१८ ज्ञोऽत एव ॥
स किं काणभुजानामिवागन्तुकचैतन्यः, स्वतोऽचेतनः, आहोस्वित्सांख्यानामिव नित्यचैतन्यस्वरूप एव, इति वादिविप्रतिपत्तेः संशयः । किं तावत्प्राप्तम् ? आगन्तुकमात्मनश्चैतन्यमात्ममनःसंयोगजम् , अग्निघटसंयोगजरोहितादिगुणवदिति प्राप्तम् ; नित्यचैतन्यत्वे हि सुप्तमूर्छितग्रहाविष्टानामपि चैतन्यं स्यात् ; ते पृष्टाः सन्तः ‘ न किञ्चिद्वयमचेतयामहि’ इति जल्पन्ति ; स्वस्थाश्च चेतयमाना दृश्यन्ते ; अतः कादाचित्कचैतन्यत्वादागन्तुकचैतन्य आत्मेति ॥
एवं प्राप्ते, अभिधीयते — ज्ञः नित्यचैतन्योऽयमात्मा — अत एव — यस्मादेव नोत्पद्यते, परमेव ब्रह्म अविकृतमुपाधिसम्पर्काज्जीवभावेनावतिष्ठते ; परस्य हि ब्रह्मणश्चैतन्यस्वरूपत्वमाम्नातम् — ‘ विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) ‘ सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) ‘ अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’ (बृ. उ. ४ । ५ । १३) इत्यादिषु श्रुतिषु ; तदेव चेत्परं ब्रह्म जीवः, तस्माज्जीवस्यापि नित्यचैतन्यस्वरूपत्वमग्न्यौष्ण्यप्रकाशवदिति गम्यते । विज्ञानमयप्रक्रियायां च श्रुतयो भवन्ति — ‘ असुप्तः सुप्तानभिचाकशीति’ (बृ. उ. ४ । ३ । ११) ‘ अत्रायं पुरुषः स्वयंज्योतिर्भवति’ (बृ. उ. ४ । ३ । ९) इति, ‘ न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । ३०) इत्येवंरूपाः । ‘ अथ यो वेदेदं जिघ्राणीति स आत्मा’ (छा. उ. ८ । १२ । ४) इति च — सर्वैः करणद्वारैः ‘ इदं वेद, इदं वेद’ इति विज्ञानेनानुसन्धानात् तद्रूपत्वसिद्धिः । नित्यचैतन्यस्वरूपत्वे घ्राणाद्यानर्थक्यमिति चेत् , न, गन्धादिविषयविशेषपरिच्छेदार्थत्वात् ; तथा हि दर्शयति — ‘ गन्धाय घ्राणम्’ इत्यादि । यत्तु सुप्तादयो न चेतयन्त इति, तस्य श्रुत्यैव परिहारोऽभिहितः । सुषुप्तं प्रकृत्य — ‘ यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति ; न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् ; न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्’ (बृ. उ. ४ । ३ । २३) इत्यादिना ; एतदुक्तं भवति — विषयाभावादियमचेतयमानता, न चैतन्याभावादिति — यथा वियदाश्रयस्य प्रकाशस्य प्रकाश्याभावादनभिव्यक्तिः, न स्वरूपाभावात् — तद्वत् । वैशेषिकादितर्कश्च श्रुतिविरोध आभासी भवति । तस्मान्नित्यचैतन्यस्वरूप एव आत्मेति निश्चिनुमः ॥ १८ ॥