०९ न वायुक्रिये पृथगुपदेशात् ॥
स पुनर्मुख्यः प्राणः किंस्वरूप इति इदानीं जिज्ञास्यते । तत्र प्राप्तं तावत् — श्रुतेः वायुः प्राण इति ; एवं हि श्रूयते — ‘यः प्राणः स वायुः स एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समानः’ इति । अथवा तन्त्रान्तरीयाभिप्रायात् समस्तकरणवृत्तिः प्राण इति प्राप्तम् ; एवं हि तन्त्रान्तरीया आचक्षते — ‘सामान्या करणवृत्तिः प्राणाद्या वायवः पञ्च’ इति ॥
अत्रोच्यते — न वायुः प्राणः, नापि करणव्यापारः । कुतः ? पृथगुपदेशात् ; वायोस्तावत् प्राणस्य पृथगुपदेशो भवति — ‘प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च’ (छा. उ. ३ । १८ । ४) इति ; न हि वायुरेव सन् वायोः पृथगुपदिश्येत । तथा करणवृत्तेरपि पृथगुपदेशो भवति, वागादीनि करणान्यनुक्रम्य तत्र तत्र पृथक्प्राणस्यानुक्रमणात् , वृत्तिवृत्तिमतोरभेदात् ; न हि करणव्यापार एव सन् करणेभ्यः पृथगुपदिश्येत । तथा ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुः’ (मु. उ. २ । १ । ३) इत्येवमादयोऽपि वायोः करणेभ्यश्च प्राणस्य पृथगुपदेशा अनुसर्तव्याः । न च समस्तानां करणानामेका वृत्तिः सम्भवति, प्रत्येकमेकैकवृत्तित्वात् , समुदायस्य च अकारकत्वात् । ननु पञ्जरचालनन्यायेन एतद्भविष्यति — यथा एकपञ्जरवर्तिन एकादशपक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः सम्भूय एकं पञ्जरं चालयन्ति, एवमेकशरीरवर्तिन एकादशप्राणाः प्रत्येकं प्रतिनियतवृत्तयः सन्तः सम्भूय एकां प्राणाख्यां वृत्तिं प्रतिलप्स्यन्त इति ; नेत्युच्यते — युक्तं तत्र प्रत्येकवृत्तिभिरवान्तरव्यापारैः पञ्जरचालनानुरूपैरेवोपेताः पक्षिणः सम्भूय एकं पञ्जरं चालयेयुरिति, तथा दृष्टत्वात् ; इह तु श्रवणाद्यवान्तरव्यापारोपेताः प्राणा न सम्भूय प्राण्युरिति युक्तम् , प्रमाणाभावात् , अत्यन्तविजातीयत्वाच्च श्रवणादिभ्यः प्राणनस्य । तथा प्राणस्य श्रेष्ठत्वाद्युद्घोषणम् , गुणभावोपगमश्च तं प्रति वागादीनाम् , न करणवृत्तिमात्रे प्राणेऽवकल्पते । तस्मादन्यो वायुक्रियाभ्यां प्राणः । कथं तर्हीयं श्रुतिः — ‘यः प्राणः स वायुः’ इति ? उच्यते — वायुरेवायम् अध्यात्ममापन्नः पञ्चव्यूहो विशेषात्मनावतिष्ठमानः प्राणो नाम भण्यते, न तत्त्वान्तरम् , नापि वायुमात्रम् ; अतश्चोभे अपि भेदाभेदश्रुती न विरुध्येते ॥ ९ ॥
स्यादेतत् — प्राणोऽपि तर्हि जीववत् अस्मिन् शरीरे स्वातन्त्र्यं प्राप्नोति, श्रेष्ठत्वात् , गुणभावोपगमाच्च तं प्रति वागादीनामिन्द्रियाणाम् ; तथा हि अनेकविधा विभूतिः प्राणस्य श्राव्यते — सुप्तेषु वागादिषु प्राण एवैको जागर्ति, प्राण एवैको मृत्युना अनाप्तः, प्राणः संवर्गो वागादीन् संवृङ्क्ते, प्राण इतरान्प्राणारक्षति मातेव पुत्रान् — इति ; तस्मात्प्राणस्यापि जीववत् स्वातन्त्र्यप्रसङ्गः ; तं परिहरति —
१० चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥
तुशब्दः प्राणस्य जीववत् स्वातन्त्र्यं व्यावर्तयति । यथा चक्षुरादीनि, राजप्रकृतिवत् , जीवस्य कर्तृत्वं भोक्तृत्वं च प्रति उपकरणानि, न स्वतन्त्राणि ; तथा मुख्योऽपि प्राणः, राजमन्त्रिवत् , जीवस्य सर्वार्थकरत्वेन उपकरणभूतः, न स्वतन्त्रः । कुतः ? तत्सहशिष्ट्यादिभ्यः ; तैश्चक्षुरादिभिः सहैव प्राणः शिष्यते प्राणसंवादादिषु ; समानधर्मणां च सह शासनं युक्तं बृहद्रथंतरादिवत् ; आदिशब्देन संहतत्वाचेतनत्वादीन् प्राणस्य स्वतन्त्र्यनिराकरणहेतून् दर्शयति ॥ १० ॥
स्यादेतत् — यदि चक्षुरादिवत् प्राणस्य जीवं प्रति करणभावोऽभ्युपगम्येत, विषयान्तरं रूपादिवत् प्रसज्येत, रूपालोचनादिभिर्वृत्तिभिर्यथास्वं चक्षुरादीनां जीवं प्रति करणभावो भवति । अपि च एकादशैव कार्यजातानि रूपालोचनादीनि परिगणितानि, यदर्थमेकादश प्राणाः सङ्गृहीताः ; न तु द्वादशमपरं कार्यजातमवगम्यते, यदर्थमयं द्वादशः प्राणः प्रतिज्ञायत इति ; अत उत्तरं पठति —
११ अकरणत्वाच्च न दोषस्तथाहि दर्शयति ॥
न तावद्विषयान्तरप्रसङ्गो दोषः, अकरणत्वात्प्राणस्य ; न हि चक्षुरादिवत् प्राणस्य विषयपरिच्छेदेन करणत्वमभ्युपगम्यते । न च अस्य एतावता कार्याभाव एव । कस्मात् ? तथा हि श्रुतिः प्राणान्तरेष्वसम्भाव्यमानं मुख्यप्राणस्य वैशेषिकं कार्यं दर्शयति प्राणसंवादादिषु — ‘अथ ह प्राणा अहँ श्रेयसि व्यूदिरे’ (छा. उ. ५ । १ । ६) इत्युपक्रम्य, ‘यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठः’ (छा. उ. ५ । १ । ७) इति च उपन्यस्य, प्रत्येकं वागाद्युत्क्रमणेन तद्वृत्तिमात्रहीनं यथापूर्वं जीवनं दर्शयित्वा, प्राणोच्चिक्रमिषायां वागादिशैथिल्यापत्तिं शरीरपातप्रसङ्गं च दर्शयन्ती श्रुतिः प्राणनिमित्तां शरीरेन्द्रियस्थितिं दर्शयति ; ‘तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि’ इति च एतमेवार्थं श्रुतिराह । ‘प्राणेन रक्षन्नवरं कुलायम्’ (बृ. उ. ४ । ३ । १२) इति च सुप्तेषु चक्षुरादिषु प्राणनिमित्तां शरीररक्षां दर्शयति ; ‘यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यति’ (बृ. उ. १ । ३ । १९), इति ‘तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति’ इति च प्राणनिमित्तां शरीरेन्द्रियपुष्टिं दर्शयति ; ‘कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति । स प्राणमसृजत’ इति च प्राणनिमित्ते जीवस्योत्क्रान्तिप्रतिष्ठे दर्शयति ॥ ११ ॥
१२ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥
इतश्चास्ति मुख्यस्य प्राणस्य वैशेषिकं कार्यम् , यत्कारणं पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषु — ‘प्राणोऽपानो व्यान उदानः समानः’ (बृ. उ. १ । ५ । ३) इति ; वृत्तिभेदश्चायं कार्यभेदापेक्षः — प्राणः प्राग्वृत्तिः उच्छ्वासादिकर्मा, अपानः अर्वाग्वृत्तिर्निश्वासादिकर्मा, व्यानः तयोः सन्धौ वर्तमानो वीर्यवत्कर्महेतुः, उदानः ऊर्ध्ववृत्तिरुत्क्रान्त्यादिहेतुः, समानः समं सर्वेष्वङ्गेषु योऽन्नरसान्नयति — इत्येवं पञ्चवृत्तिः प्राणः, मनोवत् — यथा मनसः पञ्च वृत्तयः, एवं प्राणस्यापीत्यर्थः । श्रोत्रादिनिमित्ताः शब्दादिविषया मनसः पञ्च वृत्तयः प्रसिद्धाः ; न तु ‘कामः सङ्कल्पः’ इत्याद्याः परिपठिता गृह्येरन् , पञ्चसंख्यातिरेकात् । नन्वत्रापि श्रोत्रादिनिरपेक्षा भूतभविष्यदादिविषया अपरा मनसो वृत्तिरस्तीति समानः पञ्चसंख्यातिरेकः ; एवं तर्हि ‘परमतमप्रतिषिद्धमनुमतं भवति’ इति न्यायात् इहापि योगशास्त्रप्रसिद्धा मनसः पञ्च वृत्तयः परिगृह्यन्ते — ‘प्रमाणविपर्ययविकल्पनिद्रास्मृतयः’ (पा. यो. सू. १ । १ । ६) नाम । बहुवृत्तित्वमात्रेण वा मनः प्राणस्य निदर्शनमिति द्रष्टव्यम् । जीवोपकरणत्वमपि प्राणस्य पञ्चवृत्तित्वात् , मनोवत् — इति वा योजयितव्यम् ॥ १२ ॥