१२ पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥
‘ ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त’ (छा. उ. ६ । २ । ४) इति श्रूयते ; तत्र संशयः — किमनेनान्नशब्देन व्रीहियवाद्यभ्यवहार्यं वा ओदनाद्युच्यते, किं वा पृथिवीति ; तत्र प्राप्तं तावत् — व्रीहियवादि ओदनादि वा परिग्रहीतव्यमिति ; तत्र ह्यन्नशब्दः प्रसिद्धो लोके ; वाक्यशेषोऽप्येतमर्थमुपोद्बलयति — ‘ तस्माद्यत्र क्वचन वर्षति तदेव भूयिष्ठमन्नं भवति’ इति व्रीहियवाद्येव हि सति वर्षणे बहु भवति, न पृथिवीति ॥
एवं प्राप्ते, ब्रूमः — पृथिव्येवेयमन्नशब्देनाद्भ्यो जायमाना विवक्ष्यत इति । कस्मात् ? अधिकारात् , रूपात् , शब्दान्तराच्च । अधिकारस्तावत् — ‘ तत्तेजोऽसृजत’ ‘ तदपोऽसृजत’ इति महाभूतविषयो वर्तते ; तत्र क्रमप्राप्तां पृथिवीं महाभूतं विलङ्घ्य नाकस्माद्व्रीह्यादिपरिग्रहो न्याय्यः । तथा रूपमपि वाक्यशेषे पृथिव्यनुगुणं दृश्यते — ‘ यत्कृष्णं तदन्नस्य’ इति ; न ह्योदनादेरभ्यवहार्यस्य कृष्णत्वनियमोऽस्ति, नापि व्रीह्यादीनाम् । ननु पृथिव्या अपि नैव कृष्णत्वनियमोऽस्ति, पयःपाण्डुरस्याङ्गाररोहितस्य च क्षेत्रस्य दर्शनात् ; नायं दोषः — बाहुल्यापेक्षत्वात् ; भूयिष्ठं हि पृथिव्याः कृष्णं रूपम् , न तथा श्वेतरोहिते ; पौराणिका अपि पृथिवीच्छायां शर्वरीमुपदिशन्ति, सा च कृष्णाभासा — इत्यतः कृष्णं रूपं पृथिव्या इति श्लिष्यते । श्रुत्यन्तरमपि समानाधिकारम् — ‘ अद्भ्यः पृथिवी’ इति भवति, ‘ तद्यदपां शर आसीत्तत्समहन्यत सा पृथिव्यभवत्’ (बृ. उ. १ । २ । २) इति च ; पृथिव्यास्तु व्रीह्यादेरुत्पत्तिं दर्शयति — ‘ पृथिव्या ओषधय ओषधीभ्योऽन्नम्’ इति च । एवमधिकारादिषु पृथिव्याः प्रतिपादकेषु सत्सु कुतो व्रीह्यादिप्रतिपत्तिः ? प्रसिद्धिरप्यधिकारादिभिरेव बाध्यते ; वाक्यशेषोऽपि पार्थिवत्वादन्नाद्यस्य तद्द्वारेण पृथिव्या एवाद्भ्यः प्रभवत्वं सूचयतीति द्रष्टव्यम् । तस्मात्पृथिवीयमन्नशब्देति ॥ १२ ॥