०९ कृत्स्नप्रसक्त्यधिकरणम्

२६ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥

चेतनमेकमद्वितीयं ब्रह्म क्षीरादिवद्देवादिवच्चानपेक्ष्य बाह्यं साधनं स्वयं परिणममानं जगतः कारणमिति स्थितम् ; शास्त्रार्थपरिशुद्धये तु पुनराक्षिपति । कृत्स्नप्रसक्तिः कृत्स्नस्य ब्रह्मणः कार्यरूपेण परिणामः प्राप्नोति, निरवयवत्वात् — यदि ब्रह्म पृथिव्यादिवत्सावयवमभविष्यत् , ततोऽस्यैकदेशः पर्यणंस्यत् , एकदेशश्चावास्थास्यत ; निरवयवं तु ब्रह्म श्रुतिभ्योऽवगम्यते — ‘ निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’ (श्वे. उ. ६ । १९) ‘ दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) ‘ इदं महद्भूतमनन्तमपारं विज्ञानघन एव’ (बृ. उ. २ । ४ । १२) ‘ स एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) ‘ अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) इत्याद्याभ्यः सर्वविशेषप्रतिषेधिनीभ्यः ; ततश्चैकदेशपरिणामासम्भवात्कृत्स्नपरिणामप्रसक्तौ सत्यां मूलोच्छेदः प्रसज्येत ; द्रष्टव्यतोपदेशानर्थक्यं च आपद्येत, अयत्नदृष्टत्वात्कार्यस्य, तद्व्यतिरिक्तस्य च ब्रह्मणोऽसम्भवात् ; अजत्वादिशब्दव्याकोपश्च । अथैतद्दोषपरिजिहीर्षया सावयवमेव ब्रह्माभ्युपगम्येत, तथापि ये निरवयवत्वस्य प्रतिपादकाः शब्दा उदाहृतास्ते प्रकुप्येयुः ; सावयवत्वे चानित्यत्वप्रसङ्ग इति — सर्वथायं पक्षो न घटयितुं शक्यत इत्याक्षिपति ॥ २६ ॥

२७ श्रुतेस्तु शब्दमूलत्वात् ॥

तुशब्देनाक्षेपं परिहरति । न खल्वस्मत्पक्षे कश्चिदपि दोषोऽस्ति । न तावत्कृत्स्नप्रसक्तिरस्ति । कुतः ? श्रुतेः — यथैव हि ब्रह्मणो जगदुत्पत्तिः श्रूयते, एवं विकारव्यतिरेकेणापि ब्रह्मणोऽवस्थानं श्रूयते — प्रकृतिविकारयोर्भेदेन व्यपदेशात् ‘ सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति, ‘ तावानस्य महिमा ततो ज्यायाँश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६) इति चैवंजातीयकात् ; तथा हृदयायतनत्ववचनात् ; सत्सम्पत्तिवचनाच्च — यदि च कृत्स्नं ब्रह्म कार्यभावेनोपयुक्तं स्यात् , ‘ सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) इति सुषुप्तिगतं विशेषणमनुपपन्नं स्यात् , विकृतेन ब्रह्मणा नित्यसम्पन्नत्वादविकृतस्य च ब्रह्मणोऽभावात् ; तथेन्द्रियगोचरत्वप्रतिषेधात् ब्रह्मणो, विकारस्य चेन्द्रियगोचरत्वोपपत्तेः ; तस्मादस्त्यविकृतं ब्रह्म । न च निरवयवत्वशब्दकोपोऽस्ति, श्रूयमाणत्वादेव निरवयवत्वस्याप्यभ्युपगम्यमानत्वात् ; शब्दमूलं च ब्रह्म शब्दप्रमाणकम् , नेन्द्रियादिप्रमाणकम् ; तद्यथाशब्दमभ्युपगन्तव्यम् ; शब्दश्चोभयमपि ब्रह्मणः प्रतिपादयति — अकृत्स्नप्रसक्तिं निरवयवत्वं च ; लौकिकानामपि मणिमन्त्रौषधिप्रभृतीनां देशकालनिमित्तवैचित्र्यवशाच्छक्तयो विरुद्धानेककार्यविषया दृश्यन्ते ; ता अपि तावन्नोपदेशमन्तरेण केवलेन तर्केणावगन्तुं शक्यन्ते — अस्य वस्तुन एतावत्य एतत्सहाया एतद्विषया एतत्प्रयोजनाश्च शक्तय इति ; किमुताचिन्त्यस्वभावस्य ब्रह्मणो रूपं विना शब्देन न निरूप्येत ; तथा चाहुः पौराणिकाः — ‘ अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् । प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम्’ इति । तस्माच्छब्दमूल एवातीन्द्रियार्थयाथात्म्याधिगमः । ननु शब्देनापि न शक्यते विरुद्धोऽर्थः प्रत्याययितुम् — निरवयवं च ब्रह्म परिणमते न च कृत्स्नमिति ; यदि निरवयवं ब्रह्म स्यात् , नैव परिणमेत, कृत्स्नमेव वा परिणमेत ; अथ केनचिद्रूपेण परिणमेत केनचिच्चावतिष्ठेतेति, रूपभेदकल्पनात्सावयवमेव प्रसज्येत ; क्रियाविषये हि ‘ अतिरात्रे षोडशिनं गृह्णाति’ ‘ नातिरात्रे षोडशिनं गृह्णाति’ इत्येवंजातीयकायां विरोधप्रतीतावपि विकल्पाश्रयणं विरोधपरिहारकारणं भवति, पुरुषतन्त्रत्वाच्चानुष्ठानस्य ; इह तु विकल्पाश्रयणेनापि न विरोधपरिहारः सम्भवति, अपुरुषतन्त्रत्वाद्वस्तुनः ; तस्माद्दुर्घटमेतदिति । नैष दोषः, अविद्याकल्पितरूपभेदाभ्युपगमात् । न ह्यविद्याकल्पितेन रूपभेदेन सावयवं वस्तु सम्पद्यते ; न हि तिमिरोपहतनयनेनानेक इव चन्द्रमा दृश्यमानोऽनेक एव भवति ; अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्म परिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यते ; पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणतमवतिष्ठते, वाचारम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्य — इति न निरवयवत्वं ब्रह्मणः कुप्यति ; न चेयं परिणामश्रुतिः परिणामप्रतिपादनार्था, तत्प्रतिपत्तौ फलानवगमात् ; सर्वव्यवहारहीनब्रह्मात्मभावप्रतिपादनार्था त्वेषा, तत्प्रतिपत्तौ फलावगमात् ; ‘ स एष नेति नेत्यात्मा’ इत्युपक्रम्याह ‘ अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४) इति ; तस्मादस्मत्पक्षे न कश्चिदपि दोषप्रसङ्गोऽस्ति ॥ २७ ॥

२८ आत्मनि चैवं विचित्राश्च हि ॥

अपि च नैवात्र विवदितव्यम् — कथमेकस्मिन्ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः स्यादिति ; यत आत्मन्यप्येकस्मिन्स्वप्नदृशि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः पठ्यते — ‘ न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथारथयोगान्पथः सृजते’ (बृ. उ. ४ । ३ । १०) इत्यादिना ; लोकेऽपि देवादिषु मायाव्यादिषु च स्वरूपानुपमर्देनैव विचित्रा हस्त्यश्वादिसृष्टयो दृश्यन्ते ; तथैकस्मिन्नपि ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिर्भविष्यतीति ॥ २८ ॥

२९ स्वपक्षदोषाच्च ॥

परेषामप्येष समानः स्वपक्षे दोषः — प्रधानवादिनोऽपि हि निरवयवमपरिच्छिन्नं शब्दादिहीनं प्रधानं सावयवस्य परिच्छिन्नस्य शब्दादिमतः कार्यस्य कारणमिति स्वपक्षः ; तत्रापि कृत्स्नप्रसक्तिर्निरवयवत्वात्प्रधानस्य प्राप्नोति, निरवयवत्वाभ्युपगमकोपो वा । ननु नैव तैर्निरवयवं प्रधानमभ्युपगम्यते ; सत्त्वरजस्तमांसि हि त्रयो गुणाः ; तेषां साम्यावस्था प्रधानम् ; तैरेवावयवैस्तत्सावयवमिति — नैवंजातीयकेन सावयवत्वेन प्रकृतो दोषः परिहर्तुं पार्यते, यतः सत्त्वरजस्तमसामप्येकैकस्य समानं निरवयवत्वम् एकैकमेव चेतरद्वयानुगृहीतं सजातीयस्य प्रपञ्चस्योपादानमिति — समानत्वात्स्वपक्षदोषप्रसङ्गस्य । तर्काप्रतिष्ठानात्सावयवत्वमेवेति चेत् — एवमप्यनित्यत्वादिदोषप्रसङ्गः । अथ शक्तय एव कार्यवैचित्र्‌यसूचिता अवयवा इत्यभिप्रायः, तास्तु ब्रह्मवादिनोऽप्यविशिष्टाः । तथा अणुवादिनोऽप्यणुरण्वन्तरेण संयुज्यमानो निरवयवत्वाद्यदि कार्त्स्न्येन संयुज्येत, ततः प्रथिमानुपपत्तेरणुमात्रत्वप्रसङ्गः ; अथैकदेशेन संयुज्येत, तथापि निरवयवत्वाभ्युपगमकोप इति — स्वपक्षेऽपि समान एष दोषः । समानत्वाच्च नान्यतरस्मिन्नेव पक्षे उपक्षेप्तव्यो भवति । परिहृतस्तु ब्रह्मवादिना स्वपक्षे दोषः ॥ २९ ॥