१७ अंशाधिकरणम्

४३ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥

जीवेश्वरयोरुपकार्योपकारकभाव उक्तः ; स च सम्बद्धयोरेव लोके दृष्टः — यथा स्वामिभृत्ययोः, यथा वा अग्निविस्फुलिङ्गयोः । ततश्च जीवेश्वरयोरप्युपकार्योपकारकभावाभ्युपगमात् किं स्वामिभृत्यवत्सम्बन्धः, आहोस्विदग्निविस्फुलिङ्गवत् इत्यस्यां विचिकित्सायाम् अनियमो वा प्राप्नोति , अथवा स्वामिभृत्यप्रकारेष्वेव ईशित्रीशितव्यभावस्य प्रसिद्धत्वात्तद्विध एव सम्बन्ध इति प्राप्नोति ॥

अतो ब्रवीति अंश इति ; जीव ईश्वरस्यांशो भवितुमर्हति, यथाग्नेर्विस्फुलिङ्गः ; अंश इवांशः ; न हि निरवयवस्य मुख्योंऽशः सम्भवति । कस्मात्पुनः निरवयवत्वात् स एव न भवति ? नानाव्यपदेशात् ; ‘ सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ ‘ एतमेव विदित्वा मुनिर्भवति’ ‘ य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति’ इति च एवंजातीयको भेदनिर्देशो नासति भेदे युज्यते । ननु च अयं नानाव्यपदेशः सुतरां स्वामिभृत्यसारूप्ये युज्यत इति, अत आह — अन्यथा चापीति । न च नानाव्यपदेशादेव केवलादंशत्वप्रतिपत्तिः । किं तर्हि ? अन्यथा चापि व्यपदेशो भवत्यनानात्वस्य प्रतिपादकः ; तथा ह्येके शाखिनो दाशकितवादिभावं ब्रह्मण आमनन्त्याथर्वणिका ब्रह्मसूक्ते — ‘ ब्रह्म दाशा ब्रह्म दासा ब्रह्मैवेमे कितवाः’ इत्यादिना ; दाशा य एते कैवर्ताः प्रसिद्धाः, ये च अमी दासाः स्वामिष्वात्मानमुपक्षपयन्ति, ये च अन्ये कितवा द्यूतकृतः, ते सर्वे ब्रह्मैव — इति हीनजन्तूदाहरणेन सर्वेषामेव नामरूपकृतकार्यकरणसङ्घातप्रविष्टानां जीवानां ब्रह्मत्वमाह ; तथा अन्यत्रापि ब्रह्मप्रक्रियायामेवायमर्थः प्रपञ्च्यते — ‘ त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवति विश्वतोमुखः’ (श्वे. उ. ४ । ३) इति, ‘ सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ इति च ; ‘ नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुतिभ्यश्च अस्यार्थस्य सिद्धिः । चैतन्यं च अविशिष्टं जीवेश्वरयोः, यथाग्निविस्फुलिङ्गयोरौष्ण्यम् । अतो भेदाभेदावगमाभ्यामंशत्वावगमः ॥ ४३ ॥

कुतश्च अंशत्वावगमः ? —

४४ मन्त्रवर्णाच्च ॥

मन्त्रवर्णश्चैतमर्थमवगमयति — ‘ तावानस्य महिमा ततो ज्यायाँश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६) इति ; अत्र भूतशब्देन जीवप्रधानानि स्थावरजङ्गमानि निर्दिशति, ‘ अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः’ इति प्रयोगात् ; अंशः पादो भाग इत्यनर्थान्तरम् ; तस्मादप्यंशत्वावगमः ॥ ४४ ॥

कुतश्च अंशत्वावगमः ? —

४५ अपि च स्मर्यते ॥

ईश्वरगीतास्वपि च ईश्वरांशत्वं जीवस्य स्मर्यते — ‘ ममैवांशो जीवलोके जीवभूतः सनातनः’ (भ. गी. १५ । ७) इति ; तस्मादप्यंशत्वावगमः । यत्तूक्तम् , स्वामिभृत्यादिष्वेव ईशित्रीशितव्यभावो लोके प्रसिद्ध इति — यद्यप्येषा लोके प्रसिद्धिः, तथापि शास्त्रात्तु अत्र अंशांशित्वमीशित्रीशितव्यभावश्च निश्चीयते ; निरतिशयोपाधिसम्पन्नश्चेश्वरो निहीनोपाधिसम्पन्नाञ्जीवान् प्रशास्तीति न किञ्चिद्विप्रतिषिध्यते ॥ ४५ ॥

अत्राह — ननु जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन संसारदुःखोपभोगेनांशिन ईश्वरस्यापि दुःखित्वं स्यात् — यथा लोके हस्तपादाद्यन्यतमाङ्गगतेन दुःखेन अङ्गिनो देवदत्तस्य दुःखित्वम् , तद्वत् ; ततश्च तत्प्राप्तानां महत्तरं दुःखं प्राप्नुयात् ; अतो वरं पूर्वावस्थः संसार एवास्तु — इति सम्यग्दर्शनानर्थक्यप्रसङ्गः स्यात् — इति ; अत्रोच्यते —

४६ प्रकाशादिवन्नैवं परः ॥

यथा जीवः संसारदुःखमनुभवति, नैवं पर ईश्वरोऽनुभवतीति प्रतिजानीमहे ; जीवो हि अविद्यावेशवशात् देहाद्यात्मभावमिव गत्वा, तत्कृतेन दुःखेन दुःखी अहम् इति अविद्यया कृतं दुःखोपभोगम् अभिमन्यते ; नैवं परमेश्वरस्य देहाद्यात्मभावो दुःखाभिमानो वा अस्ति ; जीवस्याप्यविद्याकृतनामरूपनिर्वृत्तदेहेन्द्रियाद्युपाध्यविवेकभ्रमनिमित्त एव दुःखाभिमानः, न तु पारमार्थिकोऽस्ति ; यथा च स्वदेहगतदाहच्छेदादिनिमित्तं दुःखं तदभिमानभ्रान्त्यानुभवति, तथा पुत्रमित्रादिगोचरमपि दुःखं तदभिमानभ्रान्त्यैवानुभवति — अहमेव पुत्रः, अहमेव मित्रम् इत्येवं स्नेहवशेन पुत्रमित्रादिष्वभिनिविशमानः ; ततश्च निश्चितमेतदवगम्यते — मिथ्याभिमानभ्रमनिमित्त एव दुःखानुभव इति । व्यतिरेकदर्शनाच्च एवमवगम्यते ; तथा हि — पुत्रमित्रादिमत्सु बहुषूपविष्टेषु तत्सम्बन्धाभिमानिष्वितरेषु च, पुत्रो मृतो मित्रं मृतमित्येवमाघोषिते, येषामेव पुत्रमित्रादिमत्त्वाभिमानस्तेषामेव तन्निमित्तं दुःखमुत्पद्यते, न अभिमानहीनानां परिव्राजकादीनाम् । अतश्च लौकिकस्यापि पुंसः सम्यग्दर्शनार्थवत्त्वं दृष्टम् , किमुत विषयशून्यादात्मनोऽन्यद्वस्त्वन्तरमपश्यतो नित्यचैतन्यमात्रस्वरूपस्येति ; तस्मान्नास्ति सम्यग्दर्शनानर्थक्यप्रसङ्गः । प्रकाशादिवदिति निदर्शनोपन्यासः — यथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्य अवतिष्ठमानः अङ्गुल्याद्युपाधिसम्बन्धात् तेषु ऋजुवक्रादिभावं प्रतिपद्यमानेषु तत्तद्भावमिव प्रतिपद्यमानोऽपि न परमार्थतस्तद्भावं प्रतिपद्यते, यथा च आकाशो घटादिषु गच्छत्सु गच्छन्निव विभाव्यमानोऽपि न परमार्थतो गच्छति, यथा च उदशरावादिकम्पनात्तद्गते सूर्यप्रतिबिम्बे कम्पमानेऽपि न तद्वान्सूर्यः कम्पते — एवमविद्याप्रत्युपस्थापिते बुद्ध्याद्युपहिते जीवाख्ये अंशे दुःखायमानेऽपि न तद्वानीश्वरो दुःखायते । जीवस्यापि दुःखप्राप्तिरविद्यानिमित्तैवेत्युक्तम् । तथा च अविद्यानिमित्तजीवभावव्युदासेन ब्रह्मभावमेव जीवस्य प्रतिपादयन्ति वेदान्ताः — ‘ तत्त्वमसि’ इत्येवमादयः । तस्मान्नास्ति जैवेन दुःखेन परमात्मनो दुःखित्वप्रसङ्गः ॥ ४६ ॥

४७ स्मरन्ति च ॥

स्मरन्ति च व्यासादयः — यथा जैवेन दुःखेन न परमात्मा दुःखायत इति ; ‘ तत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः । न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा । कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते । स सप्तदशकेनापि राशिना युज्यते पुनः’ इति । चशब्दात् समामनन्ति च — इति वाक्यशेषः — ‘ तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’ (श्वे. उ. ४ । ६) इति, ‘ एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः’ (क. उ. २ । २ । ११) इति च ॥ ४७ ॥

अत्राह — यदि तर्ह्येक एव सर्वेषां भूतानामन्तरात्मा स्यात् , कथमनुज्ञापरिहारौ स्यातां लौकिकौ वैदिकौ चेति । ननु च अंशो जीव ईश्वरस्य इत्युक्तम् ; तद्भेदाच्चानुज्ञापरिहारौ तदाश्रयावव्यतिकीर्णावुपपद्येते ; किमत्र चोद्यत इति, उच्यते — नैतदेवम् ; अनंशत्वमपि हि जीवस्याभेदवादिन्यः श्रुतयः प्रतिपादयन्ति — ‘ तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) ‘ नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) ‘ मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) ‘ तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘ अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) इत्येवंजातीयकाः । ननु भेदाभेदावगमाभ्यामंशत्वं सिध्यतीत्युक्तम् — स्यादेतदेवम् , यद्युभावपि भेदाभेदौ प्रतिपिपादयिषितौ स्याताम् ; अभेद एव त्वत्र प्रतिपिपादयिषितः, ब्रह्मात्मत्वप्रतिपत्तौ पुरुषार्थसिद्धेः ; स्वभावप्राप्तस्तु भेदोऽनूद्यते ; न च निरवयवस्य ब्रह्मणो मुख्योंऽशो जीवः सम्भवतीत्युक्तम् ; तस्मात्पर एवैकः सर्वेषां भूतानामन्तरात्मा जीवभावेनावस्थित इत्यतो वक्तव्या अनुज्ञापरिहारोपपत्तिः । तां ब्रूमः —

४८ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॥

‘ ऋतौ भार्यामुपेयात्’ इत्यनुज्ञा, ‘ गुर्वङ्गनां नोपगच्छेत्’ इति परिहारः ; तथा ‘ अग्नीषोमीयं पशुं संज्ञपयेत्’ इत्यनुज्ञा, ‘ न हिंस्यात्सर्वा भूतानि’ इति परिहारः ; — एवं लोकेऽपि मित्रमुपसेवितव्यमित्यनुज्ञा, शत्रुः परिहर्तव्य इति परिहारः — एवंप्रकारावनुज्ञापरिहारौ एकत्वेऽप्यात्मनः देहसम्बन्धात् स्याताम् । देहैः सम्बन्धो देहसम्बन्धः । कः पुनर्देहसम्बन्धः ? देहादिरयं सङ्घातोऽहमेव — इत्यात्मनि विपरीतप्रत्ययोत्पत्तिः ; दृष्टा च सा सर्वप्राणिनाम् — अहं गच्छामि अहमागच्छामि, अहमन्धः अहमनन्धः, अहं मूढः अहममूढः इत्येवमात्मिका ; न हि अस्याः सम्यग्दर्शनादन्यन्निवारकमस्ति ; प्राक्तु सम्यग्दर्शनात्प्रततैषा भ्रान्तिः सर्वजन्तुषु । तदेवमविद्यानिमित्तदेहाद्युपाधिसम्बन्धकृताद्विशेषादैकात्म्याभ्युपगमेऽप्यनुज्ञापरिहाराववकल्पेते । सम्यग्दर्शिनस्तर्ह्यनुज्ञापरिहारानर्थक्यं प्राप्तम् — न, तस्य कृतार्थत्वान्नियोज्यत्वानुपपत्तेः — हेयोपादेययोर्हि नियोज्यो नियोक्तव्यः स्यात् ; आत्मनस्त्वतिरिक्तं हेयमुपादेयं वा वस्त्वपश्यन् कथं नियुज्येत ; न च आत्मा आत्मन्येव नियोज्यः स्यात् । शरीरव्यतिरेकदर्शिन एव नियोज्यत्वमिति चेत् , न ; तत्संहतत्वाभिमानात् — सत्यं व्यतिरेकदर्शिनो नियोज्यत्वम् ; तथापि व्योमादिवद्देहाद्यसंहतत्वमपश्यत एव आत्मनो नियोज्यत्वाभिमानः ; न हि देहाद्यसंहतत्वदर्शिनः कस्यचिदपि नियोगो दृष्टः, किमुतैकात्म्यदर्शिनः । न च नियोगाभावात् सम्यग्दर्शिनो यथेष्टचेष्टाप्रसङ्गः, सर्वत्राभिमानस्यैव प्रवर्तकत्वात् , अभिमानाभावाच्च सम्यग्दर्शिनः । तस्माद्देहसम्बन्धादेवानुज्ञापरिहारौ — ज्योतिरादिवत् — यथा ज्योतिष एकत्वेऽप्यग्निः क्रव्यात्परिह्रियते, नेतरः ; यथा च प्रकाश एकस्यापि सवितुरमेध्यदेशसम्बद्धः परिह्रियते, नेतरः शुचिभूमिष्ठः ; यथा भौमाः प्रदेशा वज्रवैडूर्यादय उपादीयन्ते, भौमा अपि सन्तो नरकलेबरादयः परिह्रियन्ते ; यथा मूत्रपुरीषं गवां पवित्रतया परिगृह्यते, तदेव जात्यन्तरे परिवर्ज्यते — तद्वत् ॥ ४८ ॥

४९ असन्ततेश्चाव्यतिकरः ॥

स्यातां नाम अनुज्ञापरिहारावेकस्यात्मनो देहविशेषयोगात् ; यस्त्वयं कर्मफलसम्बन्धः, स च ऐकात्म्याभ्युपगमे व्यतिकीर्येत, स्वाम्येकत्वादिति चेत् , नैतदेवम् , असन्ततेः ; न हि कर्तुर्भोक्तुश्चात्मनः सन्ततः सर्वैः शरीरैः सम्बन्धोऽस्ति ; उपाधितन्त्रो हि जीव इत्युक्तम् ; उपाध्यसन्तानाच्च नास्ति जीवसन्तानः — ततश्च कर्मव्यतिकरः फलव्यतिकरो वा न भविष्यति ॥ ४९ ॥

५० आभास एव च ॥

आभास एव च एष जीवः परस्यात्मनो जलसूर्यकादिवत्प्रतिपत्तव्यः, न स एव साक्षात् , नापि वस्त्वन्तरम् । अतश्च यथा नैकस्मिञ्जलसूर्यके कम्पमाने जलसूर्यकान्तरं कम्पते, एवं नैकस्मिञ्जीवे कर्मफलसम्बन्धिनि जीवान्तरस्य तत्सम्बन्धः । एवमव्यतिकर एव कर्मफलयोः । आभासस्य च अविद्याकृतत्वात्तदाश्रयस्य संसारस्याविद्याकृतत्वोपपत्तिरिति, तद्व्युदासेन च पारमार्थिकस्य ब्रह्मात्मभावस्योपदेशोपपत्तिः । येषां तु बहव आत्मानः, ते च सर्वे सर्वगताः, तेषामेवैष व्यतिकरः प्राप्नोति । कथम् ? बहवो विभवश्चात्मानश्चैतन्यमात्रस्वरूपा निर्गुणा निरतिशयाश्च ; तदर्थं साधारणं प्रधानम् ; तन्निमित्तैषां भोगापवर्गसिद्धिरिति सांख्याः । सति बहुत्वे विभुत्वे च घटकुड्यादिसमाना द्रव्यमात्रस्वरूपाः स्वतोऽचेतना आत्मानः, तदुपकरणानि च अणूनि मनांस्यचेतनानि, तत्र आत्मद्रव्याणां मनोद्रव्याणां च संयोगात् नव इच्छादयो वैशेषिका आत्मगुणा उत्पद्यन्ते, ते च अव्यतिरेकेण प्रत्येकमात्मसु समवयन्ति, स संसारः ; तेषां नवानामात्मगुणानामत्यन्तानुत्पादो मोक्ष इति काणादाः । तत्र सांख्यानां तावच्चैतन्यस्वरूपत्वात्सर्वात्मनां सन्निधानाद्यविशेषाच्च एकस्य सुखदुःखसम्बन्धे सर्वेषां सुखदुःखसम्बन्धः प्राप्नोति । स्यादेतत् — प्रधानप्रवृत्तेः पुरुषकैवल्यार्थत्वाद्व्यवस्था भविष्यति ; अन्यथा हि स्वविभूतिख्यापनार्था प्रधानप्रवृत्तिः स्यात् ; तथा च अनिर्मोक्षः प्रसज्येतेति — नैतत्सारम् — न हि अभिलषितसिद्धिनिबन्धना व्यवस्था शक्या विज्ञातुम् ; उपपत्त्या तु कयाचिद्व्यवस्थोच्येत ; असत्यां पुनरुपपत्तौ कामं मा भूदभिलषितं पुरुषकैवल्यम् ; प्राप्नोति तु व्यवस्थाहेत्वभावाद्व्यतिकरः । काणादानामपि — यदा एकेनात्मना मनः संयुज्यते, तदा आत्मान्तरैरपि नान्तरीयकः संयोगः स्यात् , सन्निधानाद्यविशेषात् ; ततश्च हेत्वविशेषात्फलाविशेष इत्येकस्यात्मनः सुखदुःखयोगे सर्वात्मनामपि समानं सुखदुःखित्वं प्रसज्येत ॥ ५० ॥

स्यादेतत् — अदृष्टनिमित्तो नियमो भविष्यतीति ; नेत्याह —

५१ अदृष्टानियमात् ॥

बहुष्वात्मस्वाकाशवत्सर्वगतेषु प्रतिशरीरं बाह्याभ्यन्तराविशेषेण सन्निहितेषु मनोवाक्कायैर्धर्माधर्मलक्षणमदृष्टमुपार्ज्यते । सांख्यानां तावत् तदनात्मसमवायि प्रधानवर्ति । प्रधानसाधारण्यान्न प्रत्यात्मं सुखदुःखोपभोगस्य नियामकमुपपद्यते । काणादानामपि पूर्ववत्साधारणेनात्ममनःसंयोगेन निर्वर्तितस्यादृष्टस्यापि अस्यैवात्मन इदमदृष्टमिति नियमे हेत्वभावादेष एव दोषः ॥ ५१ ॥

स्यादेतत् — अहमिदं फलं प्राप्नवानि, इदं परिहराणि, इत्थं प्रयतै, इत्थं करवाणि — इत्येवंविधा अभिसन्ध्यादयः प्रत्यात्मं प्रवर्तमाना अदृष्टस्यात्मनां च स्वस्वामिभावं नियंस्यन्तीति ; नेत्याह —

५२ अभिसन्ध्यादिष्वपि चैवम् ॥

अभिसन्ध्यादीनामपि साधारणेनैवात्ममनःसंयोगेन सर्वात्मसन्निधौ क्रियमाणानां नियमहेतुत्वानुपपत्तेरुक्तदोषानुषङ्ग एव ॥ ५२ ॥

५३ प्रदेशादिति चेन्नान्तर्भावात् ॥

अथोच्येत — विभुत्वेऽप्यात्मनः शरीरप्रतिष्ठेन मनसा संयोगः शरीरावच्छिन्न एव आत्मप्रदेशे भविष्यति ; अतः प्रदेशकृता व्यवस्था अभिसन्ध्यादीनामदृष्टस्य सुखदुःखयोश्च भविष्यतीति । तदपि नोपपद्यते । कस्मात् ? अन्तर्भावात् ; विभुत्वाविशेषाद्धि सर्व एवात्मानः सर्वशरीरेष्वन्तर्भवन्ति ; तत्र न वैशेषिकैः शरीरावच्छिन्नोऽप्यात्मनः प्रदेशः कल्पयितुं शक्यः ; कल्प्यमानोऽप्ययं निष्प्रदेशस्यात्मनः प्रदेशः काल्पनिकत्वादेव न पारमार्थिकं कार्यं नियन्तुं शक्नोति ; शरीरमपि सर्वात्मसन्निधावुत्पद्यमानम् — अस्यैव आत्मनः, नेतरेषाम् — इति न नियन्तुं शक्यम् । प्रदेशविशेषाभ्युपगमेऽपि च द्वयोरात्मनोः समानसुखदुःखभाजोः कदाचिदेकेनैव तावच्छरीरेणोपभोगसिद्धिः स्यात् , समानप्रदेशस्यापि द्वयोरात्मनोरदृष्टस्य सम्भवात् ; तथा हि — देवदत्तो यस्मिन्प्रदेशे सुखदुःखमन्वभूत् , तस्मात्प्रदेशादपक्रान्ते तच्छरीरे, यज्ञदत्तशरीरे च तं प्रदेशमनुप्राप्ते, तस्यापि इतरेण समानः सुखदुःखानुभवो दृश्यते ; स न स्यात् , यदि देवदत्तयज्ञदत्तयोः समानप्रदेशमदृष्टं न स्यात् । स्वर्गाद्यनुपभोगप्रसङ्गश्च प्रदेशवादिनः स्यात् , ब्राह्मणादिशरीरप्रदेशेष्वदृष्टनिष्पत्तेः प्रदेशान्तरवर्तित्वाच्च स्वर्गाद्युपभोगस्य । सर्वगतत्वानुपपत्तिश्च बहूनामात्मनाम् , दृष्टान्ताभावात् ; वद तावत् त्वम् — के बहवः समानदेशाश्चेति ; रूपादय इति चेत् , न ; तेषामपि धर्म्यंशेनाभेदात् , लक्षणभेदाच्च — न तु बहूनामात्मनां लक्षणभेदोऽस्ति ; अन्त्यविशेषवशाद्भेदोपपत्तिरिति चेत् , न ; भेदकल्पनाया अन्त्यविशेषकल्पनायाश्च इतरेतराश्रयत्वात् ; आकाशादीनामपि विभुत्वं ब्रह्मवादिनोऽसिद्धम् , कार्यत्वाभ्युपगमात् । तस्मादात्मैकत्वपक्ष एव सर्वदोषाभाव इति सिद्धम् ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये द्वितीयाध्यायस्य तृतीयः पादः ॥