४१ परात्तु तच्छ्रुतेः ॥
यदिदमविद्यावस्थायामुपाधिनिबन्धनं कर्तृत्वं जीवस्याभिहितम् , तत्किमनपेक्ष्येश्वरं भवति, आहोस्विदीश्वरापेक्षमिति भवति विचारणा । तत्र प्राप्तं तावत् — नेश्वरमपेक्षते जीवः कर्तृत्व इति । कस्मात् ? अपेक्षाप्रयोजनाभावात् ; अयं हि जीवः स्वयमेव रागद्वेषादिदोषप्रयुक्तः कारकान्तरसामग्रीसम्पन्नः कर्तृत्वमनुभवितुं शक्नोति ; तस्य किमीश्वरः करिष्यति । न च लोके प्रसिद्धिरस्ति — कृष्यादिकासु क्रियास्वनडुहादिवत् ईश्वरोऽपरोऽपेक्षितव्य इति । क्लेशात्मकेन च कर्तृत्वेन जन्तून्संसृजत ईश्वरस्य नैर्घृण्यं प्रसज्येत ; विषमफलं च एषां कर्तृत्वं विदधतो वैषम्यम् । ननु ‘वैषम्यनैर्घृण्ये न सापेक्षत्वात्’ (ब्र. सू. २ । १ । ३४) इत्युक्तम् — सत्यमुक्तम् , सति तु ईश्वरस्य सापेक्षत्वसम्भवे ; सापेक्षत्वं च ईश्वरस्य सम्भवति सतोर्जन्तूनां धर्माधर्मयोः ; तयोश्च सद्भावः सति जीवस्य कर्तृत्वे ; तदेव चेत्कर्तृत्वमीश्वरापेक्षं स्यात् , किंविषयमीश्वरस्य सापेक्षत्वमुच्यते । अकृताभ्यागमश्चैवं जीवस्य प्रसज्येत । तस्मात्स्वत एवास्य कर्तृत्वमिति — एतां प्राप्तिं तुशब्देन व्यावर्त्य प्रतिजानीते — परादिति ; अविद्यावस्थायां कार्यकरणसङ्घाताविवेकदर्शिनो जीवस्याविद्यातिमिरान्धस्य सतः परस्मादात्मनः कर्माध्यक्षात्सर्वभूताधिवासात्साक्षिणश्चेतयितुरीश्वरात्तदनुज्ञया कर्तृत्वभोक्तृत्वलक्षणस्य संसारस्य सिद्धिः ; तदनुग्रहहेतुकेनैव च विज्ञानेन मोक्षसिद्धिर्भवितुमर्हति । कुतः ? तच्छ्रुतेः ; यद्यपि दोषप्रयुक्तः सामग्रीसम्पन्नश्च जीवः, यद्यपि च लोके कृष्यादिषु कर्मसु नेश्वरकारणत्वं प्रसिद्धम् , तथापि सर्वास्वेव प्रवृत्तिष्वीश्वरो हेतुकर्तेति श्रुतेरवसीयते ; तथा हि श्रुतिर्भवति — ‘ एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष ह्येवासाधु कर्म कारयति तं यमधो निनीषते’ (कौ. उ. ३ । ७) इति, ‘ य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति’ इति च एवंजातीयका ॥ ४१ ॥
ननु एवमीश्वरस्य कारयितृत्वे सति वैषम्यनैर्घृण्ये स्याताम् , अकृताभ्यागमश्च जीवस्येति ; नेत्युच्यते —
४२ कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥
तुशब्दश्चोदितदोषव्यावर्तनार्थः । कृतो यः प्रयत्नो जीवस्य धर्माधर्मलक्षणः, तदपेक्ष एवैनमीश्वरः कारयति ; अतश्चैते चोदिता दोषा न प्रसज्यन्ते — जीवकृतधर्माधर्मवैषम्यापेक्ष एव तत्तत्फलानि विषमं विभजते पर्जन्यवत् ईश्वरो निमित्तत्वमात्रेण — यथा लोके नानाविधानां गुच्छगुल्मादीनां व्रीहियवादीनां च असाधारणेभ्यः स्वस्वबीजेभ्यो जायमानानां साधारणं निमित्तं भवति पर्जन्यः — न हि असति पर्जन्ये रसपुष्पफलपलाशादिवैषम्यं तेषां जायते, नाप्यसत्सु स्वस्वबीजेषु — एवं जीवकृतप्रयत्नापेक्ष ईश्वरः तेषां शुभाशुभं विदध्यादिति श्लिष्यते । ननु कृतप्रयत्नापेक्षत्वमेव जीवस्य परायत्ते कर्तृत्वे नोपपद्यते — नैष दोषः ; परायत्तेऽपि हि कर्तृत्वे, करोत्येव जीवः, कुर्वन्तं हि तमीश्वरः कारयति ; अपि च पूर्वप्रयत्नमपेक्ष्य इदानीं कारयति, पूर्वतरं च प्रयत्नमपेक्ष्य पूर्वमकारयदिति — अनादित्वात्संसारस्येति — अनवद्यम् । कथं पुनरवगम्यते — कृतप्रयत्नापेक्ष ईश्वर इति ? विहितप्रतिषिद्धावैयर्थ्यादिभ्यः इत्याह ; एवं हि ‘ स्वर्गकामो यजेत’ ‘ ब्राह्मणो न हन्तव्यः’ इत्येवंजातीयकस्य विहितस्य प्रतिषिद्धस्य च अवैयर्थ्यं भवति ; अन्यथा तदनर्थकं स्यात् ; ईश्वर एव विधिप्रतिषेधयोर्नियुज्येत, अत्यन्तपरतन्त्रत्वाज्जीवस्य ; तथा विहितकारिणमप्यनर्थेन संसृजेत् , प्रतिषिद्धकारिणमप्यर्थेन ; ततश्च प्रामाण्यं वेदस्यास्तमियात् ; ईश्वरस्य च अत्यन्तानपेक्षत्वे लौकिकस्यापि पुरुषकारस्य वैयर्थ्यम् , तथा देशकालनिमित्तानाम् ; पूर्वोक्तदोषप्रसङ्गश्च — इत्येवंजातीयकं दोषजातमादिग्रहणेन दर्शयति ॥ ४२ ॥