३० सर्वोपेता च तद्दर्शनात् ॥
एकस्यापि ब्रह्मणो विचित्रशक्तियोगादुपपद्यते विचित्रो विकारप्रपञ्च इत्युक्तम् ; तत्पुनः कथमवगम्यते — विचित्रशक्तियुक्तं परं ब्रह्मेति ; तदुच्यते — सर्वोपेता च तद्दर्शनात् । सर्वशक्तियुक्ता च परा देवतेत्यभ्युपगन्तव्यम् । कुतः ? तद्दर्शनात् । तथा हि दर्शयति श्रुतिः सर्वशक्तियोगं परस्या देवतायाः — ‘ सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः’ (छा. उ. ३ । १४ । ४) ‘ सत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८ । ७ । १) ‘ यः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) ‘ एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ (बृ. उ. ३ । ८ । ९) इत्येवंजातीयका ॥ ३० ॥
३१ विकरणत्वान्नेति चेत्तदुक्तम् ॥
स्यादेतत् — विकरणां परां देवतां शास्ति शास्त्रम् — ‘ अचक्षुष्कमश्रोत्रमवागमनाः’ (बृ. उ. ३ । ८ । ८) इत्येवंजातीयकम् । कथं सा सर्वशक्तियुक्तापि सती कार्याय प्रभवेत् ? देवादयो हि चेतनाः सर्वशक्तियुक्ता अपि सन्त आध्यात्मिककार्यकरणसम्पन्ना एव तस्मै तस्मै कार्याय प्रभवन्तो विज्ञायन्ते ; कथं च ‘ नेति नेति’ (बृ. उ. ३ । ९ । २६) इति प्रतिषिद्धसर्वविशेषाया देवतायाः सर्वशक्तियोगः सम्भवेत् , इति चेत् — यदत्र वक्तव्यं तत्पुरस्तादेवोक्तम् ; श्रुत्यवगाह्यमेवेदमतिगम्भीरं ब्रह्म न तर्कावगाह्यम् ; न च यथैकस्य सामर्थ्यं दृष्टं तथान्यस्यापि सामर्थ्येन भवितव्यमिति नियमोऽस्तीति । प्रतिषिद्धसर्वविशेषस्यापि ब्रह्मणः सर्वशक्तियोगः सम्भवतीत्येतदप्यविद्याकल्पितरूपभेदोपन्यासेनोक्तमेव । तथा च शास्त्रम् — ‘ अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः’ (श्वे. उ. ३ । १९) इत्यकरणस्यपि ब्रह्मणः सर्वसामर्थ्ययोगं दर्शयति ॥ ३१ ॥