१४ ज्योतिराद्यधिष्ठानं तु तदामननात् ॥
ते पुनः प्रकृताः प्राणाः किं स्वमहिम्नैव स्वस्मै स्वस्मै कार्याय प्रभवन्ति, आहोस्विद्देवताधिष्ठिताः प्रभवन्ति इति विचार्यते । तत्र प्राप्तं तावत् — यथास्वं कार्यशक्तियोगात् स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति ; अपि च देवताधिष्ठितानां प्राणानां प्रवृत्तावभ्युपगम्यमानायां तासामेवाधिष्ठात्रीणां देवतानां भोक्तृत्वप्रसङ्गात् शारीरस्य भोक्तृत्वं प्रलीयेत ; अतः स्वमहिम्नैव एषां प्रवृत्तिरिति । एवं प्राप्ते, इदमुच्यते — ज्योतिराद्यधिष्ठानं तु — इति । तुशब्देन पूर्वपक्षो व्यावर्त्यते । ज्योतिरादिभिरग्न्याद्यभिमानिनीभिर्देवताभिरधिष्ठितं वागादिकरणजातं स्वकार्येषु प्रवर्तत इति प्रतिजानीते । हेतुं च व्याचष्टे — तदामननादिति ; तथा हि आमनन्ति — ‘अग्निर्वाग्भूत्वा मुखं प्राविशत्’ (ऐ. उ. १ । २ । ४) इत्यादि ; अग्नेश्चायं वाग्भावो मुखप्रवेशश्च देवतात्मना अधिष्ठातृत्वमङ्गीकृत्य उच्यते ; न हि देवतासम्बन्धं प्रत्याख्याय अग्नेः वाचि मुखे वा कश्चिद्विशेषसम्बन्धो दृश्यते ; तथा ‘वायुः प्राणो भूत्वा नासिके प्राविशत्’ (ऐ. उ. १ । २ । ४) इत्येवमाद्यपि योजयितव्यम् । तथा अन्यत्रापि ‘वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च’ (छा. उ. ३ । १८ । ३) इत्येवमादिना वागादीनां अग्न्यादिज्योतिष्ट्वादिवचनेन एतमेवार्थं द्रढयति । ‘स वै वाचमेव प्रथमामत्यवहत्सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्’ (बृ. उ. १ । ३ । १२) इति च एवमादिना वागादीनामग्न्यादिभावापत्तिवचनेन एतमेवार्थं द्योतयति । सर्वत्र च अध्यात्माधिदैवतविभागेन वागाद्यग्न्याद्यनुक्रमणम् अनयैव प्रत्यासत्त्या भवति । स्मृतावपि — ‘वागध्यात्ममिति प्राहुर्ब्राह्मणास्तत्त्वदर्शिनः । वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम्’ इत्यादिना वागादीनामग्न्यादिदेवताधिष्ठितत्वं सप्रपञ्चं प्रदर्शितम् । यदुक्तम् — स्वकार्यशक्तियोगात्स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति, तदयुक्तम् , शक्तानामपि शकटादीनामनडुहाद्यधिष्ठितानां प्रवृत्तिदर्शनात् ; उभयथोपपत्तौ च आगमात् वागादीनां देवताधिष्ठितत्वमेव निश्चीयते ॥ १४ ॥
यदप्युक्तम् — देवतानामेवाधिष्ठात्रीणां भोक्तृत्वप्रसङ्गः, न शारीरस्येति, तत्परिह्रियते —
१५ प्राणवता शब्दात् ॥
सतीष्वपि प्राणानामधिष्ठात्रीषु देवतासु प्राणवता कार्यकरणसङ्घातस्वामिना शारीरेणैव एषां प्राणानां सम्बन्धः श्रुतेरवगम्यते ; तथा हि श्रुतिः — ‘अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम्’ (छा. उ. ८ । १२ । ४) इत्येवंजातीयका शारीरेणैव प्राणानां सम्बन्धं श्रावयति । अपि च अनेकत्वात्प्रतिकरणमधिष्ठात्रीणां देवतानां न भोक्तृत्वम् अस्मिन् शरीरेऽवकल्पते ; एको ह्ययमस्मिन् शरीरे शारीरो भोक्ता प्रतिसन्धानादिसम्भवादवगम्यते ॥ १५ ॥
१६ तस्य च नित्यत्वात् ॥
तस्य च शारीरस्यास्मिन् शरीरे भोक्तृत्वेन नित्यत्वम् — पुण्यपापोपलेपसम्भवात् सुखदुःखोपभोगसम्भवाच्च, न देवतानाम् ; ता हि परस्मिन्नैश्वरे पदेऽवतिष्ठमाना न हीनेऽस्मिन् शरीरे भोक्तृत्वं प्रतिलब्धुमर्हन्ति ; श्रुतिश्च भवति — ‘पुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छति’ (बृ. उ. १ । ५ । २०) इति । शारीरेणैव च नित्यः प्राणानां सम्बन्धः, उत्क्रान्त्यादिषु तदनुवृत्तिदर्शनात् — ‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४ । ४ । २) इत्यादिश्रुतिभ्यः । तस्मात् सतीष्वपि करणानां नियन्त्रीषु देवतासु न शारीरस्य भोक्तृत्वमपगच्छति ; करणपक्षस्यैव हि देवता, न भोक्तृपक्षस्येति ॥ १६ ॥