१७ नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॥
अस्त्यात्मा जीवाख्यः शरीरेन्द्रियपञ्जराध्यक्षः कर्मफलसम्बन्धी ; स किं व्योमादिवदुत्पद्यते ब्रह्मणः, आहोस्विद्ब्रह्मवदेव नोत्पद्यते, इति श्रुतिविप्रतिपत्तेर्विशयः ; कासुचिच्छ्रुतिषु अग्निविस्फुलिङ्गादिनिदर्शनैर्जीवात्मनः परस्माद्ब्रह्मण उत्पत्तिराम्नायते ; कासुचित्तु अविकृतस्यैव परस्य ब्रह्मणः कार्यप्रवेशेन जीवभावो विज्ञायते, न च उत्पत्तिराम्नायत इति । तत्र प्राप्तं तावत् — उत्पद्यते जीव इति । कुतः ? प्रतिज्ञानुपरोधादेव । ‘ एकस्मिन्विदिते सर्वमिदं विदितम्’ इतीयं प्रतिज्ञा सर्वस्य वस्तुजातस्य ब्रह्मप्रभवत्वे सति नोपरुध्येत, तत्त्वान्तरत्वे तु जीवस्य प्रतिज्ञेयमुपरुध्येत । न च अविकृतः परमात्मैव जीव इति शक्यते विज्ञातुम् , लक्षणभेदात् — अपहतपाप्मत्वादिधर्मको हि परमात्मा, तद्विपरीतो हि जीवः । विभागाच्चास्य विकारत्वसिद्धिः — यावान् हि आकाशादिः प्रविभक्तः, स सर्वो विकारः ; तस्य च आकाशादेरुत्पत्तिः समधिगता ; जीवात्मापि पुण्यापुण्यकर्मा सुखदुःखयुक् प्रतिशरीरं प्रविभक्त इति, तस्यापि प्रपञ्चोत्पत्त्यवसरे उत्पत्तिर्भवितुमर्हति । अपि च ‘ यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः’ (बृ. उ. २ । १ । २०) इति प्राणादेर्भोग्यजातस्य सृष्टिं शिष्ट्वा ‘ सर्व एत आत्मानो व्युच्चरन्ति’ इति भोक्तॄणामात्मनां पृथक्सृष्टिं शास्ति । ‘ यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति’ (मु. उ. २ । १ । १) इति च जीवात्मनामुत्पत्तिप्रलयावुच्येते, सरूपवचनात् — जीवात्मानो हि परमात्मना सरूपा भवन्ति, चैतन्ययोगात् ; न च क्वचिदश्रवणमन्यत्र श्रुतं वारयितुमर्हति, श्रुत्यन्तरगतस्याप्यविरुद्धस्याधिकस्यार्थस्य सर्वत्रोपसंहर्तव्यत्वात् । प्रवेशश्रुतिरप्येवं सति विकारभावापत्त्यैव व्याख्यातव्या — ‘ तदात्मानँ स्वयमकुरुत’ (तै. उ. २ । ७ । १) इत्यादिवत् । तस्मादुत्पद्यते जीव इति ॥
एवं प्राप्ते, ब्रूमः — नात्मा जीव उत्पद्यत इति । कस्मात् ? अश्रुतेः ; न ह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति भूयःसु प्रदेशेषु । ननु क्वचिदश्रवणमन्यत्र श्रुतं न वारयतीत्युक्तम् ; सत्यमुक्तम् ; उत्पत्तिरेव त्वस्य न सम्भवतीति वदामः । कस्मात् ? नित्यत्वाच्च ताभ्यः — चशब्दादजत्वादिभ्यश्च — नित्यत्वं ह्यस्य श्रुतिभ्योऽवगम्यते, तथा अजत्वम् अविकारित्वम् अविकृतस्यैव ब्रह्मणो जीवात्मनावस्थानं ब्रह्मात्मना चेति ; न चैवंरूपस्योत्पत्तिरुपपद्यते । ताः काः श्रुतयः ? — ‘ न जीवो म्रियते’ (छा. उ. ६ । ११ । ३) ‘ स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४ । ४ । २५) ‘ न जायते म्रियते वा विपश्चित्’ (क. उ. १ । २ । १८) ‘ अजो नित्यः शाश्वतोऽयं पुराणः’ (क. उ. १ । २ । १८) ‘ तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) ‘ अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) ‘ स एष इह प्रविष्ट आ नखाग्रेभ्यः’ (बृ. उ. १ । ४ । ७) ‘ तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘ अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) ‘ अयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २ । ५ । १९) इत्येवमाद्या नित्यत्ववादिन्यः सत्यः जीवस्योत्पत्तिं प्रतिबध्नन्ति । ननु प्रविभक्तत्वाद्विकारः, विकारत्वाच्चोत्पद्यते — इत्युक्तम् ; अत्रोच्यते — नास्य प्रविभागः स्वतोऽस्ति, ‘ एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. उ. ६ । ११) इति श्रुतेः ; बुद्ध्याद्युपाधिनिमित्तं तु अस्य प्रविभागप्रतिभानम् , आकाशस्येव घटादिसम्बन्धनिमित्तम् ; तथा च शास्त्रम् — ‘ स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः’ (बृ. उ. ४ । ४ । ५) इत्येवमादि — ब्रह्मण एवाविकृतस्य सतोऽस्यैकस्यानेकबुद्ध्यादिमयत्वं दर्शयति ; तन्मयत्वं च अस्य तद्विविक्तस्वरूपानभिव्यक्त्या तदुपरक्तस्वरूपत्वम् — स्त्रीमयो जाल्म इत्यादिवत् — द्रष्टव्यम् । यदपि क्वचिदस्योत्पत्तिप्रलयश्रवणम् , तदप्यत एवोपाधिसम्बन्धान्नेतव्यम् — उपाध्युत्पत्त्या अस्योत्पत्तिः, तत्प्रलयेन च प्रलय इति ; तथा च दर्शयति — ‘ प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्ति’ (बृ. उ. ४ । ५ । १३) इति ; तथोपाधिप्रलय एवायम् , नात्मविलयः — इत्येतदपि — ‘ अत्रैव मा भगवान्मोहान्तमापीपदन्न वा अहमिमं विजानामि न प्रेत्य संज्ञास्ति’ — इति प्रश्नपूर्वकं प्रतिपादयति — ‘ न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा मात्राऽसंसर्गस्त्वस्य भवति’ (बृ. उ. ४ । ५ । १४) — इति । प्रतिज्ञानुपरोधोऽप्यविकृतस्यैव ब्रह्मणो जीवभावाभ्युपगमात् ; लक्षणभेदोऽप्यनयोरुपाधिनिमित्त एव, ‘ अत ऊर्ध्वं विमोक्षायैव ब्रूहि’ (बृ. उ. ४ । ३ । १५) इति च प्रकृतस्यैव विज्ञानमयस्यात्मनः सर्वसंसारधर्मप्रत्याख्यानेन परमात्मभावप्रतिपादनात् । तस्मात् नैवात्मोत्पद्यते प्रविलीयते चेति ॥ १७ ॥