०३ प्राणाणुत्वाधिकरणम्

०७ अणवश्च ॥

अधुना प्राणानामेव स्वभावान्तरमभ्युच्चिनोति । अणवश्चैते प्रकृताः प्राणाः प्रतिपत्तव्याः ; अणुत्वं चैषां सौक्ष्म्यपरिच्छेदौ, न परमाणुतुल्यत्वम् , कृत्स्नदेहव्यापिकार्यानुपपत्तिप्रसङ्गात् — सूक्ष्मा एते प्राणाः, स्थूलाश्चेत्स्युः — मरणकाले शरीरान्निर्गच्छन्तः, बिलादहिरिव, उपलभ्येरन् म्रियमाणस्य पार्श्वस्थैः ; परिच्छिन्नाश्चैते प्राणाः, सर्वगताश्चेत्स्युः — उत्क्रान्तिगत्यागतिश्रुतिव्याकोपः स्यात् , तद्गुणसारत्वं च जीवस्य न सिध्येत् । सर्वगतानामपि वृत्तिलाभः शरीरदेशे स्यादिति चेत् , न, वृत्तिमात्रस्य करणत्वोपपत्तेः ; यदेव हि उपलब्धिसाधनम् — वृत्तिः अन्यद्वा — तस्यैव नः करणत्वम् , संज्ञामात्रे विवादः इति करणानां व्यापित्वकल्पना निरर्थिका । तस्मात्सूक्ष्माः परिच्छिन्नाश्च प्राणा इत्यध्यवस्यामः ॥ ७ ॥