्त्वं विद्याभेदाभेदौ गुणोपसंहारानुपसंहारौ सम्यग्दर्शनात्पुरुषार्थसिद्धिः सम्यग्दर्शनोपायविधिप्रभेदः मुक्तिफलानियमश्च — इत्येतदर्थजातं तृतीये निरूपयिष्यते ; प्रसङ्गागतं च किमप्यन्यत् । तत्र प्रथमे तावत्पादे पञ्चाग्निविद्यामाश्रित्य संसारगतिप्रभेदः प्रदर्श्यते वैराग्यहेतोः — ‘तस्माज्जुगुप्सेत’ इति च अन्ते श्रवणात् । जीवो मुख्यप्राणसचिवः सेन्द्रियः समनस्कोऽविद्याकर्मपूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय देहान्तरं प्रतिपद्यत इत्येतदवगतम् — ‘अथैनमेते प्राणा अभिसमायन्ति’ (बृ. उ. ४ । ४ । १) इत्येवमादेः ‘अन्यन्नवतरँ कल्याणतरं रूपं कुरुते’ (बृ. उ. ४ । ४ । ४) इत्येवमन्तात् संसारप्रकरणस्थाच्छब्दात् , धर्माधर्मफलोपभोगसम्भवाच्च ; स किं देहबीजैर्भूतसूक्ष्मैरसम्परिष्वक्तो गच्छति, आहोस्वित्सम्परिष्वक्तः — इति चिन्त्यते ॥
किं तावत्प्राप्तम् ? असम्परिष्वक्त इति । कुतः ? करणोपादानवद्भूतोपादानस्य अश्रुतत्वात् — ‘स एतास्तेजोमात्राः समभ्याददानः’ (बृ. उ. ४ । ४ । १) इति ह्यत्र तेजोमात्राशब्देन करणानामुपादानं सङ्कीर्तयति, वाक्यशेषे चक्षुरादिसङ्कीर्तनात् ; नैवं भूतमात्रोपादानसङ्कीर्तनमस्ति ; सुलभाश्च सर्वत्र भूतमात्राः, यत्रैव देह आरब्धव्यस्तत्रैव सन्ति ; ततश्च तासां नयनं निष्प्रयोजनम् ; तस्मादसम्परिष्वक्तो याति — इत्येवं प्राप्ते, पठत्याचार्यः —