१० तेजोऽतस्तथाह्याह ॥
छान्दोग्ये सन्मूलत्वं तेजसः श्रावितम् , तैत्तिरीयके तु वायुमूलत्वम् ; तत्र तेजोयोनिं प्रति श्रुतिविप्रतिपत्तौ सत्याम् , प्राप्तं तावद्ब्रह्मयोनिकं तेज इति । कुतः ? ‘ सदेव’ इत्युपक्रम्य ‘ तत्तेजोऽसृजत’ इत्युपदेशात् ; सर्वविज्ञानप्रतिज्ञायाश्च ब्रह्मप्रभवत्वे सर्वस्य सम्भवात् ; ‘ तज्जलान्’ (छा. उ. ३ । १४ । १) इति च अविशेषश्रुतेः ; ‘ एतस्माज्जायते प्राणः’ (मु. उ. २ । १ । ३) इति च उपक्रम्य श्रुत्यन्तरे सर्वस्याविशेषेण ब्रह्मजत्वोपदेशात् ; तैत्तिरीयके च ‘ स तपस्तप्त्वा । इदँ सर्वमसृजत । यदिदं किञ्च’ (तै. उ. २ । ६ । १) इत्यविशेषश्रवणात् ; तस्मात् — ‘ वायोरग्निः’ (तै. उ. २ । १ । १) इति क्रमोपदेशो द्रष्टव्यः — वायोरनन्तरमग्निः सम्भूत इति ॥
एवं प्राप्ते, उच्यते — तेजः अतः मातरिश्वनः जायत इति । कस्मात् ? तथा ह्याह — ‘ वायोरग्निः’ इति । अव्यवहिते हि तेजसो ब्रह्मजत्वे सति, असति वायुजत्वे ‘ वायोरग्निः’ इतीयं श्रुतिः कदर्थिता स्यात् । ननु क्रमार्थैषा भविष्यतीत्युक्तम् ; नेति ब्रूमः — ‘ तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति पुरस्तात् सम्भवत्यपादानस्य आत्मनः पञ्चमीनिर्देशात् , तस्यैव च सम्भवतेरिहाधिकारात् , परस्तादपि तदधिकारे ‘ पृथिव्या ओषधयः’ (तै. उ. २ । १ । १) इत्यपादानपञ्चमीदर्शनात् ‘ वायोरग्निः’ इत्यपादानपञ्चम्येवैषेति गम्यते ; अपि च, वायोरूर्ध्वमग्निः सम्भूतः — इति कल्प्यः उपपदार्थयोगः, कॢप्तस्तु कारकार्थयोगः — वायोरग्निः सम्भूतः इति ; तस्मादेषा श्रुतिर्वायुयोनित्वं तेजसोऽवगमयति । नन्वितरापि श्रुतिर्ब्रह्मयोनित्वं तेजसोऽवगमयति — ‘ तत्तेजोऽसृजत’ इति ; न, तस्याः पारम्पर्यजत्वेऽप्यविरोधात् ; यदापि ह्याकाशं वायुं च सृष्ट्वा वायुभावापन्नं ब्रह्म तेजोऽसृजतेति कल्प्यते, तदापि ब्रह्मजत्वं तेजसो न विरुध्यते, यथा — तस्याः शृतम् , तस्या दधि, तस्या आमिक्षेत्यादि ; दर्शयति च ब्रह्मणो विकारात्मनावस्थानम् — ‘ तदात्मानँ स्वयमकुरुत’ (तै. उ. २ । ७ । १) इति ; तथा च ईश्वरस्मरणं भवति — ‘ बुद्धिर्ज्ञानमसंमोहः’ (भ. गी. १० । ४) इत्याद्यनुक्रम्य ‘ भवन्ति भावा भूतानां मत्त एव पृथग्विधाः’ (भ. गी. १० । ५) इति । यद्यपि बुद्ध्यादयः स्वकारणेभ्यः प्रत्यक्षं भवन्तो दृश्यन्ते, तथापि सर्वस्य भावजातस्य साक्षात्प्रणाड्या वा ईश्वरवंश्यत्वात् ; एतेनाक्रमसृष्टिवादिन्यः श्रुतयो व्याख्याताः, तासां सर्वथोपपत्तेः, क्रमवत्सृष्टिवादिनीनां त्वन्यथानुपपत्तेः । प्रतिज्ञापि सद्वंश्यत्वमात्रमपेक्षते, न अव्यवहितजन्यत्वम् — इत्यविरोधः ॥ १० ॥