१३ उत्क्रान्तिगत्यधिकरणम्

१९ उत्क्रान्तिगत्यागतीनाम् ॥

इदानीं तु किंपरिमाणो जीव इति चिन्त्यते — किमणुपरिमाणः, उत मध्यमपरिमाणः, आहोस्वित् महापरिमाण इति । ननु च नात्मोत्पद्यते नित्यचैतन्यश्चायमित्युक्तम् ; अतश्च पर एव आत्मा जीव इत्यापतति ; परस्य च आत्मनोऽनन्तत्वमाम्नातम् ; तत्र कुतो जीवस्य परिमाणचिन्तावतार इति ; उच्यते — सत्यमेतत् ; उत्क्रान्तिगत्यागतिश्रवणानि तु जीवस्य परिच्छेदं प्रापयन्ति ; स्वशब्देन च अस्य क्वचिदणुपरिमाणत्वमाम्नायते ; तस्य सर्वस्यानाकुलत्वोपपादनायायमारम्भः । तत्र प्राप्तं तावत् — उत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नोऽणुपरिमाणो जीव इति ; उत्क्रान्तिस्तावत् — ‘ स यदास्माच्छरीरादुत्क्रामति सहैवैतैः सर्वैरुत्क्रामति’ (कौ. उ. ३ । ४) इति ; गतिरपि — ‘ ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति’ (कौ. उ. १ । २) इति ; आगतिरपि — ‘ तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे’ (बृ. उ. ४ । ४ । ६) इति ; आसामुत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नस्तावज्जीव इति प्राप्नोति — न हि विभोश्चलनमवकल्पत इति ; सति परिच्छेदे, शरीरपरिमाणत्वस्यार्हतपरीक्षायां निरस्तत्वात् अणुरात्मेति गम्यते ॥ १९ ॥

२० स्वात्मना चोत्तरयोः ॥

उत्क्रान्तिः कदाचिदचलतोऽपि ग्रामस्वाम्यनिवृत्तिवद्देहस्वाम्यनिवृत्त्या कर्मक्षयेणावकल्पेत ; उत्तरे तु गत्यागती नाचलतः सम्भवतः ; स्वात्मना हि तयोः सम्बन्धो भवति, गमेः कर्तृस्थक्रियात्वात् ; अमध्यमपरिमाणस्य च गत्यागती अणुत्वे एव सम्भवतः ; सत्योश्च गत्यागत्योरुत्क्रान्तिरप्यपसृप्तिरेव देहादिति प्रतीयते ; न हि अनपसृप्तस्य देहाद्गत्यागती स्याताम् — देहप्रदेशानां च उत्क्रान्तावपादानत्ववचनात् — ‘ चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः’ (बृ. उ. ४ । ४ । २) इति ; ‘ स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति’ (बृ. उ. ४ । ४ । १) ‘ शुक्रमादाय पुनरैति स्थानम्’ (बृ. उ. ४ । ३ । ११) इति चान्तरेऽपि शरीरे शारीरस्य गत्यागती भवतः ; तस्मादप्यस्याणुत्वसिद्धिः ॥ २० ॥

२१ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥

अथापि स्यात् — नाणुरयमात्मा । कस्मात् ? अतच्छ्रुतेः ; अणुत्वविपरीतपरिमाणश्रवणादित्यर्थः ; ‘ स वा एष महानज आत्मा, योऽयं विज्ञानमयः प्राणेषु’ (बृ. उ. ४ । ४ । २२) ‘ आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) ‘ सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इत्येवंजातीयका हि श्रुतिरात्मनोऽणुत्वे विप्रतिषिध्येतेति चेत् , नैष दोषः । कस्मात् ? इतराधिकारात् — परस्य हि आत्मनः प्रक्रियायामेषा परिमाणान्तरश्रुतिः, परस्यैवात्मनः प्राधान्येन वेदान्तेषु वेदितव्यत्वेन प्रकृतत्वात् , ‘ विरजः पर आकाशात्’ इत्येवंविधाच्च परस्यैवात्मनस्तत्र तत्र विशेषाधिकारात् । ननु ‘ योऽयं विज्ञानमयः प्राणेषु’ (बृ. उ. ४ । ४ । २२) इति शारीर एव महत्त्वसम्बन्धित्वेन प्रतिनिर्दिश्यते — शास्त्रदृष्ट्या तु एष निर्देशो वामदेववद्द्रष्टव्यः । तस्मात्प्राज्ञविषयत्वात्परिमाणान्तरश्रवणस्य न जीवस्याणुत्वं विरुध्यते ॥ २१ ॥

२२ स्वशब्दोन्मानाभ्यां च ॥

इतश्चाणुरात्मा, यतः साक्षादेवास्याणुत्ववाची शब्दः श्रूयते — ‘ एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश’ (मु. उ. ३ । १ । ९) इति ; प्राणसम्बन्धाच्च जीव एवायमणुरभिहित इति गम्यते । तथोन्मानमपि जीवस्याणिमानं गमयति — ‘ बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः’ (श्वे. उ. ५ । ९) इति ; ‘ आराग्रमात्रो ह्यवरोऽपि दृष्टः’ (श्वे. उ. ५ । ८) इति च उन्मानान्तरम् ॥ २२ ॥

नन्वणुत्वे सति एकदेशस्थस्य सकलदेहगतोपलब्धिर्विरुध्यते ; दृश्यते च जाह्नवीह्रदनिमग्नानां सर्वाङ्गशैत्योपलब्धिः, निदाघसमये च सकलशरीरपरितापोपलब्धिरिति — अत उत्तरं पठति —

२३ अविरोधश्चन्दनवत् ॥

यथा हि हरिचन्दनबिन्दुः शरीरैकदेशसम्बद्धोऽपि सन् सकलदेहव्यापिनमाह्लादं करोति, एवमात्मापि देहैकदेशस्थः सकलदेहव्यापिनीमुपलब्धिं करिष्यति ; त्वक्सम्बन्धाच्चास्य सकलशरीरगता वेदना न विरुध्यते ; त्वगात्मनोर्हि सम्बन्धः कृत्स्नायां त्वचि वर्तते ; त्वक्च कृत्स्नशरीरव्यापिनीति ॥ २३ ॥

२४ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥

अत्राह — यदुक्तमविरोधश्चन्दनवदिति, तदयुक्तम् , दृष्टान्तदार्ष्टान्तिकयोरतुल्यत्वात् ; सिद्धे हि आत्मनो देहैकदेशस्थत्वे चन्दनदृष्टान्तो भवति, प्रत्यक्षं तु चन्दनस्यावस्थितिवैशेष्यमेकदेशस्थत्वं सकलदेहाह्लादनं च ; आत्मनः पुनः सकलदेहोपलब्धिमात्रं प्रत्यक्षम् , नैकदेशवर्तित्वम् ; अनुमेयं तु तदिति यदप्युच्येत — न च अत्रानुमानं सम्भवति — किमात्मनः सकलशरीरगता वेदना त्वगिन्द्रियस्येव सकलदेहव्यापिनः सतः, किं वा विभोर्नभस इव, आहोस्विच्चन्दनबिन्दोरिवाणोरेकदेशस्थस्य इति संशयानतिवृत्तेरिति ; अत्रोच्यते — नायं दोषः । कस्मात् ? अभ्युपगमात् । अभ्युपगम्यते हि आत्मनोऽपि चन्दनस्येव देहैकदेशवृत्तित्वमवस्थितिवैशेष्यम् ; कथमिति, उच्यते — हृदि ह्येष आत्मा पठ्यते वेदान्तेषु , ‘ हृदि ह्येष आत्मा’ (प्र. उ. ३ । ६) ‘ स वा एष आत्मा हृदि’ (छा. उ. ८ । ३ । ३) ‘ कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’ (बृ. उ. ४ । ३ । ७) इत्याद्युपदेशेभ्यः । तस्माद्दृष्टान्तदार्ष्टान्तिकयोरवैषम्यात् युक्तमेवैतत् — ‘ अविरोधश्चन्दनवत्’ इति ॥ २४ ॥

२५ गुणाद्वा लोकवत् ॥

चैतन्यगुणव्याप्तेर्वा अणोरपि सतो जीवस्य सकलदेहव्यापि कार्यं न विरुध्यते — यथा लोके मणिप्रदीपप्रभृतीनामपवरकैकदेशवर्तिनामपि प्रभा अपवरकव्यापिनी सती कृत्स्नेऽपवरके कार्यं करोति — तद्वत् । स्यात् कदाचिच्चन्दनस्य सावयवत्वात्सूक्ष्मावयवविसर्पणेनापि सकलदेह आह्लादयितृत्वम् ; न त्वणोर्जीवस्यावयवाः सन्ति, यैरयं सकलदेहं विसर्पेत् — इत्याशङ्क्य ‘ गुणाद्वा लोकवत्’ इत्युक्तम् ॥ २५ ॥

कथं पुनर्गुणो गुणिव्यतिरेकेणान्यत्र वर्तेत ? न हि पटस्य शुक्लो गुणः पटव्यतिरेकेणान्यत्र वर्तमानो दृश्यते । प्रदीपप्रभावद्भवेदिति चेत् , न ; तस्या अपि द्रव्यत्वाभ्युपगमात् — निबिडावयवं हि तेजोद्रव्यं प्रदीपः, प्रविरलावयवं तु तेजोद्रव्यमेव प्रभा इति, अत उत्तरं पठति —

२६ व्यतिरेको गन्धवत् ॥

यथा गुणस्यापि सतो गन्धस्य गन्धवद्द्रव्यव्यतिरेकेण वृत्तिर्भवति, अप्राप्तेष्वपि कुसुमादिषु गन्धवत्सु कुसुमगन्धोपलब्धेः ; एवमणोरपि सतो जीवस्य चैतन्यगुणव्यतिरेको भविष्यति । अतश्चानैकान्तिकमेतत् — गुणत्वाद्रूपादिवदाश्रयविश्लेषानुपपत्तिरिति । गुणस्यैव सतो गन्धस्य आश्रयविश्लेषदर्शनात् । गन्धस्यापि सहैवाश्रयेण विश्लेष इति चेत् , न ; यस्मान्मूलद्रव्याद्विश्लेषः तस्य क्षयप्रसङ्गात् ; अक्षीयमाणमपि तत्पूर्वावस्थातो गम्यते ; अन्यथा तत्पूर्वावस्थैर्गुरुत्वादिभिर्हीयेत । स्यादेतत् — गन्धाश्रयाणां विश्लिष्टानामवयवानामल्पत्वात् सन्नपि विशेषो नोपलक्ष्यते ; सूक्ष्मा हि गन्धपरमाणवः सर्वतो विप्रसृता गन्धबुद्धिमुत्पादयन्ति नासिकापुटमनुप्रविशन्त इति चेत् , न ; अतीन्द्रियत्वात्परमाणूनाम् , सुफुटगन्धोपलब्धेश्च नागकेसरादिषु ; न च लोके प्रतीतिः — गन्धवद्द्रव्यमाघ्रातमिति ; गन्ध एव आघ्रात इति तु लौकिकाः प्रतियन्ति । रूपादिष्वाश्रयव्यतिरेकानुपलब्धेर्गन्धस्याप्ययुक्त आश्रयव्यतिरेक इति चेत् , न ; प्रत्यक्षत्वादनुमानाप्रवृत्तेः ; तस्मात् यत् यथा लोके दृष्टम् , तत् तथैव अनुमन्तव्यं निरूपकैः, नान्यथा ; न हि रसो गुणो जिह्वयोपलभ्यत इत्यतो रूपादयोऽपि गुणा जिह्वयैवोपलभ्येरन्निति नियन्तुं शक्यते ॥ २६ ॥

२७ तथा च दर्शयति ॥

हृदयायतनत्वमणुपरिमाणत्वं च आत्मनः अभिधाय तस्यैव ‘ आ लोमभ्य आ नखाग्रेभ्यः’ (छा. उ. ८ । ८ । १) इति चैतन्येन गुणेन समस्तशरीरव्यापित्वं दर्शयति ॥ २७ ॥

२८ पृथगुपदेशात् ॥

‘ प्रज्ञया शरीरं समारुह्य’ (कौ. उ. ३ । ६) इति च आत्मप्रज्ञयोः कर्तृकरणभावेन पृथगुपदेशात् चैतन्यगुणेनैव अस्य शरीरव्यापिता गम्यते । ‘ तदेषां प्राणानां विज्ञानेन विज्ञानमादाय’ (बृ. उ. २ । १ । १७) इति च कर्तुः शारीरात्पृथग्विज्ञानस्योपदेशः एतमेवाभिप्रायमुपोद्बलयति । तस्मादणुरात्मेति ॥ २८ ॥

एवं प्राप्ते, ब्रूमः —

२९ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥

तुशब्दः पक्षं व्यावर्तयति । नैतदस्ति — अणुरात्मेति ; उत्पत्त्यश्रवणात् परस्यैव तु ब्रह्मणः प्रवेशश्रवणात् तादात्म्योपदेशाच्च परमेव ब्रह्म जीव इत्युक्तम् ; परमेव चेद्ब्रह्म जीवः, तस्माद्यावत्परं ब्रह्म तावानेव जीवो भवितुमर्हति ; परस्य च ब्रह्मणो विभुत्वमाम्नातम् ; तस्माद्विभुर्जीवः ; तथा च ‘ स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु’ (बृ. उ. ४ । ४ । २२) इत्येवंजातीयका जीवविषया विभुत्ववादाः श्रौताः स्मार्ताश्च समर्थिता भवन्ति । न च अणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते ; त्वक्सम्बन्धात्स्यादिति चेत् , न ; कण्टकतोदनेऽपि सकलशरीरगतैव वेदना प्रसज्येत — त्वक्कण्टकयोर्हि संयोगः कृत्स्नायां त्वचि वर्तते — त्वक्च कृत्स्नशरीरव्यापिनीति ; पादतल एव तु कण्टकनुन्नो वेदनां प्रतिलभते । न च अणोर्गुणव्याप्तिरुपपद्यते, गुणस्य गुणिदेशत्वात् ; गुणत्वमेव हि गुणिनमनाश्रित्य गुणस्य हीयेत ; प्रदीपप्रभायाश्च द्रव्यान्तरत्वं व्याख्यातम् । गन्धोऽपि गुणत्वाभ्युपगमात्साश्रय एव सञ्चरितुमर्हति, अन्यथा गुणत्वहानिप्रसङ्गात् ; तथा चोक्तं भगवता द्वैपायनेन — ‘ उपलभ्याप्सु चेद्गन्धं केचिद्ब्रूयुरनैपुणाः । पृथिव्यामेव तं विद्यादपो वायुं च संश्रितम्’ इति । यदि च चैतन्यं जीवस्य समस्तशरीरं व्याप्नुयात् , नाणुर्जीवः स्यात् ; चैतन्यमेव हि अस्य स्वरूपम् , अग्नेरिवौष्ण्यप्रकाशौ — नात्र गुणगुणिविभागो विद्यत इति । शरीरपरिमाणत्वं च प्रत्याख्यातम् । परिशेषाद्विभुर्जीवः ॥

कथं तर्हि अणुत्वादिव्यपदेश इत्यत आह — तद्गुणसारत्वात्तु तद्व्यपदेश इति । तस्या बुद्धेः गुणास्तद्गुणाः — इच्छा द्वेषः सुखं दुःखमित्येवमादयः — तद्गुणाः सारः प्रधानं यस्यात्मनः संसारित्वे सम्भवति, स तद्गुणसारः, तस्य भावस्तद्गुणसारत्वम् । न हि बुद्धेर्गुणैर्विना केवलस्य आत्मनः संसारित्वमस्ति ; बुद्ध्युपाधिधर्माध्यासनिमित्तं हि कर्तृत्वभोक्तृत्वादिलक्षणं संसारित्वम् अकर्तुरभोक्तुश्चासंसारिणो नित्यमुक्तस्य सत आत्मनः ; तस्मात्तद्गुणसारत्वाद्बुद्धिपरिमाणेनास्य परिमाणव्यपदेशः, तदुत्क्रान्त्यादिभिश्च अस्योत्क्रान्त्यादिव्यपदेशः, न स्वतः । तथा च — ‘ वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते’ (श्वे. उ. ५ । ९) इत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाह ; तच्चैवमेव समञ्जसं स्यात् — यद्यौपचारिकमणुत्वं जीवस्य भवेत् , पारमार्थिकं च आनन्त्यम् ; न हि उभयं मुख्यमवकल्पेत ; न च आनन्त्यमौपचारिकमिति शक्यं विज्ञातुम् , सर्वोपनिषत्सु ब्रह्मात्मभावस्य प्रतिपिपादयिषितत्वात् । तथेतरस्मिन्नप्युन्माने ‘ बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरोऽपि दृष्टः’ (श्वे. उ. ५ । ८) इति च बुद्धिगुणसम्बन्धेनैव आराग्रमात्रतां शास्ति, न स्वेनैवात्मना । ‘ एषोऽणुरात्मा चेतसा वेदितव्यः’ (मु. उ. ३ । १ । ९) इत्यत्रापि न जीवस्य अणुपरिमाणत्वं शिष्यते, परस्यैवात्मनश्चक्षुराद्यनवग्राह्यत्वेन ज्ञानप्रसादगम्यत्वेन च प्रकृतत्वात् , जीवस्यापि च मुख्याणुपरिमाणत्वानुपपत्तेः ; तस्माद्दुर्ज्ञानत्वाभिप्रायमिदमणुत्ववचनम् , उपाध्यभिप्रायं वा द्रष्टव्यम् । तथा ‘ प्रज्ञया शरीरं समारुह्य’ (कौ. उ. ३ । ६) इत्येवंजातीयकेष्वपि भेदोपदेशेषु — बुद्ध्यैवोपाधिभूतया जीवः शरीरं समारुह्य — इत्येवं योजयितव्यम् , व्यपदेशमात्रं वा — शिलापुत्रकस्य शरीरमित्यादिवत् ; न ह्यत्र गुणगुणिविभागोऽपि विद्यत इत्युक्तम् । हृदयायतनत्ववचनमपि बुद्धेरेव तदायतनत्वात् । तथा उत्क्रान्त्यादीनामप्युपाध्यायत्ततां दर्शयति — ‘ कस्मिन्नु अहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति’ (प्र. उ. ६ । ३) । ‘ स प्राणमसृजत’ (प्र. उ. ६ । ४) इति ; उत्क्रान्त्यभावे हि गत्यागत्योरप्यभावो विज्ञायते ; न हि अनपसृप्तस्य देहाद्गत्यागती स्याताम् । एवमुपाधिगुणसारत्वाज्जीवस्याणुत्वादिव्यपदेशः, प्राज्ञवत् । यथा प्राज्ञस्य परमात्मनः सगुणेषूपासनेषु उपाधिगुणसारत्वादणीयस्त्वादिव्यपदेशः — ‘ अणीयान्व्रीहेर्वा यवाद्वा’ (छा. उ. ३ । १४ । ३) ‘ मनोमयः प्राणशरीरः … सर्वगन्धः सर्वरसः’ ‘ सत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८ । ७ । १) इत्येवंप्रकारः — तद्वत् ॥ २९ ॥

स्यादेतत् — यदि बुद्धिगुणसारत्वादात्मनः संसारित्वं कल्प्येत, ततो बुद्ध्यात्मनोर्भिन्नयोः संयोगावसानमवश्यंभावीत्यतो बुद्धिवियोगे सति आत्मनो विभक्तस्यानालक्ष्यत्वादसत्त्वमसंसारित्वं वा प्रसज्येतेति — अत उत्तरं पठति —

३० यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥

नेयमनन्तरनिर्दिष्टदोषप्राप्तिराशङ्कनीया । कस्मात् ? यावदात्मभावित्वाद्बुद्धिसंयोगस्य — यावदयमात्मा संसारी भवति, यावदस्य सम्यग्दर्शनेन संसारित्वं न निवर्तते, तावदस्य बुद्ध्या संयोगो न शाम्यति ; यावदेव चायं बुद्ध्युपाधिसम्बन्धः, तावदेवास्य जीवत्वं संसारित्वं च ; परमार्थतस्तु न जीवो नाम बुद्ध्युपाधिपरिकल्पितस्वरूपव्यतिरेकेणास्ति ; न हि नित्यमुक्तस्वरूपात्सर्वज्ञादीश्वरादन्यश्चेतनो धातुर्द्वितीयो वेदान्तार्थनिरूपणायामुपलभ्यते — ‘ नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता’ (बृ. उ. ३ । ७ । २३) ‘ नान्यदतोऽस्ति द्रष्टृ श्रोतृ मन्तृ विज्ञातृ’ (छा. उ. ३ । ८ । ११) ‘ तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘ अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) इत्यादिश्रुतिशतेभ्यः । कथं पुनरवगम्यते यावदात्मभावी बुद्धिसंयोग इति ? तद्दर्शनादित्याह ; तथा हि शास्त्रं दर्शयति — ‘ योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इत्यादि ; तत्र विज्ञानमय इति बुद्धिमय इत्येतदुक्तं भवति, प्रदेशान्तरे ‘ विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः’ इति विज्ञानमयस्य मनआदिभिः सह पाठात् ; बुद्धिमयत्वं च तद्गुणसारत्वमेवाभिप्रेयते — यथा लोके स्त्रीमयो देवदत्त इति स्त्रीरागादिप्रधानोऽभिधीयते, तद्वत् ; ‘ स समानः सन्नुभौ लोकावनुसञ्चरति’ इति च लोकान्तरगमनेऽप्यवियोगं बुद्ध्या दर्शयति — केन समानः ? — तयैव बुद्ध्येति गम्यते, सन्निधानात् ; तच्च दर्शयति — ‘ ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति ; एतदुक्तं भवति — नायं स्वतो ध्यायति, नापि चलति, ध्यायन्त्यां बुद्धौ ध्यायतीव, चलन्त्यां बुद्धौ चलतीवेति । अपि च मिथ्याज्ञानपुरःसरोऽयमात्मनो बुद्ध्युपाधिसम्बन्धः ; न च मिथ्याज्ञानस्य सम्यग्ज्ञानादन्यत्र निवृत्तिरस्तीत्यतो यावद्ब्रह्मात्मतानवबोधः, तावदयं बुद्ध्युपाधिसम्बन्धो न शाम्यति ; दर्शयति च — ‘ वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इति ॥ ३० ॥

ननु सुषुप्तप्रलययोर्न शक्यते बुद्धिसम्बन्ध आत्मनोऽभ्युपगन्तुम् , ‘ सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति’ (छा. उ. ६ । ८ । १) इति वचनात् , कृत्स्नविकारप्रलयाभ्युपगमाच्च ; तत्कथं यावदात्मभावित्वं बुद्धिसम्बन्धस्येति, अत्रोच्यते —

३१ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥

यथा लोके पुंस्त्वादीनि बीजात्मना विद्यमानान्येव बाल्यादिष्वनुपलभ्यमानान्यविद्यमानवदभिप्रेयमाणानि यौवनादिष्वाविर्भवन्ति ; न अविद्यमानान्युत्पद्यन्ते, षण्डादीनामपि तदुत्पत्तिप्रसङ्गात् — एवमयमपि बुद्धिसम्बन्धः शक्त्यात्मना विद्यमान एव सुषुप्तप्रलययोः पुनः प्रबोधप्रसवयोराविर्भवति ; एवं हि एतद्युज्यते ; न हि आकस्मिकी कस्यचिदुत्पत्तिः सम्भवति, अतिप्रसङ्गात् । दर्शयति च सुषुप्तादुत्थानमविद्यात्मकबीजसद्भावकारितम् — ‘ सति सम्पद्य न विदुः सति सम्पद्यामह इति ।’ (छा. उ. ६ । ९ । २) ‘ त इह व्याघ्रो वा सिँहो वा’ (छा. उ. ६ । ९ । ३) इत्यादिना । तस्मात्सिद्धमेतत् — यावदात्मभावी बुद्ध्याद्युपाधिसम्बन्ध इति ॥ ३१ ॥

३२ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ॥

तच्चात्मन उपाधिभूतम् — अन्तःकरणं मनो बुद्धिर्विज्ञानं चित्तमिति च अनेकधा तत्र तत्राभिलप्यते ; क्वचिच्च वृत्तिविभागेन — संशयादिवृत्तिकं मन इत्युच्यते, निश्चयादिवृत्तिकं बुद्धिरिति ; तच्चैवंभूतमन्तःकरणमवश्यमस्तीत्यभ्युपगन्तव्यम् , अन्यथा ह्यनभ्युपगम्यमाने तस्मिन्नित्योपलब्ध्यनुपलब्धिप्रसङ्गः स्यात् — आत्मेन्द्रियविषयाणामुपलब्धिसाधनानां सन्निधाने सति नित्यमेवोपलब्धिः प्रसज्येत ; अथ सत्यपि हेतुसमवधाने फलाभावः, ततो नित्यमेवानुपलब्धिः प्रसज्येत ; न चैवं दृश्यते । अथवा अन्यतरस्यात्मन इन्द्रियस्य वा शक्तिप्रतिबन्धोऽभ्युपगन्तव्यः ; न च आत्मनः शक्तिप्रतिबन्धः सम्भवति, अविक्रियत्वात् ; नापि इन्द्रियस्य ; न हि तस्य पूर्वोत्तरयोः क्षणयोरप्रतिबद्धशक्तिकस्य सतोऽकस्माच्छक्तिः प्रतिबध्येत । तस्मात् यस्यावधानानवधानाभ्यामुपलब्ध्यनुपलब्धी भवतः, तन्मनः । तथा च श्रुतिः — ‘ अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषम्’ (बृ. उ. १ । ५ । ३) इति, ‘ मनसा ह्येव पश्यति मनसा शृणोति’ (बृ. उ. १ । ५ । ३) इति च ; कामादयश्चास्य वृत्तय इति दर्शयति — ‘ कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव’ (बृ. उ. १ । ५ । ३) इति । तस्माद्युक्तमेतत् — तद्गुणसारत्वात्तद्व्यपदेश इति ॥ ३२ ॥