०१ प्राणोत्पत्त्यधिकरणम्

०१ तथा प्राणाः ॥

तथा प्राणा इति । कथं पुनरत्र तथा इत्यक्षरानुलोम्यम् , प्रकृतोपमानाभावात् — सर्वगतात्मबहुत्ववादिदूषणम् अतीतानन्तरपादान्ते प्रकृतम् ; तत्तावन्नोपमानं सम्भवति, सादृश्याभावात् ; सादृश्ये हि सति उपमानं स्यात् — यथा सिंहस्तथा बलवर्मेति ; अदृष्टसाम्यप्रतिपादनार्थमिति यद्युच्येत — यथा अदृष्टस्य सर्वात्मसन्निधावुत्पद्यमानस्यानियतत्वम् , एवं प्राणानामपि सर्वात्मनः प्रत्यनियतत्वमिति — तदपि देहानियमेनैवोक्तत्वात्पुनरुक्तं भवेत् ; न च जीवेन प्राणा उपमीयेरन् , सिद्धान्तविरोधात् — जीवस्य हि अनुत्पत्तिराख्याता, प्राणानां तु उत्पत्तिराचिख्यासिता ; तस्मात्तथा इत्यसम्बद्धमिव प्रतिभाति — न, उदाहरणोपात्तेनाप्युपमानेन सम्बन्धोपपत्तेः — अत्र प्राणोत्पत्तिवादिवाक्यजातमुदाहरणम् — ‘एतस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति’ (बृ. उ. २ । १ । २०) इत्येवंजातीयकम् ; तत्र यथा लोकादयः परस्माद्ब्रह्मण उत्पद्यन्ते, तथा प्राणा अपीत्यर्थः ; तथा — ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’ (मु. उ. २ । १ । ३) इत्येवमादिष्वपि खादिवत्प्राणानामुत्पत्तिरिति द्रष्टव्यम् । अथवा ‘पानव्यापच्च तद्वत्’ (जै. सू. ३ । ४ । १५) इत्येवमादिषु व्यवहितोपमानसम्बन्धस्याप्याश्रितत्वात् — यथा अतीतानन्तरपादादावुक्ता वियदादयः परस्य ब्रह्मणो विकाराः समधिगताः, तथा प्राणा अपि परस्य ब्रह्मणो विकारा इति योजयितव्यम् । कः पुनः प्राणानां विकारत्वे हेतुः ? श्रुतत्वमेव । ननु केषुचित्प्रदेशेषु न प्राणानामुत्पत्तिः श्रूयत इत्युक्तम् — तदयुक्तम् , प्रदेशान्तरेषु श्रवणात् ; न हि क्वचिदश्रवणमन्यत्र श्रुतं निवारयितुमुत्सहते ; तस्माच्छ्रुतत्वाविशेषादाकाशादिवत्प्राणा अप्युत्पद्यन्त इति सूक्तम् ॥ १ ॥

०२ गौण्यसम्भवात् ॥

यत्पुनरुक्तं प्रागुत्पत्तेः सद्भावश्रवणाद्गौणी प्राणानामुत्पत्तिश्रुतिरिति, तत्प्रत्याह — गौण्यसम्भवादिति ; गौण्या असम्भवो गौण्यसम्भवः — न हि प्राणानामुत्पत्तिश्रुतिर्गौणी सम्भवति, प्रतिज्ञाहानिप्रसङ्गात् — ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इति हि एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तत्साधनायेदमाम्नायते ‘एतस्माज्जायते प्राणः’ (मु. उ. २ । १ । ३) इत्यादि ; सा च प्रतिज्ञा प्राणादेः समस्तस्य जगतो ब्रह्मविकारत्वे सति प्रकृतिव्यतिरेकेण विकाराभावात्सिध्यति ; गौण्यां तु प्राणानामुत्पत्तिश्रुतौ प्रतिज्ञा इयं हीयेत । तथा च प्रतिज्ञातार्थमुपसंहरति — ‘पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्’ (मु. उ. २ । १ । १०) इति, ‘ब्रह्मैवेदं विश्वमिदं वरिष्ठम्’ (मु. उ. २ । २ । १२) इति च ; तथा ‘आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदँ सर्वं विदितम्’ इत्येवंजातीयकासु श्रुतिषु एषैव प्रतिज्ञा योजयितव्या । कथं पुनः प्रागुत्पत्तेः प्राणानां सद्भावश्रवणम् ? नैतन्मूलप्रकृतिविषयम् , ‘अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः’ (मु. उ. २ । १ । २) इति मूलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वावधारणात् ; अवान्तरप्रकृतिविषयं त्वेतत् स्वविकारापेक्षं प्रागुत्पत्तेः प्राणानां सद्भावावधारणमिति द्रष्टव्यम् , व्याकृतविषयाणामपि भूयसीनामवस्थानां श्रुतिस्मृत्योः प्रकृतिविकारभावप्रसिद्धेः । वियदधिकरणे हि — ‘गौण्यसम्भवात्’ इति पूर्वपक्षसूत्रत्वात् — गौणी जन्मश्रुतिः, असम्भवात् — इति व्याख्यातम् ; प्रतिज्ञाहान्या च तत्र सिद्धान्तोऽभिहितः ; इह तु सिद्धान्तसूत्रत्वात् — गौण्या जन्मश्रुतेरसम्भवात् — इति व्याख्यातम् ; तदनुरोधेन तु इहापि — गौणी जन्मश्रुतिः, असम्भवात् — इति व्याचक्षाणैः प्रतिज्ञाहानिरुपेक्षिता स्यात् ॥ २ ॥

०३ तत्प्राक्श्रुतेश्च ॥

इतश्च आकाशादीनामिव प्राणानामपि मुख्यैव जन्मश्रुतिः — यत् ‘जायते’ इत्येकं जन्मवाचिपदं प्राणेषु प्राक्श्रुतं सत् उत्तरेष्वाकाशादिष्वनुवर्तते ‘एतस्माज्जायते प्राणः’ (मु. उ. २ । १ । ३) इत्यत्र आकाशादिषु मुख्यं जन्मेति प्रतिष्ठापितम् ; तत्सामान्यात्प्राणेष्वपि मुख्यमेव जन्म भवितुमर्हति ; न हि एकस्मिन्प्रकरणे एकस्मिंश्च वाक्ये एकः शब्दः सकृदुच्चरितो बहुभिः सम्बध्यमानः क्वचिन्मुख्यः क्वचिद्गौण इत्यध्यवसातुं शक्यम् , वैरूप्यप्रसङ्गात् । तथा ‘स प्राणमसृजत प्राणाच्छ्रद्धाम्’ (प्र. उ. ६ । ४) इत्यत्रापि प्राणेषु श्रुतः सृजतिः परेष्वप्युत्पत्तिमत्सु श्रद्धादिष्वनुषज्यते । यत्रापि पश्चाच्छ्रुत उत्पत्तिवचनः शब्दः पूर्वैः सम्बध्यते, तत्राप्येष एव न्यायः — यथा ‘सर्वाणि भूतानि व्युच्चरन्ति’ इत्ययमन्ते पठितो व्युच्चरन्तिशब्दः पूर्वैरपि प्राणादिभिः सम्बध्यते ॥ ३ ॥

०४ तत्पूर्वकत्वाद्वाचः ॥

यद्यपि ‘तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इत्येतस्मिन्प्रकरणे प्राणानामुत्पत्तिर्न पठ्यते, तेजोबन्नानामेव त्रयाणां भूतानामुत्पत्तिश्रवणात् ; तथापि ब्रह्मप्रकृतिकतेजोबन्नपूर्वकत्वाभिधानाद्वाक्प्राणमनसाम् , तत्सामान्याच्च सर्वेषामेव प्राणानां ब्रह्मप्रभवत्वं सिद्धं भवति । तथा हि — अस्मिन्नेव प्रकरणे तेजोबन्नपूर्वकत्वं वाक्प्राणमनसामाम्नायते — ‘अन्नमयँ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्’ (छा. उ. ६ । ५ । ४) इति ; तत्र यदि तावन्मुख्यमेवैषामन्नादिमयत्वम् , ततो वर्तत एव ब्रह्मप्रभवत्वम् ; अथ भाक्तम् , तथापि ब्रह्मकर्तृकायां नामरूपव्याक्रियायां श्रवणात् , ‘येनाश्रुतँ श्रुतं भवति’ (छा. उ. ६ । १ । ३) इति चोपक्रमात् ‘ऐतदात्म्यमिदँ सर्वम्’ (छा. उ. ६ । ८ । ७) इति चोपसंहारात् , श्रुत्यन्तरप्रसिद्धेश्च ब्रह्मकार्यत्वप्रपञ्चनार्थमेव मनआदीनामन्नादिमयत्ववचनमिति गम्यते । तस्मादपि प्राणानां ब्रह्मविकारत्वसिद्धिः ॥ ४ ॥