०८ श्रेष्ठश्च ॥
मुख्यश्च प्राण इतरप्राणवद्ब्रह्मविकारः — इत्यतिदिशति । तच्च अविशेषेणैव सर्वप्राणानां ब्रह्मविकारत्वमाख्यातम् — ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ (मु. उ. २ । १ । ३) इति सेन्द्रियमनोव्यतिरेकेण प्राणस्योत्पत्तिश्रवणात् , ‘स प्राणमसृजत’ (प्र. उ. ६ । ४) इत्यादिश्रवणेभ्यश्च । किमर्थः पुनरतिदेशः ? अधिकाशङ्कापाकरणार्थः — नासदासीये हि ब्रह्मप्रधाने सूक्ते मन्त्रवर्णो भवति — ‘न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः । आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनास’ (ऋ. सं. ८ । ७ । १७) इति ; ‘आनीत्’ इति प्राणकर्मोपादानात् प्रागुत्पत्तेः सन्तमिव प्राणं सूचयति ; तस्मादजः प्राण इति जायते कस्यचिन्मतिः ; तामतिदेशेनापनुदति । आनीच्छब्दोऽपि न प्रागुत्पत्तेः प्राणसद्भावं सूचयति, ‘अवातम्’ इति विशेषणात् , ‘अप्राणो ह्यमनाः शुभ्रः’ इति च मूलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वस्य दर्शितत्वात् ; तस्मात्कारणसद्भावप्रदर्शनार्थ एवायम् आनीच्छब्द इति । ‘श्रेष्ठः’ इति च मुख्यं प्राणमभिदधाति, ‘प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च’ (छा. उ. ५ । १ । १) इति श्रुतिनिर्देशात् ; ज्येष्ठश्च प्राणः, शुक्रनिषेककालादारभ्य तस्य वृत्तिलाभात् — न चेत्तस्य तदानीं वृत्तिलाभः स्यात् , योनौ निषिक्तं शुक्रं पूयेत, न सम्भवेद्वा ; श्रोत्रादीनां तु कर्णशष्कुल्यादिस्थानविभागनिष्पत्तौ वृत्तिलाभान्न ज्येष्ठत्वम् । श्रेष्ठश्च प्राणः, गुणाधिक्यात् — ‘न वै शक्ष्यामस्त्वदृते जीवितुम्’ (बृ. उ. ६ । १ । १३) इति श्रुतेः ॥ ८ ॥