+४

वियदादिविषयः श्रुतिविप्रतिषेधस्तृतीयेन पादेन परिहृतः ; चतुर्थेन इदानीं प्राणविषयः परिह्रियते । तत्र तावत् — ‘तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इति, ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति च एवमादिषु उत्पत्तिप्रकरणेषु प्राणानामुत्पत्तिर्न आम्नायते ; क्वचिच्चानुत्पत्तिरेव एषामाम्नायते, ‘असद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) । तदाहुः किं तदसदासीदित्यृषयो वाव तेऽग्रेऽसदासीत् । तदाहुः के ते ऋषय इति । प्राणा वाव ऋषयः’ — इत्यत्र प्रागुत्पत्तेः प्राणानां सद्भावश्रवणात् ; अन्यत्र तु प्राणानामप्युत्पत्तिः पठ्यते — ‘यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः’ इति, ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ (मु. उ. २ । १ । ३) इति, ‘सप्त प्राणाः प्रभवन्ति तस्मात्’ (मु. उ. २ । १ । ८) इति, ‘स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नम्’ (प्र. उ. ६ । ४) इति च एवमादिप्रदेशेषु । तत्र श्रुतिविप्रतिषेधादन्यतरनिर्धारणकारणानिरूपणाच्च अप्रतिपत्तिः प्राप्नोति । अथवा प्रागुत्पत्तेः सद्भावश्रवणाद्गौणी प्राणानामुत्पत्तिश्रुतिरिति प्राप्नोति । अत इदमुत्तरं पठति —