+३

वेदान्तेषु तत्र तत्र भिन्नप्रस्थाना उत्पत्तिश्रुतय उपलभ्यन्ते ; केचिदाकाशस्योत्पत्तिमामनन्ति, केचिन्न ; तथा केचिद्वायोरुत्पत्तिमामनन्ति, केचिन्न ; एवं जीवस्य प्राणानां च ; एवमेव क्रमादिद्वारकोऽपि विप्रतिषेधः श्रुत्यन्तरेषूपलक्ष्यते ; विप्रतिषेधाच्च परपक्षाणामनपेक्षितत्वं स्थापितम् ; तद्वत्स्वपक्षस्यापि विप्रतिषेधादेवानपेक्षितत्वमाशङ्क्येत — इत्यतः सर्ववेदान्तगतसृष्टिश्रुत्यर्थनिर्मलत्वाय परः प्रपञ्च आरभ्यते ; तदर्थनिर्मलत्वे च फलं यथोक्ताशङ्कानिवृत्तिरेव । तत्र प्रथमं तावदाकाशमाश्रित्य चिन्त्यते —