३३ कर्ता शास्त्रार्थवत्त्वात् ॥
तद्गुणसारत्वाधिकारेणैवापरोऽपि जीवधर्मः प्रपञ्च्यते । कर्ता च अयं जीवः स्यात् । कस्मात् ? शास्त्रार्थवत्त्वात् — एवं च ‘ यजेत’ ‘ जुहुयात्’ ‘ दद्यात्’ इत्येवंविधं विधिशास्त्रमर्थवद्भवति ; अन्यथा तदनर्थकं स्यात् ; तद्धि कर्तुः सतः कर्तव्यविशेषमुपदिशति ; न च असति कर्तृत्वे तदुपपद्येत । तथेदमपि शास्त्रमर्थवद्भवति — ‘ एष हि द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः’ (प्र. उ. ४ । ९) इति ॥ ३३ ॥
३४ विहारोपदेशात् ॥
इतश्च जीवस्य कर्तृत्वम् , यज्जीवप्रक्रियायां सन्ध्ये स्थाने विहारमुपदिशति — ‘ स ईयतेऽमृतो यत्र कामम्’ (बृ. उ. ४ । ३ । १२) इति, ‘ स्वे शरीरे यथाकामं परिवर्तते’ (बृ. उ. २ । १ । १८) इति च ॥ ३४ ॥
३५ उपादानात् ॥
इतश्चास्य कर्तृत्वम् , यज्जीवप्रक्रियायामेव करणानामुपादानं सङ्कीर्तयति — ‘ तदेषां प्राणानां विज्ञानेन विज्ञानमादाय’ (बृ. उ. २ । १ । १७) इति, ‘ प्राणान्गृहीत्वा’ (बृ. उ. २ । १ । १८) इति च ॥ ३५ ॥
३६ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॥
इतश्च जीवस्य कर्तृत्वम् , यदस्य लौकिकीषु वैदिकीषु च क्रियासु कर्तृत्वं व्यपदिशति शास्त्रम् — ‘ विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च’ (तै. उ. २ । ५ । १) इति । ननु विज्ञानशब्दो बुद्धौ समधिगतः, कथमनेन जीवस्य कर्तृत्वं सूच्यत इति, नेत्युच्यते — जीवस्यैवैष निर्देशः, न बुद्धेः ; न चेज्जीवस्य स्यात् , निर्देशविपर्ययः स्यात् — विज्ञानेनेत्येवं निरदेक्ष्यत् ; तथा हि अन्यत्र बुद्धिविवक्षायां विज्ञानशब्दस्य करणविभक्तिनिर्देशो दृश्यते — ‘ तदेषां प्राणानां विज्ञानेन विज्ञानमादाय’ (बृ. उ. २ । १ । १७) इति ; इह तु ‘ विज्ञानं यज्ञं तनुते’ (तै. उ. २ । ५ । १) इति कर्तृसामानाधिकरण्यनिर्देशाद्बुद्धिव्यतिरिक्तस्यैवात्मनः कर्तृत्वं सूच्यत इत्यदोषः ॥ ३६ ॥
अत्राह — यदि बुद्धिव्यतिरिक्तो जीवः कर्ता स्यात् , स स्वतन्त्रः सन् प्रियं हितं चैव आत्मनो नियमेन सम्पादयेत् , न विपरीतम् ; विपरीतमपि तु सम्पादयन्नुपलभ्यते ; न च स्वतन्त्रस्यात्मनः ईदृशी प्रवृत्तिरनियमेनोपपद्यत इति, अत उत्तरं पठति —
३७ उपलब्धिवदनियमः ॥
यथायमात्मोपलब्धिं प्रति स्वतन्त्रोऽपि अनियमेनेष्टमनिष्टं च उपलभते, एवमनियमेनैवेष्टमनिष्टं च सम्पादयिष्यति ; उपलब्धावप्यस्वातन्त्र्यम् , उपलब्धिहेतूपादानोपलम्भादिति चेत् , न । विषयप्रकल्पनामात्रप्रयोजनत्वादुपलब्धिहेतूनाम् । उपलब्धौ तु अनन्यापेक्षत्वमात्मनः, चैतन्ययोगात् । अपि च अर्थक्रियायामपि नात्यन्तमात्मनः स्वातन्त्र्यमस्ति, देशकालनिमित्तविशेषापेक्षत्वात् । न च सहायापेक्षस्य कर्तुः कर्तृत्वं निवर्तते । भवति ह्येधोदकाद्यपेक्षस्यापि पक्तुः पक्तृत्वम् । सहकारिवैचित्र्याच्च इष्टानिष्टार्थक्रियायामनियमेन प्रवृत्तिरात्मनो न विरुध्यते ॥ ३७ ॥
३८ शक्तिविपर्ययात् ॥
इतश्च विज्ञानव्यतिरिक्तो जीवः कर्ता भवितुमर्हति । यदि पुनर्विज्ञानशब्दवाच्या बुद्धिरेव कर्त्री स्यात् , ततः शक्तिविपर्ययः स्यात् — करणशक्तिर्बुद्धेर्हीयेत, कर्तृशक्तिश्चापद्येत ; सत्यां च बुद्धेः कर्तृशक्तौ, तस्या एव अहंप्रत्ययविषयत्वमभ्युपगन्तव्यम् , अहंकारपूर्विकाया एव प्रवृत्तेः सर्वत्र दर्शनात् — ‘ अहं गच्छामि, अहमागच्छामि, अहं भुञ्जे, अहं पिबामि’ इति च ; तस्याश्च कर्तृशक्तियुक्तायाः सर्वार्थकारि करणमन्यत्कल्पयितव्यम् ; शक्तोऽपि हि सन् कर्ता करणमुपादाय क्रियासु प्रवर्तमानो दृश्यते ; ततश्च संज्ञामात्रे विवादः स्यात् , न वस्तुभेदः कश्चित् , करणव्यतिरिक्तस्य कर्तृत्वाभ्युपगमात् ॥ ३८ ॥
३९ समाध्यभावाच्च ॥
योऽप्ययमौपनिषदात्मप्रतिपत्तिप्रयोजनः समाधिरुपदिष्टो वेदान्तेषु — ‘ आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) ‘ सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ ‘ ओमित्येवं ध्यायथ आत्मानम्’ (मु. उ. २ । २ । ६) इत्येवंलक्षणः, सोऽप्यसत्यात्मनः कर्तृत्वे नोपपद्येत । तस्मादप्यस्य कर्तृत्वसिद्धिः ॥ ३९ ॥