१३ तदभिध्यानादेव तु तल्लिङ्गात्सः ॥
किमिमानि वियदादीनि भूतानि स्वयमेव स्वविकारान्सृजन्ति, आहोस्वित्परमेश्वर एव तेन तेन आत्मनावतिष्ठमानोऽभिध्यायन् तं तं विकारं सृजतीति सन्देहे सति, प्राप्तं तावत् — स्वयमेव सृजन्तीति । कुतः ? ‘ आकाशाद्वायुर्वायोरग्निः’ (तै. उ. २ । १ । १) इत्यादिस्वातन्त्र्यश्रवणात् । ननु अचेतनानां स्वतन्त्राणां प्रवृत्तिः प्रतिषिद्धा ; नैष दोषः — ‘ तत्तेज ऐक्षत’ (छा. उ. ६ । २ । ३) ‘ ता आप ऐक्षन्त’ (छा. उ. ६ । २ । ४) इति च भूतानामपि चेतनत्वश्रवणादिति ॥
एवं प्राप्ते, अभिधीयते — स एव परमेश्वरस्तेन तेन आत्मना अवतिष्ठमानोऽभिध्यायन् तं तं विकारं सृजतीति । कुतः ? तल्लिङ्गात् । तथा हि शास्त्रम् — ‘ यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति’ (बृ. उ. ३ । ७ । ३) इत्येवंजातीयकम् — साध्यक्षाणामेव भूतानां प्रवृत्तिं दर्शयति ; तथा ‘ सोऽकामयत बहु स्यां प्रजायेयेति’ (तै. उ. २ । ६ । १) इति प्रस्तुत्य, ‘ सच्च त्यच्चाभवत्’ (तै. उ. २ । ६ । १) , ‘ तदात्मानँ स्वयमकुरुत’ (तै. उ. २ । ७ । १) इति च तस्यैव च सर्वात्मभावं दर्शयति । यत्तु ईक्षणश्रवणमप्तेजसोः, तत्परमेश्वरावेशवशादेव द्रष्टव्यम् — ‘ नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इतीक्षित्रन्तरप्रतिषेधात् , प्रकृतत्वाच्च सत ईक्षितुः ‘ तदैक्षत बहु स्यां प्रजायेयेति’ (तै. उ. २ । ६ । १) इत्यत्र ॥ १३ ॥