०६ श्रेष्ठाणुत्वाधिकरणम्

१३ अणुश्च ॥

अणुश्चायं मुख्यः प्राणः प्रत्येतव्यः, इतरप्राणवत् । अणुत्वं च इहापि सौक्ष्म्यपरिच्छेदौ, न परमाणुतुल्यत्वम् , पञ्चभिर्वृत्तिभिः कृत्स्नशरीरव्यापित्वात् ; सूक्ष्मः प्राणः, उत्क्रान्तौ पार्श्वस्थेन अनुपलभ्यमानत्वात् ; परिच्छिन्नश्च, उत्क्रान्तिगत्यागतिश्रुतिभ्यः । ननु विभुत्वमपि प्राणस्य समाम्नायते — ‘समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण’ (बृ. उ. १ । ३ । २२) इत्येवमादिषु प्रदेशेषु ; तदुच्यते — आधिदैविकेन समष्टिव्यष्टिरूपेण हैरण्यगर्भेन प्राणात्मनैव एतद्विभुत्वमाम्नायते, न आध्यात्मिकेन ; अपि च ‘समः प्लुषिणा’ इत्यादिना साम्यवचनेन प्रतिप्राणिवर्तिनः प्राणस्य परिच्छेद एव प्रदर्श्यते ; तस्माददोषः ॥ १३ ॥