०१ वियदधिकरणम्

०१ न वियदश्रुतेः ॥

किमस्याकाशस्योत्पत्तिरस्ति, उत नास्तीति । तत्र तावत्प्रतिपाद्यते — न वियदश्रुतेरिति ; न खल्वाकाशमुत्पद्यते । कस्मात् ? अश्रुतेः — न ह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति ; छान्दोग्ये हि ‘ सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इति सच्छब्दवाच्यं ब्रह्म प्रकृत्य, ‘ तदैक्षत’ ‘ तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इति च पञ्चानां महाभूतानां मध्यमं तेज आदि कृत्वा त्रयाणां तेजोबन्नानामुत्पत्तिः श्राव्यते ; श्रुतिश्च नः प्रमाणमतीन्द्रियार्थविज्ञानोत्पत्तौ ; न च अत्र श्रुतिरस्त्याकाशस्योत्पत्तिप्रतिपादिनी ; तस्मान्नाकाशस्योत्पत्तिरिति ॥ १ ॥

०२ अस्ति तु ॥

तुशब्दः पक्षान्तरपरिग्रहे ; मा नामाकाशस्य छान्दोग्ये भूदुत्पत्तिः ; श्रुत्यन्तरे त्वस्ति ; तैत्तिरीयका हि समामनन्ति — ‘ सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति प्रकृत्य, ‘ तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति । ततश्च श्रुत्योर्विप्रतिषेधः — क्वचित्तेजःप्रमुखा सृष्टिः, क्वचिदाकाशप्रमुखेति । नन्वेकवाक्यता अनयोः श्रुत्योर्युक्ता ; सत्यं सा युक्ता, न तु सा अवगन्तुं शक्यते । कुतः ? ‘ तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इति सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयेन सम्बन्धानुपपत्तेः — ‘ तत्तेजोऽसृजत’ ‘ तदाकाशमसृजत’ इति । ननु सकृच्छ्रुतस्यापि कर्तुः कर्तव्यद्वयेन सम्बन्धो दृश्यते — यथा सूपं पक्त्वा ओदनं पचतीति, एवं तदाकाशं सृष्ट्वा तत्तेजोऽसृजत इति योजयिष्यामि ; नैवं युज्यते ; प्रथमजत्वं हि छान्दोग्ये तेजसोऽवगम्यते ; तैत्तिरीयके च आकाशस्य ; न च उभयोः प्रथमजत्वं सम्भवति ; एतेन इतरश्रुत्यक्षरविरोधोऽपि व्याख्यातः — ‘ तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इत्यत्रापि — तस्मादाकाशः सम्भूतः, तस्मात्तेजः सम्भूतम् — इति सकृच्छ्रुतस्यापादानस्य सम्भवनस्य च वियत्तेजोभ्यां युगपत्सम्बन्धानुपपत्तेः, ‘ वायोरग्निः’ (तै. उ. २ । १ । १) इति च पृथगाम्नानात् ॥ २ ॥

अस्मिन्विप्रतिषेधे कश्चिदाह —

०३ गौण्यसम्भवात् ॥

नास्ति वियत उत्पत्तिः, अश्रुतेरेव । या त्वितरा वियदुत्पत्तिवादिनी श्रुतिरुदाहृता, सा गौणी भवितुमर्हति । कस्मात् ? असम्भवात् । न ह्याकाशस्योत्पत्तिः सम्भावयितुं शक्या, श्रीमत्कणभुगभिप्रायानुसारिषु जीवत्सु ; ते हि कारणसामग्र्यसम्भवादाकाशस्योत्पत्तिं वारयन्ति ; समवाय्यसमवायिनिमित्तकारणेभ्यो हि किल सर्वमुत्पद्यमानं समुत्पद्यते ; द्रव्यस्य चैकजातीयकमनेकं च द्रव्यं समवायिकारणं भवति ; न चाकाशस्यैकजातीयकमनेकं च द्रव्यमारम्भकमस्ति ; यस्मिन्समवायिकारणे सति, असमवायिकारणे च तत्संयोगे, आकाश उत्पद्येत ; तदभावात्तु तदनुग्रहप्रवृत्तं निमित्तकारणं दूरापेतमेव आकाशस्य भवति । उत्पत्तिमतां च तेजःप्रभृतीनां पूर्वोत्तरकालयोर्विशेषः सम्भाव्यते — प्रागुत्पत्तेः प्रकाशादिकार्यं न बभूव, पश्चाच्च भवतीति ; आकाशस्य पुनर्न पूर्वोत्तरकालयोर्विशेषः सम्भावयितुं शक्यते । किं हि प्रागुत्पत्तेरनवकाशमसुषिरमच्छिद्रं बभूवेति शक्यतेऽध्यवसातुम् ? पृथिव्यादिवैधर्म्याच्च विभुत्वादिलक्षणात् आकाशस्य अजत्वसिद्धिः । तस्माद्यथा लोके — आकाशं कुरु, आकाशो जातः — इत्येवंजातीयको गौणः प्रयोगो भवति, यथा च — घटाकाशः, करकाकाशः गृहाकाशः — इत्येकस्याप्याकाशस्य एवंजातीयको भेदव्यपदेशो गौणो भवति — वेदेऽपि ‘ आरण्यानाकाशेष्वालभेरन्’ इति ; एवमुत्पत्तिश्रुतिरपि गौणी द्रष्टव्या ॥ ३ ॥

०४ शब्दाच्च ॥

शब्दः खल्वप्याकाशस्य अजत्वं ख्यापयति, यत आह — ‘ वायुश्चान्तरिक्षं चैतदमृतम्’ (बृ. उ. २ । ३ । ३) इति ; न ह्यमृतस्योत्पत्तिरुपपद्यते ; ‘ आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) इति च आकाशेन ब्रह्म सर्वगतत्वनित्यत्वाभ्यां धर्माभ्यामुपमिमानः आकाशस्यापि तौ धर्मौ सूचयति ; न च तादृशस्योत्पत्तिरुपपद्यते । ‘ स यथानन्तोऽयमाकाश एवमनन्त आत्मा वेदितव्यः’ इति च उदाहरणम् — ‘ आकाशशरीरं ब्रह्म’ (तै. उ. १ । ६ । २) ‘ आकाश आत्मा’ (तै. उ. १ । ७ । १) इति च । न ह्याकाशस्योत्पत्तिमत्त्वे ब्रह्मणस्तेन विशेषणं सम्भवति — नीलेनेवोत्पलस्य । तस्मान्नित्यमेवाकाशेन साधारणं ब्रह्मेति गम्यते ॥ ४ ॥

०५ स्याच्चैकस्य ब्रह्मशब्दवत् ॥

इदं पदोत्तरं सूत्रम् । स्यादेतत् । कथं पुनरेकस्य सम्भूतशब्दस्य ‘ तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इत्यस्मिन्नधिकारे परेषु तेजःप्रभृतिष्वनुवर्तमानस्य मुख्यत्वं सम्भवति, आकाशे च गौणत्वमिति । अत उत्तरमुच्यते — स्याच्चैकस्यापि सम्भूतशब्दस्य विषयविशेषवशाद्गौणो मुख्यश्च प्रयोगः — ब्रह्मशब्दवत् ; यथैकस्यापि ब्रह्मशब्दस्य ‘ तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्म’ (तै. उ. ३ । २ । १) इत्यस्मिन्नधिकारेऽन्नादिषु गौणः प्रयोगः, आनन्दे च मुख्यः ; यथा च तपसि ब्रह्मविज्ञानसाधने ब्रह्मशब्दो भक्त्या प्रयुज्यते, अञ्जसा तु विज्ञेये ब्रह्मणि — तद्वत् । कथं पुनरनुत्पत्तौ नभसः ‘ एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इतीयं प्रतिज्ञा समर्थ्यते ? ननु नभसा द्वितीयेन सद्वितीयं ब्रह्म प्राप्नोति ; कथं च ब्रह्मणि विदिते सर्वं विदितं स्यादिति, तदुच्यते — ‘ एकमेव’ इति तावत्स्वकार्यापेक्षयोपपद्यते ; यथा लोके कश्चित्कुम्भकारकुले पूर्वेद्युर्मृद्दण्डचक्रादीनि उपलभ्य अपरेद्युश्च नानाविधान्यमत्राणि प्रसारितान्युपलभ्य ब्रूयात् — ‘ मृदेवैकाकिनी पूर्वेद्युरासीत्’ इति, स च तयावधारणया मृत्कार्यजातमेव पूर्वेद्युर्नासीदित्यभिप्रेयात् , न दण्डचक्रादि — तद्वदद्वितीयश्रुतिरधिष्ठात्रन्तरं वारयति — यथा मृदोऽमत्रप्रकृतेः कुम्भकारोऽधिष्ठाता दृश्यते, नैवं ब्रह्मणो जगत्प्रकृतेरन्योऽधिष्ठाता अस्तीति । न च नभसापि द्वितीयेन सद्वितीयं ब्रह्म प्रसज्यते ; लक्षणान्यत्वनिमित्तं हि नानात्वम् ; न च प्रागुत्पत्तेर्ब्रह्मनभसोर्लक्षणान्यत्वमस्ति — क्षीरोदकयोरिव संसृष्टयोः — व्यापित्वामूर्तत्वादिधर्मसामान्यात् ; सर्गकाले तु ब्रह्म जगदुत्पादयितुं यतते, स्तिमितमितरत्तिष्ठति, तेनान्यत्वमवसीयते ; तथा च ‘ आकाशशरीरं ब्रह्म’ (तै. उ. १ । ६ । २) इत्यादिश्रुतिभ्योऽपि ब्रह्माकाशयोरभेदोपचारसिद्धिः ; अत एव च ब्रह्मविज्ञानेन सर्वविज्ञानसिद्धिः ; अपि च सर्वं कार्यमुत्पद्यमानमाकाशेनाव्यतिरिक्तदेशकालमेवोत्पद्यते, ब्रह्मणा च अव्यतिरिक्तदेशकालमेवाकाशं भवतीति — अतो ब्रह्मणा तत्कार्येण च विज्ञातेन सह विज्ञातमेवाकाशं भवति — यथा क्षीरपूर्णे घटे कतिचिदब्बिन्दवः प्रक्षिप्ताः सन्तः क्षीरग्रहणेनैव गृहीता भवन्ति ; न हि क्षीरग्रहणादब्बिन्दुग्रहणं परिशिष्यते ; एवं ब्रह्मणा तत्कार्यैश्चाव्यतिरिक्तदेशकालत्वात् गृहीतमेव ब्रह्मग्रहणेन नभो भवति । तस्माद्भाक्तं नभसः सम्भवश्रवणमिति ॥ ५ ॥

एवं प्राप्ते, इदमाह —

०६ प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः ॥

‘ येनाश्रुतँ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ (छा. उ. ६ । १ । ३) इति, ‘ आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदँ सर्वं विदितम्’ (बृ. उ. ४ । ५ । ६) इति, ‘ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इति, ‘ न काचन मद्बहिर्धा विद्यास्ति’ इति चैवंरूपा प्रतिवेदान्तं प्रतिज्ञा विज्ञायते ; तस्याः प्रतिज्ञाया एवमहानिरनुपरोधः स्यात् , यद्यव्यतिरेकः कृत्स्नस्य वस्तुजातस्य विज्ञेयाद्ब्रह्मणः स्यात् ; व्यतिरेके हि सति एकविज्ञानेन सर्वं विज्ञायत इतीयं प्रतिज्ञा हीयते । स चाव्यतिरेक एवमुपपद्यते, यदि कृत्स्नं वस्तुजातमेकस्माद्ब्रह्मण उत्पद्येत । शब्देभ्यश्च प्रकृतिविकाराव्यतिरेकन्यायेनैव प्रतिज्ञासिद्धिरवगम्यते ; तथा हि — ‘ येनाश्रुतं श्रुतँ भवति’ इति प्रतिज्ञाय, मृदादिदृष्टान्तैः कार्यकारणाभेदप्रतिपादनपरैः प्रतिज्ञैषा समर्थ्यते ; तत्साधनायैव चोत्तरे शब्दाः — ‘ सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘ तदैक्षत’ ‘ तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इत्येवं कार्यजातं ब्रह्मणः प्रदर्श्य, अव्यतिरेकं प्रदर्शयन्ति — ‘ ऐतदात्म्यमिदँ सर्वम्’ (छा. उ. ६ । ८ । ७) इत्यारभ्य आ प्रपाठकपरिसमाप्तेः ; तद्यद्याकाशं न ब्रह्मकार्यं स्यात् , न ब्रह्मणि विज्ञाते आकाशं विज्ञायेत ; ततश्च प्रतिज्ञाहानिः स्यात् ; न च प्रतिज्ञाहान्या वेदस्याप्रामाण्यं युक्तं कर्तुम् । तथा हि प्रतिवेदान्तं ते ते शब्दास्तेन तेन दृष्टान्तेन तामेव प्रतिज्ञां ज्ञापयन्ति — ‘ इदँ सर्वं यदयमात्मा’ (छा. उ. २ । ४ । ६) ‘ ब्रह्मैवेदममृतं पुरस्तात्’ (मु. उ. २ । २ । १२) इत्येवमादयः ; तस्माज्ज्वलनादिवदेव गगनमप्युत्पद्यते ॥

यदुक्तम् — अश्रुतेर्न वियदुत्पद्यत इति, तदयुक्तम् , वियदुत्पत्तिविषयश्रुत्यन्तरस्य दर्शितत्वात् — ‘ तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति । सत्यं दर्शितम् , विरुद्धं तु ‘ तत्तेजोऽसृजत’ इत्यनेन श्रुत्यन्तरेण ; न, एकवाक्यत्वात्सर्वश्रुतीनाम् । भवत्वेकवाक्यत्वमविरुद्धानाम् ; इह तु विरोध उक्तः — सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयसम्बन्धासम्भवाद्द्वयोश्च प्रथमजत्वासम्भवाद्विकल्पासम्भवाच्चेति — नैष दोषः, तेजःसर्गस्य तैत्तिरीयके तृतीयत्वश्रवणात् — ‘ तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः, आकाशाद्वायुः, वायोरग्निः’ (तै. उ. २ । १ । १) इति ; अशक्या हीयं श्रुतिरन्यथा परिणेतुम् ; शक्या तु परिणेतुं छान्दोग्यश्रुतिः — तदाकाशं वायुं च सृष्ट्वा ‘ तत्तेजोऽसृजत’ इति ; न हीयं श्रुतिस्तेजोजनिप्रधाना सती श्रुत्यन्तरप्रसिद्धामाकाशस्योत्पत्तिं वारयितुं शक्नोति, एकस्य वाक्यस्य व्यापारद्वयासम्भवात् ; स्रष्टा त्वेकोऽपि क्रमेणानेकं स्रष्टव्यं सृजेत् — इत्येकवाक्यत्वकल्पनायां सम्भवन्त्यां न विरुद्धार्थत्वेन श्रुतिर्हातव्या ; न चास्माभिः सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयसम्बन्धोऽभिप्रेयते, श्रुत्यन्तरवशेन स्रष्टव्यान्तरोपसङ्ग्रहात् ; यथा च ‘ सर्वं खल्विदं ब्रह्म तज्जलान्’ इत्यत्र साक्षादेव सर्वस्य वस्तुजातस्य ब्रह्मजत्वं श्रूयमाणं न प्रदेशान्तरविहितं तेजःप्रमुखमुत्पत्तिक्रमं वारयति, एवं तेजसोऽपि ब्रह्मजत्वं श्रूयमाणं न श्रुत्यन्तरविहितं नभःप्रमुखमुत्पत्तिक्रमं वारयितुमर्हति । ननु शमविधानार्थमेतद्वाक्यम् — ‘ तज्जलानिति शान्त उपासीत’ इति श्रुतेः ; नैतत्सृष्टिवाक्यम् ; तस्मादेतन्न प्रदेशान्तरप्रसिद्धं क्रममुपरोद्धुमर्हति ; ‘ तत्तेजोऽसृजत’ इत्येतत्सृष्टिवाक्यम् ; तस्मादत्र यथाश्रुति क्रमो ग्रहीतव्य इति । नेत्युच्यते ; न हि तेजःप्राथम्यानुरोधेन श्रुत्यन्तरप्रसिद्धो वियत्पदार्थः परित्यक्तव्यो भवति, पदार्थधर्मत्वात्क्रमस्य ; अपि च ‘ तत्तेजोऽसृजत’ इति नात्र क्रमस्य वाचकः कश्चिच्छब्दोऽस्ति ; अर्थात्तु क्रमो गम्यते ; स च ‘ वायोरग्निः’ (तै. उ. २ । १ । १) इत्यनेन श्रुत्यन्तरप्रसिद्धेन क्रमेण निवार्यते ; विकल्पसमुच्चयौ तु वियत्तेजसोः प्रथमजत्वविषयावसम्भवानभ्युपगमाभ्यां निवारितौ ; तस्मान्नास्ति श्रुत्योर्विप्रतिषेधः । अपि च छान्दोग्ये ‘ येनाश्रुतँ श्रुतं भवति’ इत्येतां प्रतिज्ञां वाक्योपक्रमे श्रुतां समर्थयितुमसमाम्नातमपि वियत् उत्पत्तावुपसंख्यातव्यम् ; किमङ्ग पुनस्तैत्तिरीयके समाम्नातं नभो न सङ्गृह्यते । यच्चोक्तम् — आकाशस्य सर्वेणानन्यदेशकालत्वाद्ब्रह्मणा तत्कार्यैश्च सह विदितमेव तद्भवति ; अतो न प्रतिज्ञा हीयते ; न च ‘ एकमेवाद्वितीयम्’ इति श्रुतिकोपो भवति, क्षीरोदकवद्ब्रह्मनभसोरव्यतिरेकोपपत्तेरिति । अत्रोच्यते — न क्षीरोदकन्यायेनेदमेकविज्ञानेन सर्वविज्ञानं नेतव्यम् ; मृदादिदृष्टान्तप्रणयनाद्धि प्रकृतिविकारन्यायेनैवेदं सर्वविज्ञानं नेतव्यमिति गम्यते ; क्षीरोदकन्यायेन च सर्वविज्ञानं कल्प्यमानं न सम्यग्विज्ञानं स्यात् ; न हि क्षीरज्ञानगृहीतस्योदकस्य सम्यग्विज्ञानगृहीतत्वमस्ति ; न च वेदस्य पुरुषाणामिव मायालीकवञ्चनादिभिरर्थावधारणमुपपद्यते ; सावधारणा चेयम् ‘ एकमेवाद्वितीयम्’ इति श्रुतिः क्षीरोदकन्यायेन नीयमाना पीड्येत । न च स्वकार्यापेक्षयेदं वस्त्वेकदेशविषयं सर्वविज्ञानमेकमेवाद्वितीयतावधारणं चेति न्याय्यम् , मृदादिष्वपि हि तत्सम्भवात् — न तदपूर्ववदुपन्यसितव्यं भवति — ‘ श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतँ श्रुतं भवति’ (छा. उ. ६ । १ । ३) इत्यादिना । तस्मादशेषवस्तुविषयमेवेदं सर्वविज्ञानं सर्वस्य ब्रह्मकार्यतापेक्षयोपन्यस्यत इति द्रष्टव्यम् ॥ ६ ॥

यत्पुनरेतदुक्तम् — असम्भवाद्गौणी गगनस्योत्पत्तिश्रुतिरिति, अत्र ब्रूमः —

०७ यावद्विकारं तु विभागो लोकवत् ॥

तुशब्दोऽसम्भवाशङ्काव्यावृत्त्यर्थः । न खल्वाकाशोत्पत्तावसम्भवाशङ्का कर्तव्या ; यतो यावत्किञ्चिद्विकारजातं दृश्यते — घटघटिकोदञ्चनादि वा, कटककेयूरकुण्डलादि वा, सूचीनाराचनिस्त्रिंशादि वा — तावानेव विभागो लोके लक्ष्यते ; नत्वविकृतं किञ्चित्कुतश्चिद्विभक्तमुपलभ्यते ; विभागश्चाकाशस्य पृथिव्यादिभ्योऽवगम्यते ; तस्मात्सोऽपि विकारो भवितुमर्हति । एतेन दिक्कालमनःपरमाण्वादीनां कार्यत्वं व्याख्यातम् । नन्वात्माप्याकाशादिभ्यो विभक्त इति तस्यापि कार्यत्वं घटादिवत्प्राप्नोति ; न, ‘ आत्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति श्रुतेः ; यदि ह्यात्मापि विकारः स्यात् , तस्मात्परमन्यन्न श्रुतमित्याकाशादि सर्वं कार्यं निरात्मकमात्मनः कार्यत्वे स्यात् ; तथा च शून्यवादः प्रसज्येत ; आत्मत्वाच्चात्मनो निराकरणशङ्कानुपपत्तिः । न ह्यात्मागन्तुकः कस्यचित् , स्वयंसिद्धत्वात् ; न ह्यात्मा आत्मनः प्रमाणमपेक्ष्य सिध्यति ; तस्य हि प्रत्यक्षादीनि प्रमाणान्यसिद्धप्रमेयसिद्धये उपादीयन्ते ; न ह्याकाशादयः पदार्थाः प्रमाणनिरपेक्षाः स्वयं सिद्धाः केनचिदभ्युपगम्यन्ते ; आत्मा तु प्रमाणादिव्यवहाराश्रयत्वात्प्रागेव प्रमाणादिव्यवहारात्सिध्यति ; न चेदृशस्य निराकरणं सम्भवति ; आगन्तुकं हि वस्तु निराक्रियते, न स्वरूपम् ; य एव हि निराकर्ता तदेव तस्य स्वरूपम् ; न ह्यग्नेरौष्ण्यमग्निना निराक्रियते ; तथा अहमेवेदानीं जानामि वर्तमानं वस्तु, अहमेवातीतमतीततरं चाज्ञासिषम् , अहमेवानागतमनागततरं च ज्ञास्यामि, इत्यतीतानागतवर्तमानभावेनान्यथाभवत्यपि ज्ञातव्ये न ज्ञातुरन्यथाभावोऽस्ति, सर्वदा वर्तमानस्वभावत्वात् ; तथा भस्मीभवत्यपि देहे नात्मन उच्छेदः ; वर्तमानस्वभावादन्यथास्वभावत्वं वा न सम्भावयितुं शक्यम् ; एवमप्रत्याख्येयस्वभावत्वादकार्यत्वमात्मानः, कार्यत्वं च आकाशस्य ॥

यत्तूक्तं समानजातीयमनेकं कारणद्रव्यं व्योम्नो नास्तीति, तत्प्रत्युच्यते — न तावत्समानजातीयमेवारभते, न भिन्नजातीयमिति नियमोऽस्ति ; न हि तन्तूनां तत्संयोगानां च समानजातीयत्वमस्ति, द्रव्यगुणत्वाभ्युपगमात् ; न च निमित्तकारणानामपि तुरीवेमादीनां समानजातीयत्वनियमोऽस्ति । स्यादेतत् — समवायिकारणविषय एव समानजातीयत्वाभ्युपगमः, न कारणान्तरविषय इति ; तदप्यनैकान्तिकम् ; सूत्रगोवालैर्ह्यनेकजातीयैरेका रज्जुः सृज्यमाना दृश्यते ; तथा सूत्रैरूर्णादिभिश्च विचित्रान्कम्बलान्वितन्वते ; सत्त्वद्रव्यत्वाद्यपेक्षया वा समानजातीयत्वे कल्प्यमाने नियमानर्थक्यम् , सर्वस्य सर्वेण समानजातीयत्वात् । नाप्यनेकमेवारभ्यते, नैकम् — इति नियमोऽस्ति ; अणुमनसोराद्यकर्मारम्भाभ्युपगमात् । एकैको हि परमाणुर्मनश्चाद्यं कर्मारभते, न द्रव्यान्तरैः संहत्य — इत्यभ्युपगम्यते । द्रव्यारम्भ एवानेकारम्भकत्वनियम इति चेत् , न ; परिणामाभ्युपगमात् । भवेदेष नियमः — यदि संयोगसचिवं द्रव्यं द्रव्यान्तरस्यारम्भकमभ्युपगम्येत ; तदेव तु द्रव्यं विशेषवदवस्थान्तरमापद्यमानं कार्यं नामाभ्युपगम्यते ; तच्च क्वचिदनेकं परिणमते मृद्बीजादि अङ्कुरादिभावेन ; क्वचिदेकं परिणमते क्षीरादि दध्यादिभावेन ; नेश्वरशासनमस्ति — अनेकमेव कारणं कार्यं जनयतीति । अतः श्रुतिप्रामाण्यादेकस्माद्ब्रह्मण आकाशादिमहाभूतोत्पत्तिक्रमेण जगज्जातमिति निश्चीयते ; तथा चोक्तम् — ‘ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि’ (ब्र. सू. २ । १ । २४) इति ॥

यच्चोक्तम् आकाशस्योत्पत्तौ न पूर्वोत्तरकालयोर्विशेषः सम्भावयितुं शक्यत इति, तदयुक्तम् ; येनैव विशेषेण पृथिव्यादिभ्यो व्यतिरिच्यमानं नभः स्वरूपवदिदानीमध्यवसीयते, स एव विशेषः प्रागुत्पत्तेर्नासीदिति गम्यते ; यथा च ब्रह्म न स्थूलादिभिः पृथिव्यादिस्वभावैः स्वभाववत् — ‘ अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) इत्यादिश्रुतिभ्यः, एवमाकाशस्वभावेनापि न स्वभाववदनाकाशमिति श्रुतेरवगम्यते ; तस्मात्प्रागुत्पत्तेरनाकाशमिति स्थितम् । यदप्युक्तं पृथिव्यादिवैधर्म्यादाकाशस्याजत्वमिति, तदप्यसत् , श्रुतिविरोधे सत्युत्पत्त्यसम्भवानुमानस्याभासत्वोपपत्तेः, उत्पत्त्यनुमानस्य च दर्शितत्वात् ; अनित्यमाकाशम् , अनित्यगुणाश्रयत्वात् , घटादिवदित्यादिप्रयोगसम्भवाच्च ; आत्मन्यनैकान्तिकमिति चेत् , न ; तस्यौपनिषदं प्रत्यनित्यगुणाश्रयत्वासिद्धेः ; विभुत्वादीनां च आकाशस्योत्पत्तिवादिनं प्रत्यसिद्धत्वात् । यच्चोक्तमेतत् — शब्दाच्चेति — तत्रामृतत्वश्रुतिस्तावद्वियति ‘ अमृता दिवौकसः’ इतिवद्द्रष्टव्या ; उत्पत्तिप्रलययोरुपपादितत्वात् ; ‘ आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) इत्यपि प्रसिद्धमहत्त्वेनाकाशेनोपमानं क्रियते निरतिशयमहत्त्वाय, न आकाशसमत्वाय — यथा ‘ इषुरिव सविता धावति’ इति क्षिप्रगतित्वायोच्यते, न इषुतुल्यगतित्वाय — तद्वत् ; एतेनानन्तत्वोपमानश्रुतिर्व्याख्याता ; ‘ ज्यायानाकाशात्’ इत्यादिश्रुतिभ्यश्च ब्रह्मणः सकाशादाकाशस्योनपरिमाणत्वसिद्धिः । ‘ न तस्य प्रतिमास्ति’ (श्वे. उ. ४ । १९) इति च ब्रह्मणोऽनुपमानत्वं दर्शयति ; ‘ अतोऽन्यदार्तम्’ (बृ. उ. ३ । ४ । २) इति च ब्रह्मणोऽन्येषामाकाशादीनामार्तत्वं दर्शयति । तपसि ब्रह्मशब्दवदाकाशस्य जन्मश्रुतेर्गौणत्वमित्येतदाकाशसम्भवश्रुत्यनुमानाभ्यां परिहृतम् । तस्माद्ब्रह्मकार्यं वियदिति सिद्धम् ॥ ७ ॥