०४ समुदायाधिकरणम्

१८ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥

वैशेषिकराद्धान्तो दुर्युक्तियोगाद्वेदविरोधाच्छिष्टापरिग्रहाच्च नापेक्षितव्य इत्युक्तम् ; सोऽर्धवैनाशिक इति वैनाशिकत्वसाम्यात्सर्ववैनाशिकराद्धान्तो नतरामपेक्षितव्य इतीदमिदानीमुपपादयामः । स च बहुप्रकारः, प्रतिपत्तिभेदाद्विनेयभेदाद्वा ; तत्रैते त्रयो वादिनो भवन्ति — केचित्सर्वास्तित्ववादिनः ; केचिद्विज्ञानास्तित्वमात्रवादिनः ; अन्ये पुनः सर्वशून्यत्ववादिन इति । तत्र ये सर्वास्तित्ववादिनो बाह्यमान्तरं च वस्त्वभ्युपगच्छन्ति, भूतं भौतिकं च, चित्तं चैत्तं च, तांस्तावत्प्रतिब्रूमः । तत्र भूतं पृथिवीधात्वादयः, भौतिकं रूपादयश्चक्षुरादयश्च, चतुष्टये च पृथिव्यादिपरमाणवः खरस्नेहोष्णेरणस्वभावाः, ते पृथिव्यादिभावेन संहन्यन्ते — इति मन्यन्ते ; तथा रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पञ्चस्कन्धाः, तेऽप्यध्यात्मं सर्वव्यवहारास्पदभावेन संहन्यन्ते — इति मन्यन्ते ॥

तत्रेदमभिधीयते — योऽयमुभयहेतुक उभयप्रकारः समुदायः परेषामभिप्रेतः — अणुहेतुकश्च भूतभौतिकसंहतिरूपः, स्कन्धहेतुकश्च पञ्चस्कन्धीरूपः — तस्मिन्नुभयहेतुकेऽपि समुदायेऽभिप्रेयमाणे, तदप्राप्तिः स्यात् — समुदायाप्राप्तिः समुदायभावानुपपत्तिरित्यर्थः । कुतः ? समुदायिनामचेतनत्वात् , चित्ताभिज्वलनस्य च समुदायसिद्ध्यधीनत्वात् , अन्यस्य च कस्यचिच्चेतनस्य भोक्तुः प्रशासितुर्वा स्थिरस्य संहन्तुरनभ्युपगमात् , निरपेक्षप्रवृत्त्यभ्युपगमे च प्रवृत्त्यनुपरमप्रसङ्गात् , आशयस्याप्यन्यत्वानन्यत्वाभ्यामनिरूप्यत्वात् , क्षणिकत्वाभ्युपगमाच्च निर्व्यापारत्वात्प्रवृत्त्यनुपपत्तेः । तस्मात्समुदायानुपपत्तिः ; समुदायानुपपत्तौ च तदाश्रया लोकयात्रा लुप्येत ॥ १८ ॥

१९ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥

यद्यपि भोक्ता प्रशासिता वा कश्चिच्चेतनः संहन्ता स्थिरो नाभ्युपगम्यते, तथाप्यविद्यादीनामितरेतरकारणत्वादुपपद्यते लोकयात्रा ; तस्यां चोपपद्यमानायां न किञ्चिदपरमपेक्षितव्यमस्ति ; ते चाविद्यादयः — अविद्या संस्कारः विज्ञानं नाम रूपं षडायतनं स्पर्शः वेदना तृष्णा उपादानं भवः जातिः जरा मरणं शोकः परिदेवना दुःखं दुर्मनस्ता — इत्येवंजातीयका इतरेतरहेतुकाः सौगते समये क्वचित्संक्षिप्ता निर्दिष्टाः, क्वचित्प्रपञ्चिताः ; सर्वेषामप्ययमविद्यादिकलापोऽप्रत्याख्येयः ; तदेवमविद्यादिकलापे परस्परनिमित्तनैमित्तिकभावेन घटीयन्त्रवदनिशमावर्तमानेऽर्थाक्षिप्त उपपन्नः सङ्घात इति चेत् , तन्न । कस्मात् ? उत्पत्तिमात्रनिमित्तत्वात् — भवेदुपपन्नः सङ्घातः, यदि सङ्घातस्य किञ्चिन्निमित्तमवगम्येत ; न त्ववगम्यते ; यत इतरेतरप्रत्ययत्वेऽप्यविद्यादीनां पूर्वपूर्वम् उत्तरोत्तरस्योत्पत्तिमात्रनिमित्तं भवत् भवेत् , न तु सङ्घातोत्पत्तेः किञ्चिन्निमित्तं सम्भवति । नन्वविद्यादिभिरर्थादाक्षिप्यते सङ्घात इत्युक्तम् ; अत्रोच्यते — यदि तावदयमभिप्रायः — अविद्यादयः सङ्घातमन्तरेणात्मानमलभमाना अपेक्षन्ते सङ्घातमिति, ततस्तस्य सङ्घातस्य किञ्चिन्निमित्तं वक्तव्यम् ; तच्च नित्येष्वप्यणुष्वभ्युगम्यमानेष्वाश्रयाश्रयिभूतेषु च भोक्तृषु सत्सु न सम्भवतीत्युक्तं वैशेषिकपरीक्षायाम् ; किमङ्ग पुनः क्षणिकेष्वप्यणुषु भोक्तृरहितेष्वाश्रयाश्रयिशून्येषु वाभ्युपगम्यमानेषु सम्भवेत् । अथायमभिप्रायः — अविद्यादय एव सङ्घातस्य निमित्तमिति, कथं तमेवाश्रित्यात्मानं लभमानास्तस्यैव निमित्तं स्युः । अथ मन्यसे — सङ्घाता एवानादौ संसारे सन्तत्यानुवर्तन्ते, तदाश्रयाश्चाविद्यादय इति, तदपि सङ्घातात्संघातान्तरमुत्पद्यमानं नियमेन वा सदृशमेवोत्पद्येत, अनियमेन वा सदृशं विसदृशं वोत्पद्येत ; नियमाभ्युपगमे मनुष्यपुद्गलस्य देवतिर्यग्योनिनारकप्राप्त्यभावः प्राप्नुयात् ; अनियमाभ्युपगमेऽपि मनुष्यपुद्गलः कदाचित्क्षणेन हस्ती भूत्वा देवो वा पुनर्मनुष्यो वा भवेदिति प्राप्नुयात् ; उभयमप्यभ्युपगमविरुद्धम् । अपि च यद्भोगार्थः सङ्घातः स्यात् , स जीवो नास्ति स्थिरो भोक्ता इति तवाभ्युपगमः ; ततश्च भोगो भोगार्थ एव, स नान्येन प्रार्थनीयः ; तथा मोक्षो मोक्षार्थ एवेति मुमुक्षुणा नान्येन भवितव्यम् ; अन्येन चेत्प्रार्थ्येतोभयम् , भोगमोक्षकालावस्थायिना तेन भवितव्यम् ; अवस्थायित्वे क्षणिकत्वाभ्युपगमविरोधः । तस्मादितरेतरोत्पत्तिमात्रनिमित्तत्वमविद्यादीनां यदि भवेत् , भवतु नाम ; न तु सङ्घातः सिध्येत् , भोक्त्रभावात् — इत्यभिप्रायः ॥ १९ ॥

२० उत्तरोत्पादे च पूर्वनिरोधात् ॥

उक्तमेतत् — अविद्यादीनामुत्पत्तिमात्रनिमित्तत्वान्न सङ्घातसिद्धिरस्तीति ; तदपि तु उत्पत्तिमात्रनिमित्तत्वं न सम्भवतीतीदमिदानीमुपपाद्यते । क्षणभङ्गवादिनोऽयमभ्युपगमः — उत्तरस्मिन्क्षणे उत्पद्यमाने पूर्वः क्षणो निरुध्यत इति ; न चैवमभ्युपगच्छता पूर्वोत्तरयोः क्षणयोर्हेतुफलभावः शक्यते सम्पादयितुम् , निरुध्यमानस्य निरुद्धस्य वा पूर्वक्षणस्याभावग्रस्तत्वादुत्तरक्षणहेतुत्वानुपपत्तेः ; अथ भावभूतः परिनिष्पन्नावस्थः पूर्वक्षण उत्तरक्षणस्य हेतुरित्यभिप्रायः, तथापि नोपपद्यते, भावभूतस्य पुनर्व्यापारकल्पनायां क्षणान्तरसम्बन्धप्रसङ्गात् ; अथ भाव एवास्य व्यापार इत्यभिप्रायः, तथापि नैवोपपद्यते, हेतुस्वभावानुपरक्तस्य फलस्योत्पत्त्यसम्भवात् ; स्वभावोपरागाभ्युपगमे च, हेतुस्वभावस्य फलकालावस्थायित्वे सति, क्षणभङ्गाभ्युपगमत्यागप्रसङ्गः ; विनैव वा स्वभावोपरागेण हेतुफलभावमभ्युपगच्छतः सर्वत्र तत्प्राप्तेरतिप्रसङ्गः । अपि चोत्पादनिरोधौ नाम वस्तुनः स्वरूपमेव वा स्याताम् , अवस्थान्तरं वा, वस्त्वन्तरमेव वा — सर्वथापि नोपपद्यते ; यदि तावद्वस्तुनः स्वरूपमेवोत्पादनिरोधौ स्याताम् , ततो वस्तुशब्द उत्पादनिरोधशब्दौ च पर्यायाः प्राप्नुयुः ; अथास्ति कश्चिद्विशेष इति मन्येत — उत्पादनिरोधशब्दाभ्यां मध्यवर्तिनो वस्तुन आद्यन्ताख्ये अवस्थे अभिलप्येते इति, एवमप्याद्यन्तमध्यक्षणत्रयसम्बन्धित्वाद्वस्तुनः क्षणिकत्वाभ्युपगमहानिः ; अथात्यन्तव्यतिरिक्तावेवोत्पादनिरोधौ वस्तुनः स्याताम् — अश्वमहिषवत् , ततो वस्तु उत्पादनिरोधाभ्यामसंस्पृष्टमिति वस्तुनः शाश्वतत्वप्रसङ्गः ; यदि च दर्शनादर्शने वस्तुन उत्पादनिरोधौ स्याताम् , एवमपि द्रष्टृधर्मौ तौ न वस्तुधर्माविति वस्तुनः शाश्वतत्वप्रसङ्ग एव । तस्मादप्यसङ्गतं सौगतं मतम् ॥ २० ॥

२१ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥

क्षणभङ्गवादे पूर्वक्षणो निरोधग्रस्तत्वान्नोत्तरस्य क्षणस्य हेतुर्भवतीत्युक्तम् ; अथासत्येव हेतौ फलोत्पत्तिं ब्रूयात् , ततः प्रतिज्ञोपरोधः स्यात् — चतुर्विधान्हेतून्प्रतीत्य चित्तचैत्ता उत्पद्यन्त इतीयं प्रतिज्ञा हीयेत ; निर्हेतुकायां चोत्पत्तावप्रतिबन्धात्सर्वं सर्वत्रोत्पद्येत । अथोत्तरक्षणोत्पत्तिर्यावत्तावदवतिष्ठते पूर्वक्षण इति ब्रूयात् , ततो यौगपद्यं हेतुफलयोः स्यात् ; तथापि प्रतिज्ञोपरोध एव स्यात् — क्षणिकाः सर्वे संस्कारा इतीयं प्रतिज्ञोपरुध्येत ॥ २१ ॥

२२ प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥

अपि च वैनाशिकाः कल्पयन्ति — बुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं चेति ; तदपि च त्रयम् — प्रतिसंख्याप्रतिसंख्यानिरोधौ आकाशं चेत्याचक्षते ; त्रयमपि चैतत् अवस्तु अभावमात्रं निरुपाख्यमिति मन्यन्ते ; बुद्धिपूर्वकः किल विनाशो भावानां प्रतिसंख्यानिरोधो नाम भाष्यते ; तद्विपरीतोऽप्रतिसंख्यानिरोधः ; आवरणाभावमात्रमाकाशमिति । तेषामाकाशं परस्तात्प्रत्याख्यास्यति ; निरोधद्वयमिदानीं प्रत्याचष्टे — प्रतिसंख्याप्रतिसंख्यानिरोधयोः अप्राप्तिरसम्भव इत्यर्थः । कस्मात् ? अविच्छेदात् — एतौ हि प्रतिसंख्याप्रतिसंख्यानिरोधौ सन्तानगोचरौ वा स्याताम् , भावगोचरौ वा ; न तावत्सन्तानगोचरौ सम्भवतः, सर्वेष्वपि सन्तानेषु सन्तानिनामविच्छिन्नेन हेतुफलभावेन सन्तानविच्छेदस्यासम्भवात् ; नापि भावगोचरौ सम्भवतः — न हि भावानां निरन्वयो निरुपाख्यो विनाशः सम्भवति, सर्वास्वप्यवस्थासु प्रत्यभिज्ञानबलेनान्वय्यविच्छेददर्शनात् , अस्पष्टप्रत्यभिज्ञानास्वप्यवस्थासु क्वचिद्दृष्टेनान्वय्यविच्छेदेनान्यत्रापि तदनुमानात् । तस्मात्परपरिकल्पितस्य निरोधद्वयस्यानुपपत्तिः ॥ २२ ॥

२३ उभयथा च दोषात् ॥

योऽयमविद्यादिनिरोधः प्रतिसंख्यानिरोधान्तःपाती परपरिकल्पितः, स सम्यग्ज्ञानाद्वा सपरिकरात्स्यात् ; स्वयमेव वा — पूर्वस्मिन्विकल्पे निर्हेतुकविनाशाभ्युपगमहानिप्रसङ्गः ; उत्तरस्मिंस्तु मार्गोपदेशानर्थक्यप्रसङ्गः । एवमुभयथापि दोषप्रसङ्गादसमञ्जसमिदं दर्शनम् ॥ २३ ॥

२४ आकाशे चाविशेषात् ॥

यच्च तेषामेवाभिप्रेतं निरोधद्वयमाकाशं च निरुपाख्यमिति — तत्र निरोधद्वयस्य निरुपाख्यत्वं पुरस्तान्निराकृतम् ; आकाशस्येदानीं निराक्रियते । आकाशे चायुक्तो निरुपाख्यत्वाभ्युपगमः, प्रतिसंख्याप्रतिसंख्यानिरोधयोरिव वस्तुत्वप्रतिपत्तेरविशेषात् । आगमप्रामाण्यात्तावत् ‘ आत्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इत्यादिश्रुतिभ्य आकाशस्य च वस्तुत्वप्रसिद्धिः । विप्रतिपन्नान्प्रति तु शब्दगुणानुमेयत्वं वक्तव्यम् — गन्धादीनां गुणानां पृथिव्यादिवस्त्वाश्रयत्वदर्शनात् । अपि च आवरणाभावमात्रमाकाशमिच्छताम् , एकस्मिन्सुपर्णे पतत्यावरणस्य विद्यमानत्वात्सुपर्णान्तरस्योत्पित्सतोऽनवकाशत्वप्रसङ्गः ; यत्रावरणाभावस्तत्र पतिष्यतीति चेत् — येनावरणाभावो विशेष्यते, तत्तर्हि वस्तुभूतमेवाकाशं स्यात् , न आवरणाभावमात्रम् ; अपि च आवरणाभावमात्रमाकाशं मन्यमानस्य सौगतस्य स्वाभ्युपगमविरोधः प्रसज्येत ; सौगते हि समये ‘ पृथिवी भगवः किंसन्निश्रया’ इत्यस्मिन्प्रश्नप्रतिवचनप्रवाहे पृथिव्यादीनामन्ते ‘ वायुः किंसन्निश्रयः’ इत्यस्य प्रश्नस्य प्रतिवचनं भवति — ‘ वायुराकाशसन्निश्रयः’ इति ; तदाकाशस्यावस्तुत्वे न समञ्जसं स्यात् ; तस्मादप्ययुक्तमाकाशस्यावस्तुत्वम् । अपि च निरोधद्वयमाकाशं च त्रयमप्येतन्निरुपाख्यमवस्तु नित्यं चेति विप्रतिषिद्धम् ; न ह्यवस्तुनो नित्यत्वमनित्यत्वं वा सम्भवति, वस्त्वाश्रयत्वाद्धर्मधर्मिव्यवहारस्य ; धर्मधर्मिभावे हि घटादिवद्वस्तुत्वमेव स्यात् , न निरुपाख्यत्वम् ॥ २४ ॥

२५ अनुस्मृतेश्च ॥

अपि च वैनाशिकः सर्वस्य वस्तुनः क्षणिकतामभ्युपयन् उपलब्धुरपि क्षणिकतामभ्युपेयात् ; न च सा सम्भवति ; अनुस्मृतेः — अनुभवम् उपलब्धिमनूत्पद्यमानं स्मरणमेव अनुस्मृतिः ; सा चोपलब्ध्येककर्तृका सती सम्भवति, पुरुषान्तरोपलब्धिविषये पुरुषान्तरस्य स्मृत्यदर्शनात् ; कथं हि ‘ अहमदोऽद्राक्षम् — इदं पश्यामि’ इति च पूर्वोत्तरदर्शिन्येकस्मिन्नसति प्रत्ययः स्यात् । अपि च दर्शनस्मरणयोः कर्तर्येकस्मिन्प्रत्यक्षः प्रत्यभिज्ञाप्रत्ययः सर्वस्य लोकस्य प्रसिद्धः — ‘ अहमदोऽद्राक्षम् — इदं पश्यामि’ इति ; यदि हि तयोर्भिन्नः कर्ता स्यात् , ततः ‘ अहं स्मरामि — अद्राक्षीदन्यः’ इति प्रतीयात् ; न त्वेवं प्रत्येति कश्चित् ; यत्रैवं प्रत्ययस्तत्र दर्शनस्मरणयोर्भिन्नमेव कर्तारं सर्वलोकोऽवगच्छति — ‘ स्मराम्यहम् — असावदोऽद्राक्षीत्’ इति ; इह तु ‘ अहमदोऽद्राक्षम्’ इति दर्शनस्मरणयोर्वैनाशिकोऽप्यात्मानमेवैकं कर्तारमवगच्छति ; न ‘ नाहम्’ इत्यात्मनो दर्शनं निर्वृत्तं निह्नुते — यथा अग्निरनुष्णोऽप्रकाश इति वा । तत्रैवं सत्येकस्य दर्शनस्मरणलक्षणक्षणद्वयसम्बन्धे क्षणिकत्वाभ्युपगमहानिरपरिहार्या वैनाशिकस्य स्यात् । तथा अनन्तरामनन्तरामात्मन एव प्रतिपत्तिं प्रत्यभिजानन्नेककर्तृकाम् आ उत्तमादुच्छ्वासात् , अतीताश्च प्रतिपत्तीः आ जन्मन आत्मैककर्तृकाः प्रतिसन्दधानः, कथं क्षणभङ्गवादी वैनाशिको नापत्रपेत ? स यदि ब्रूयात् सादृश्यादेतत्सम्पत्स्यत इति, तं प्रतिब्रूयात् — तेनेदं सदृशमिति द्वयायत्तत्वात्सादृश्यस्य, क्षणभङ्गवादिनः सदृशयोर्द्वयोर्वस्तुनोर्ग्रहीतुरेकस्याभावात् , सादृश्यनिमित्तं प्रतिसन्धानमिति मिथ्याप्रलाप एव स्यात् ; स्याच्चेत्पूर्वोत्तरयोः क्षणयोः सादृश्यस्य ग्रहीतैकः, तथा सत्येकस्य क्षणद्वयावस्थानात्क्षणिकत्वप्रतिज्ञा पीड्येत ; ‘ तेनेदं सदृशम्’ इति प्रत्ययान्तरमेवेदम् , न पूर्वोत्तरक्षणद्वयग्रहणनिमित्तमिति चेत् , न ; तेन इदम् इति भिन्नपदार्थोपादानात् ; प्रत्ययान्तरमेव चेत्सादृश्यविषयं स्यात् , ‘ तेनेदं सदृशम्’ इति वाक्यप्रयोगोऽनर्थकः स्यात् , सादृश्यम् इत्येव प्रयोगः प्राप्नुयात् । यदा हि लोकप्रसिद्धः पदार्थः परीक्षकैर्न परिगृह्यते, तदा स्वपक्षसिद्धिः परपक्षदोषो वा उभयमप्युच्यमानं परीक्षकाणामात्मनश्च यथार्थत्वेन न बुद्धिसन्तानमारोहति । एवमेवैषोऽर्थः इति निश्चितं यत् , तदेव वक्तव्यम् ; ततोऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः केवलं प्रख्यापयेत् । न चायं सादृश्यात्संव्यवहारो युक्तः ; तद्भावावगमात् , तत्सदृशभावानवगमाच्च । भवेदपि कदाचिद्बाह्यवस्तुनि विप्रलम्भसम्भवात् ‘ तदेवेदं स्यात् , तत्सदृशं वा’ इति सन्देहः ; उपलब्धरि तु सन्देहोऽपि न कदाचिद्भवति — ‘ स एवाहं स्यां तत्सदृशो वा’ इति, ‘ य एवाहं पूर्वेद्युरद्राक्षं स एवाहमद्य स्मरामि’ इति निश्चिततद्भावोपलम्भात् । तस्मादप्यनुपपन्नो वैनाशिकसमयः ॥ २५ ॥

२६ नासतोऽदृष्टत्वात् ॥

इतश्चानुपपन्नो वैनाशिकसमयः, यतः स्थिरमनुयायिकारणमनभ्युपगच्छताम् अभावाद्भावोत्पत्तिरित्येतदापद्येत ; दर्शयन्ति चाभावाद्भावोत्पत्तिम् — ‘ नानुपमृद्य प्रादुर्भावात्’ इति ; विनष्टाद्धि किल बीजादङ्कुर उत्पद्यते, तथा विनष्टात्क्षीराद्दधि, मृत्पिण्डाच्च घटः ; कूटस्थाच्चेत्कारणात्कार्यमुत्पद्येत, अविशेषात्सर्वं सर्वत उत्पद्येत ; तस्मादभावग्रस्तेभ्यो बीजादिभ्योऽङ्कुरादीनामुत्पद्यमानत्वादभावाद्भावोत्पत्तिः — इति मन्यन्ते । तत्रेदमुच्यते — ‘ नासतोऽदृष्टत्वात्’ इति । नाभावाद्भाव उत्पद्यते ; यद्यभावाद्भाव उत्पद्येत, अभावत्वाविशेषात्कारणविशेषाभ्युपगमोऽनर्थकः स्यात् ; न हि, बीजादीनामुपमृदितानां योऽभावस्तस्याभावस्य शशविषाणादीनां च, निःस्वभावत्वाविशेषादभावत्वे कश्चिद्विशेषोऽस्ति ; येन, बीजादेवाङ्कुरो जायते क्षीरादेव दधि — इत्येवंजातीयकः कारणविशेषाभ्युपगमोऽर्थवान्स्यात् ; निर्विशेषस्य त्वभावस्य कारणत्वाभ्युपगमे शशविषाणादिभ्योऽप्यङ्कुरादयो जायेरन् ; न चैवं दृश्यते ; यदि पुनरभावस्यापि विशेषोऽभ्युपगम्येत — उत्पलादीनामिव नीलत्वादिः, ततो विशेषवत्त्वादेवाभावस्य भावत्वमुत्पलादिवत्प्रसज्येत ; नाप्यभावः कस्यचिदुत्पत्तिहेतुः स्यात् , अभावत्वादेव, शशविषाणादिवत् ; अभावाच्च भावोत्पत्तावभावान्वितमेव सर्वं कार्यं स्यात् ; न चैवं दृश्यते, सर्वस्य च वस्तुनः स्वेन स्वेन रूपेण भावात्मनैवोपलभ्यमानत्वात् ; न च मृदन्विताः शरावादयो भावास्तन्त्वादिविकाराः केनचिदभ्युपगम्यन्ते ; मृद्विकारानेव तु मृदन्वितान्भावान् लोकः प्रत्येति । यत्तूक्तम् — स्वरूपोपमर्दमन्तरेण कस्यचित्कूटस्थस्य वस्तुनः कारणत्वानुपपत्तेरभावाद्भावोत्पत्तिर्भवितुमर्हतीति, तद्दुरुक्तम् , स्थिरस्वभावानामेव सुवर्णादीनां प्रत्यभिज्ञायमानानां रुचकादिकारणभावदर्शनात् ; येष्वपि बीजादिषु स्वरूपोपमर्दो लक्ष्यते, तेष्वपि नासावुपमृद्यमाना पूर्वावस्था उत्तरावस्थायाः कारणमभ्युपगम्यते, अनुपमृद्यमानानामेवानुयायिनां बीजाद्यवयवानामङ्कुरादिकारणभावाभ्युपगमात् । तस्मादसद्भ्यः शशविषाणादिभ्यः सदुत्पत्त्यदर्शनात् , सद्भ्यश्च सुवर्णादिभ्यः सदुत्पत्तिदर्शनात् , अनुपपन्नोऽयमभावाद्भावोत्पत्त्यभ्युपगमः । अपि च चतुर्भिश्चित्तचैत्ता उत्पद्यन्ते परमाणुभ्यश्च भूतभौतिकलक्षणः समुदाय उत्पद्यते — इत्यभ्युपगम्य, पुनरभावाद्भावोत्पत्तिं कल्पयद्भिरभ्युपगतमपह्नुवानैर्वैनाशिकैः सर्वो लोक आकुलीक्रियते ॥ २६ ॥

२७ उदासीनानामपि चैवं सिद्धिः ॥

यदि चाभावाद्भावोत्पत्तिरभ्युपगम्येत, एवं सत्युदासीनानामनीहमानानामपि जनानामभिमतसिद्धिः स्यात् , अभावस्य सुलभत्वात् । कृषीवलस्य क्षेत्रकर्मण्यप्रयतमानस्यापि सस्यनिष्पत्तिः स्यात् ; कुलालस्य च मृत्संस्क्रियायामप्रयतमानस्यापि अमत्रोत्पत्तिः ; तन्तुवायस्यापि तन्तूनतन्वानस्यापि तन्वानस्येव वस्त्रलाभः ; स्वर्गापवर्गयोश्च न कश्चित्कथञ्चित्समीहेत । न चैतद्युज्यते अभ्युपगम्यते वा केनचित् । तस्मादनुपपन्नोऽयमभावाद्भावोत्पत्त्यभ्युपगमः ॥ २७ ॥