११ आपः ॥
‘ अतस्तथा ह्याह’ इत्यनुवर्तते ; आपः, अतः तेजसः, जायन्ते । कस्मात् ? तथा ह्याह — ‘ तदपोऽसृजत’ इति, ‘ अग्नेरापः’ इति च ; सति वचने नास्ति संशयः । तेजसस्तु सृष्टिं व्याख्याय पृथिव्या व्याख्यास्यन् , अपोऽन्तरियामिति ‘ आपः’ इति सूत्रयांबभूव ॥ ११ ॥