०९ संज्ञामूर्तिकॢप्त्यधिकरणम्

२० संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥

सत्प्रक्रियायां तेजोबन्नानां सृष्टिमभिधायोपदिश्यते — ‘सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ।’ (छा. उ. ६ । ३ । २) ‘तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति’ (छा. उ. ६ । ३ । ३) । तत्र संशयः — किं जीवकर्तृकमिदं नामरूपव्याकरणम् , आहोस्वित्परमेश्वरकर्तृकमिति । तत्र प्राप्तं तावत् — जीवकर्तृकमेवेदं नामरूपव्याकरणमिति । कुतः ? ‘अनेन जीवेनात्मना’ इति विशेषणात् — यथा लोके ‘चारेणाहं परसैन्यमनुप्रविश्य सङ्कलयानि’ इत्येवंजातीयके प्रयोगे, चारकर्तृकमेव सत् सैन्यसङ्कलनं हेतुकर्तृत्वात् राजा आत्मन्यध्यारोपयति सङ्कलयानीत्युत्तमपुरुषप्रयोगेण ; एवं जीवकर्तृकमेव सत् नामरूपव्याकरणं हेतुकर्तृत्वात् देवता आत्मन्यध्यारोपयति व्याकरवाणीत्युत्तमपुरुषप्रयोगेण । अपि च डित्थडवित्थादिषु नामसु घटशरावादिषु च रूपेषु जीवस्यैव व्याकर्तृत्वं दृष्टम् । तस्माज्जीवकर्तृकमेवेदं नामरूपव्याकरणमित्येवं प्राप्ते अभिधत्ते — संज्ञामूर्तिकॢप्तिस्त्विति । तुशब्देन पक्षं व्यावर्तयति । संज्ञामूर्तिकॢप्तिरिति — नामरूपव्याक्रियेत्येतत् ; त्रिवृत्कुर्वत इति परमेश्वरं लक्षयति, त्रिवृत्करणे तस्य निरपवादकर्तृत्वनिर्देशात् — येयं संज्ञाकॢप्तिः मूर्तिकॢप्तिश्च, अग्निः आदित्यः चन्द्रमाः विद्युदिति, तथा कुशकाशपलाशादिषु पशुमृगमनुष्यादिषु च, प्रत्याकृति प्रतिव्यक्ति च अनेकप्रकारा, सा खलु परमेश्वरस्यैव तेजोबन्नानां निर्मातुः कृतिर्भवितुमर्हति । कुतः ? उपदेशात् ; तथा हि — ‘सेयं देवता’ इत्युपक्रम्य ‘व्याकरवाणि’ इत्युत्तमपुरुषप्रयोगेण परस्यैव ब्रह्मणो व्याकर्तृत्वमिहोपदिश्यते । ननु ‘जीवेन’ इति विशेषणात् जीवकर्तृकत्वं व्याकरणस्याध्यवसितम् — नैतदेवम् ; ‘जीवेन’ इत्येतत् ‘अनुप्रविश्य’ इत्यनेन सम्बध्यते, आनन्तर्यात् ; न ‘व्याकरवाणि’ इत्यनेन — तेन हि सम्बन्धे ‘व्याकरवाणि’ इत्ययं देवताविषय उत्तमपुरुष औपचारिकः कल्प्येत ; न च गिरिनदीसमुद्रादिषु नानाविधेषु नामरूपेषु अनीश्वरस्य जीवस्य व्याकरणसामर्थ्यमस्ति ; येष्वपि च अस्ति सामर्थ्यम् , तेष्वपि परमेश्वरायत्तमेव तत् ; न च जीवो नाम परमेश्वरादत्यन्तभिन्नः — चार इव राज्ञः, ‘आत्मना’ इति विशेषणात् , उपाधिमात्रनिबन्धनत्वाच्च जीवभावस्य ; तेन तत्कृतमपि नामरूपव्याकरणं परमेश्वरकृतमेव भवति ; परमेश्वर एव च नामरूपयोर्व्याकर्तेति सर्वोपनिषत्सिद्धान्तः, ‘आकाशो वै नाम नामरूपयोर्निर्वहिता’ (छा. उ. ८ । १४ । १) इत्यादिश्रुतिभ्यः ; तस्मात् परमेश्वरस्यैव त्रिवृत्कुर्वतः कर्म नामरूपव्याकरणम् । त्रिवृत्करणपूर्वकमेवेदम् इह नामरूपव्याकरणं विवक्ष्यते, प्रत्येकं नामरूपव्याकरणस्य तेजोबन्नोत्पत्तिवचनेनैवोक्तत्वात् ; तच्च त्रिवृत्करणमग्न्यादित्यचन्द्रविद्युत्सु श्रुतिर्दर्शयति — ‘यदग्ने रोहितँ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य’ (छा. उ. ६ । ४ । १) इत्यादिना ; तत्राग्निरिति इदं रूपं व्याक्रियते, सति च रूपव्याकरणे विषयप्रतिलम्भादग्निरिति इदं नाम व्याक्रियते ; एवमेवादित्यचन्द्रविद्युत्स्वपि द्रष्टव्यम् । अनेन च अग्न्याद्युदाहरणेन भौमाम्भसतैजसेषु त्रिष्वपि द्रव्येष्वविशेषेण त्रिवृत्करणमुक्तं भवति, उपक्रमोपसंहारयोः साधारणत्वात् ; तथा हि — अविशेषेणैव उपक्रमः — ‘इमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति’ (छा. उ. ६ । ३ । ४) इति, अविशेषेणैव च उपसंहारः — ‘यदु रोहितमिवाभूदिति तेजसस्तद्रूपम्’ (छा. उ. ६ । ४ । ६) इत्येवमादिः, ‘यद्वविज्ञातमिवाभूदित्येतासामेव देवतानाँ समासः’ (छा. उ. ६ । ४ । ७) इत्येवमन्तः ॥ २० ॥

तासां तिसृणां देवतानाम् , बहिस्त्रिवृत्कृतानां सतीनाम् , अध्यात्ममपरं त्रिवृत्करणमुक्तम् — ‘इमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति’ (छा. उ. ६ । ४ । ७) इति ; तदिदानीम् आचार्यो यथाश्रुत्येवोपदर्शयति, आशङ्कितं कञ्चिद्दोषं परिहरिष्यन् —

२१ मांसादि भौमं यथाशब्दमितरयोश्च ॥

भूमेस्त्रिवृत्कृतायाः पुरुषेणोपभुज्यमानाया मांसादिकार्यं यथाशब्दं निष्पद्यते ; तथा हि श्रुतिः — ‘अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्माँसं योऽणिष्ठस्तन्मनः’ (छा. उ. ६ । ५ । १) इति ; त्रिवृत्कृता भूमिरेवैषा व्रीहियवाद्यन्नरूपेण अद्यत इत्यभिप्रायः ; तस्याश्च स्थविष्ठं रूपं पुरीषभावेन बहिर्निर्गच्छति ; मध्यममध्यात्मं मांसं वर्धयति ; अणिष्ठं तु मनः । एवमितरयोरप्तेजसोर्यथाशब्दं कार्यमवगन्तव्यम् — मूत्रं लोहितं प्राणश्च अपां कार्यम् , अस्थि मज्जा वाक् तेजसः — इति ॥ २१ ॥

अत्राह यदि सर्वमेव त्रिवृत्कृतं भूतभौतिकम् , अविशेषश्रुतेः — ‘तासां त्रिवृतं त्रिवृतमेकैकामकरोत्’ इति, किंकृतस्तर्ह्ययं विशेषव्यपदेशः — इदं तेजः, इमा आपः , इदमन्नम् इति , तथा अध्यात्मम् — इदमन्नस्याशितस्य कार्यं मांसादि, इदमपां पीतानां कार्यं लोहितादि, इदं तेजसोऽशितस्य कार्यमस्थ्यादि इति ? अत्रोच्यते —

२२ वैशेष्यात्तु तद्वादस्तद्वादः ॥

तुशब्देन चोदितं दोषमपनुदति ; विशेषस्य भावो वैशेष्यम् , भूयस्त्वमिति यावत् ; सत्यपि त्रिवृत्करणे क्वचित्कस्यचिद्भूतधातोर्भूयस्त्वमुपलभ्यते — अग्नेस्तेजोभूयस्त्वम् , उदकस्याब्भूयस्त्वम् , पृथिव्या अन्नभूयस्त्वम् इति । व्यवहारप्रसिद्ध्यर्थं चेदं त्रिवृत्करणम् ; व्यवहारश्च त्रिवृत्कृतरज्जुवदेकत्वापत्तौ सत्याम् , न भेदेन भूतत्रयगोचरो लोकस्य प्रसिध्येत् । तस्मात्सत्यपि त्रिवृत्करणे वैशेष्यादेव तेजोबन्नविशेषवादो भूतभौतिकविषय उपपद्यते । ‘तद्वादस्तद्वादः’ इति पदाभ्यासः अध्यायपरिसमाप्तिं द्योतयति ॥ २२ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये द्वितीयोऽध्यायः ॥