३२ न प्रयोजनवत्त्वात् ॥
अन्यथा पुनश्चेतनकर्तृकत्वं जगत आक्षिपति — न खलु चेतनः परमात्मेदं जगद्बिम्बं विरचयितुमर्हति । कुतः ? प्रयोजनवत्त्वात्प्रवृत्तीनाम् । चेतनो हि लोके बुद्धिपूर्वकारी पुरुषः प्रवर्तमानो न मन्दोपक्रमामपि तावत्प्रवृत्तिमात्मप्रयोजनानुपयोगिनीमारभमाणो दृष्टः, किमुत गुरुतरसंरम्भाम् ; भवति च लोकप्रसिद्ध्यनुवादिनी श्रुतिः — ‘ न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति’ (बृ. उ. २ । ४ । ५) इति ; गुरुतरसंरम्भा चेयं प्रवृत्तिः — यदुच्चावचप्रपञ्चं जगद्बिम्बं विरचयितव्यम् ; यदीयमपि प्रवृत्तिश्चेतनस्य परमात्मन आत्मप्रयोजनोपयोगिनी परिकल्प्येत, परितृप्तत्वं परमात्मनः श्रूयमाणं बाध्येत ; प्रयोजनाभावे वा प्रवृत्त्यभावोऽपि स्यात् ; अथ चेतनोऽपि सन् उन्मत्तो बुद्ध्यपराधादन्तरेणैवात्मप्रयोजनं प्रवर्तमानो दृष्टः, तथा परमात्मापि प्रवर्तिष्यते इत्युच्येत — तथा सति सर्वज्ञत्वं परमात्मनः श्रूयमाणं बाध्येत ; तस्मादश्लिष्टा चेतनात्सृष्टिरिति ॥ ३२ ॥
३३ लोकवत्तु लीलाकैवल्यम् ॥
तुशब्देनाक्षेपं परिहरति ; यथा लोके कस्यचिदाप्तैषणस्य राज्ञो राजामात्यस्य वा व्यतिरिक्तं किञ्चित्प्रयोजनमनभिसन्धाय केवलं लीलारूपाः प्रवृत्तयः क्रीडाविहारेषु भवन्ति ; यथा चोच्छ्वासप्रश्वासादयोऽनभिसन्धाय बाह्यं किञ्चित्प्रयोजनं स्वभावादेव सम्भवन्ति ; एवमीश्वरस्याप्यनपेक्ष्य किञ्चित्प्रयोजनान्तरं स्वभावादेव केवलं लीलारूपा प्रवृत्तिर्भविष्यति ; न हीश्वरस्य प्रयोजनान्तरं निरूप्यमाणं न्यायतः श्रुतितो वा सम्भवति ; न च स्वभावः पर्यनुयोक्तुं शक्यते । यद्यप्यस्माकमियं जगद्बिम्बविरचना गुरुतरसंरम्भेवाभाति, तथापि परमेश्वरस्य लीलैव केवलेयम् , अपरिमितशक्तित्वात् । यदि नाम लोके लीलास्वपि किञ्चित्सूक्ष्मं प्रयोजनमुत्प्रेक्ष्येत, तथापि नैवात्र किञ्चित्प्रयोजनमुत्प्रेक्षितुं शक्यते, आप्तकामश्रुतेः । नाप्यप्रवृत्तिरुन्मत्तप्रवृत्तिर्वा, सृष्टिश्रुतेः, सर्वज्ञश्रुतेश्च । न चेयं परमार्थविषया सृष्टिश्रुतिः ; अविद्याकल्पितनामरूपव्यवहारगोचरत्वात् , ब्रह्मात्मभावप्रतिपादनपरत्वाच्च — इत्येतदपि नैव विस्मर्तव्यम् ॥ ३३ ॥