०२ मातरिश्वाधिकरणम्

०८ एतेन मातरिश्वा व्याख्यातः ॥

अतिदेशोऽयम् । एतेन वियद्व्याख्यानेन मातरिश्वापि वियदाश्रयो वायुर्व्या ख्यातः । तत्राप्येते यथायोगं पक्षा रचयितव्याः — न वायुरुत्पद्यते, छन्दोगानामुत्पत्तिप्रकरणेऽनाम्नानादित्येकः पक्षः, अस्ति तु तैत्तिरीयाणामुत्पत्तिप्रकरणे आम्नानम् ‘ आकाशाद्वायुः’ (तै. उ. २ । १ । १) — इति पक्षान्तरम् ; ततश्च श्रुत्योर्विप्रतिषेधे सति गौणी वायोरुत्पत्तिश्रुतिः, असम्भवात् इत्यपरोऽभिप्रायः ; असम्भवश्च ‘ सैषानस्तमिता देवता यद्वायुः’ (बृ. उ. १ । ५ । २२) इत्यस्तमयप्रतिषेधात् अमृतत्वादिश्रवणाच्च । प्रतिज्ञानुपरोधाद्यावद्विकारं च विभागाभ्युपगमादुत्पद्यते वायुरिति सिद्धान्तः । अस्तमयप्रतिषेधोऽपरविद्याविषय आपेक्षिकः, अग्न्यादीनामिव वायोरस्तमयाभावात् । कृतप्रतिविधानं च अमृतत्वादिश्रवणम् । ननु वायोराकाशस्य च तुल्ययोरुत्पत्तिप्रकरणे श्रवणाश्रवणयोरेकमेवाधिकरणमुभयविषयमस्तु किमतिदेशेनासति विशेष इति, उच्यते — सत्यमेवमेतत् ; तथापि मन्दधियां शब्दमात्रकृताशङ्कानिवृत्त्यर्थोऽयमतिदेशः क्रियते — संवर्गविद्यादिषु ह्युपास्यतया वायोर्महाभागत्वश्रवणात् अस्तमयप्रतिषेधादिभ्यश्च भवति नित्यत्वाशङ्का कस्यचिदिति ॥ ८ ॥