०९ असम्भवस्तु सतोऽनुपपत्तेः ॥
वियत्पवनयोरसम्भाव्यमानजन्मनोरप्युत्पत्तिमुपश्रुत्य, ब्रह्मणोऽपि भवेत्कुतश्चिदुत्पत्तिरिति स्यात्कस्यचिन्मतिः ; तथा विकारेभ्य एवाकाशादिभ्य उत्तरेषां विकाराणामुत्पत्तिमुपश्रुत्य, आकाशस्यापि विकारादेव ब्रह्मण उत्पत्तिरिति कश्चिन्मन्येत ; तामाशङ्कामपनेतुमिदं सूत्रम् —
असम्भवस्त्विति । न खलु ब्रह्मणः सदात्मकस्य कुतश्चिदन्यतः सम्भव उत्पत्तिराशङ्कितव्या । कस्मात् ? अनुपपत्तेः । सन्मात्रं हि ब्रह्म ; न तस्य सन्मात्रादेवोत्पत्तिः सम्भवति, असत्यतिशये प्रकृतिविकारभावानुपपत्तेः ; नापि सद्विशेषात् , दृष्टविपर्ययात् — सामान्याद्धि विशेषा उत्पद्यमाना दृश्यन्ते ; मृदादेर्घटादयः, न तु विशेषेभ्यः सामान्यम् ; नाप्यसतः, निरात्मकत्वात् ; ‘ कथमसतः सज्जायेत’ (छा. उ. ६ । २ । २) इति च आक्षेपश्रवणात् । ‘ स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः’ (श्वे. उ. ६ । ९) इति च ब्रह्मणो जनयितारं वारयति । वियत्पवनयोः पुनरुत्पत्तिः प्रदर्शिता, न तु ब्रह्मणः सा अस्तीति वैषम्यम् । न च विकारेभ्यो विकारान्तरोत्पत्तिदर्शनाद्ब्रह्मणोऽपि विकारत्वं भवितुमर्हति, मूलप्रकृत्यनभ्युपगमेऽनवस्थाप्रसङ्गात् ; या मूलप्रकृतिरभ्युपगम्यते, तदेव च नो ब्रह्मेत्यविरोधः ॥ ९ ॥