१२ वैषम्यनैर्घृण्याधिकरणम्

३४ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति ॥

पुनश्च जगज्जन्मादिहेतुत्वमीश्वरस्याक्षिप्यते, स्थूणानिखननन्यायेन प्रतिज्ञातस्यार्थस्य दृढीकरणाय । नेश्वरो जगतः कारणमुपपद्यते । कुतः ? वैषम्यनैर्घृण्यप्रसङ्गात् — कांश्चिदत्यन्तसुखभाजः करोति देवादीन् , कांश्चिदत्यन्तदुःखभाजः पश्वादीन् , कांश्चिन्मध्यमभोगभाजो मनुष्यादीन् — इत्येवं विषमां सृष्टिं निर्मिमाणस्येश्वरस्य पृथग्जनस्येव रागद्वेषोपपत्तेः, श्रुतिस्मृत्यवधारितस्वच्छत्वादीश्वरस्वभावविलोपः प्रसज्येत ; तथा खलजनैरपि जुगुप्सितं निर्घृणत्वमतिक्रूरत्वं दुःखयोगविधानात्सर्वप्रजोपसंहाराच्च प्रसज्येत ; तस्माद्वैषम्यनैर्घृण्यप्रसङ्गान्नेश्वरः कारणमित्येवं प्राप्ते ब्रूमः —

वैषम्यनैर्घृण्ये नेश्वरस्य प्रसज्येते । कस्मात् ? सापेक्षत्वात् । यदि हि निरपेक्षः केवल ईश्वरो विषमां सृष्टिं निर्मिमीते, स्यातामेतौ दोषौ — वैषम्यं नैर्घृण्यं च ; न तु निरपेक्षस्य निर्मातृत्वमस्ति ; सापेक्षो हीश्वरो विषमां सृष्टिं निर्मिमीते । किमपेक्षत इति चेत् — धर्माधर्मावपेक्षत इति वदामः ; अतः सृज्यमानप्राणिधर्माधर्मापेक्षा विषमा सृष्टिरिति नायमीश्वरस्यापराधः ; ईश्वरस्तु पर्जन्यवद्द्रष्टव्यः — यथा हि पर्जन्यो व्रीहियवादिसृष्टौ साधारणं कारणं भवति, व्रीहियवादिवैषम्ये तु तत्तद्बीजगतान्येवासाधारणानि सामर्थ्यानि कारणानि भवन्ति, एवमीश्वरो देवमनुष्यादिसृष्टौ साधारणं कारणं भवति, देवमनुष्यादिवैषम्ये तु तत्तज्जीवगतान्येवासाधारणानि कर्माणि कारणानि भवन्ति ; एवमीश्वरः सापेक्षत्वान्न वैषम्यनैर्घृण्याभ्यां दुष्यति । कथं पुनरवगम्यते सापेक्ष ईश्वरो नीचमध्यमोत्तमं संसारं निर्मिमीत इति ? तथा हि दर्शयति श्रुतिः — ‘ एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधु कर्म कारयति तं यमधो निनीषते’ (कौ. ब्रा. ३ । ८) इति, ‘ पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’ (बृ. उ. ३ । २ । १३) इति च ; स्मृतिरपि प्राणिकर्मविशेषापेक्षमेवेश्वरस्यानुग्रहीतृत्वं निग्रहीतृत्वं च दर्शयति — ‘ ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्’ (भ. गी. ४ । ११) इत्येवंजातीयका ॥ ३४ ॥

३५ न कर्माविभागादिति चेन्नानादित्वात् ॥

‘ सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इति प्राक्सृष्टेरविभागावधारणान्नास्ति कर्म, यदपेक्ष्य विषमा सृष्टिः स्यात् ; सृष्ट्युत्तरकालं हि शरीरादिविभागापेक्षं कर्म, कर्मापेक्षश्च शरीरादिविभागः — इतीतरेतराश्रयत्वं प्रसज्येत ; अतो विभागादूर्ध्वं कर्मापेक्ष ईश्वरः प्रवर्ततां नाम ; प्राग्विभागाद्वैचित्र्यनिमित्तस्य कर्मणोऽभावात्तुल्यैवाद्या सृष्टिः प्राप्नोतीति चेत् , नैष दोषः ; अनादित्वात्संसारस्य ; भवेदेष दोषः, यद्यादिमानयं संसारः स्यात् ; अनादौ तु संसारे बीजाङ्कुरवद्धेतुहेतुमद्भावेन कर्मणः सर्गवैषम्यस्य च प्रवृत्तिर्न विरुध्यते ॥ ३५ ॥

कथं पुनरवगम्यते — अनादिरेष संसार इति ? अत उत्तरं पठति —

३६ उपपद्यते चाप्युपलभ्यते च ॥

उपपद्यते च संसारस्यानादित्वम् — आदिमत्त्वे हि संसारस्याकस्मादुद्भूतेर्मुक्तानामपि पुनः संसारोद्भूतिप्रसङ्गः, अकृताभ्यागमप्रसङ्गश्च, सुखदुःखादिवैषम्यस्य निर्निमित्तत्वात् ; न चेश्वरो वैषम्यहेतुरित्युक्तम् ; न चाविद्या केवला वैषम्यस्य कारणम् , एकरूपत्वात् ; रागादिक्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्यात् ; न च कर्म अन्तरेण शरीरं सम्भवति, न च शरीरमन्तरेण कर्म सम्भवति — इतीतरेतराश्रयत्वप्रसङ्गः ; अनादित्वे तु बीजाङ्कुरन्यायेनोपपत्तेर्न कश्चिद्दोषो भवति । उपलभ्यते च संसारस्यानादित्वं श्रुतिस्मृत्योः । श्रुतौ तावत् — ‘ अनेन जीवेनात्मना’ (छा. उ. ६ । ३ । २) इति सर्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिमित्तेनाभिलपन्ननादिः संसार इति दर्शयति । आदिमत्त्वे तु प्रागनवधारितप्राणः सन् कथं प्राणधारणनिमित्तेन जीवशब्देन सर्गप्रमुखेऽभिलप्येत ? न च धारयिष्यतीत्यतोऽभिलप्येत — अनागताद्धि सम्बन्धादतीतः सम्बन्धो बलवान्भवति, अभिनिष्पन्नत्वात् ; ‘ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्’ (ऋ. सं. १० । १९० । ३) इति च मन्त्रवर्णः पूर्वकल्पसद्भावं दर्शयति । स्मृतावप्यनादित्वं संसारस्योपलभ्यते — ‘ न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा’ (भ. गी. १५ । ३) इति ; पुराणे चातीतानागतानां च कल्पानां न परिमाणमस्तीति स्थापितम् ॥ ३६ ॥