०८ विपर्ययाधिकरणम्

१४ विपर्ययेण तु क्रमोऽत उपपद्यते च ॥

भूतानामुत्पत्तिक्रमश्चिन्तितः ; अथेदानीम् अप्ययक्रमश्चिन्त्यते — किमनियतेन क्रमेणाप्ययः, उत उत्पत्तिक्रमेण, अथवा तद्विपरीतेनेति । त्रयोऽपि च उत्पत्तिस्थितिप्रलया भूतानां ब्रह्मायत्ताः श्रूयन्ते — ‘ यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति’ (तै. उ. ३ । १ । १) इति । तत्रानियमोऽविशेषादिति प्राप्तम् ; अथवा उत्पत्तेः क्रमस्य श्रुतत्वात्प्रलयस्यापि क्रमाकाङ्क्षिणः स एव क्रमः स्यादिति ॥

एवं प्राप्तं ततो ब्रूमः — विपर्ययेण तु प्रलयक्रमः, अतः उत्पत्तिक्रमात् , भवितुमर्हति ; तथा हि लोके दृश्यते — येन क्रमेण सोपानमारूढः, ततो विपरीतेन क्रमेणावरोहतीति ; अपि च दृश्यते — मृदो जातं घटशरावादि अप्ययकाले मृद्भावमप्येति, अद्भ्यश्च जातं हिमकरकादि अब्भावमप्येतीति । अतश्चोपपद्यत एतत् — यत्पृथिवी अद्भ्यो जाता सती स्थितिकालव्यतिक्रान्तौ अपः अपीयात् ; आपश्च तेजसो जाताः सत्यः तेजः अपीयुः ; एवं क्रमेण सूक्ष्मं सूक्ष्मतरं च अनन्तरमनन्तरं कारणमपीत्य सर्वं कार्यजातं परमकारणं परमसूक्ष्मं च ब्रह्माप्येतीति वेदितव्यम् ; न हि स्वकारणव्यतिक्रमेण कारणकारणे कार्याप्ययो न्याय्यः । स्मृतावप्युत्पत्तिक्रमविपर्ययेणैवाप्ययक्रमस्तत्र तत्र दर्शितः — ‘ जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते’ इत्येवमादौ । उत्पत्तिक्रमस्तु उत्पत्तावेव श्रुतत्वान्नाप्यये भवितुमर्हति ; न च असौ अयोग्यत्वादप्ययेनाकाङ्क्ष्यते ; न हि कार्ये ध्रियमाणे कारणस्याप्ययो युक्तः, कारणाप्यये कार्यस्यावस्थानानुपपत्तेः ; कार्याप्यये तु कारणस्यावस्थानं युक्तम् — मृदादिष्वेवं दृष्टत्वात् ॥ १४ ॥