२४ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥
चेतनं ब्रह्मैकमद्वितीयं जगतः कारणमिति यदुक्तम् , तन्नोपपद्यते । कस्मात् ? उपसंहारदर्शनात् । इह हि लोके कुलालादयो घटपटादीनां कर्तारो मृद्दण्डचक्रसूत्रसलिलाद्यनेककारकोपसंहारेण सङ्गृहीतसाधनाः सन्तस्तत्तत्कार्यं कुर्वाणा दृश्यन्ते । ब्रह्म चासहायं तवाभिप्रेतम् ; तस्य साधनान्तरानुपसङ्ग्रहे सति कथं स्रष्टृत्वमुपपद्येत ? तस्मान्न ब्रह्म जगत्कारणमिति चेत् , नैष दोषः ; यतः क्षीरवद्द्रव्यस्वभावविशेषादुपपद्यते — यथा हि लोके क्षीरं जलं वा स्वयमेव दधिहिमकरकादिभावेन परिणमतेऽनपेक्ष्य बाह्यं साधनम् , तथेहापि भविष्यति । ननु क्षीराद्यपि दध्यादिभावेन परिणममानमपेक्षत एव बाह्यं साधनमौष्ण्यादिकम् ; कथमुच्यते ‘ क्षीरवद्धि’ इति ? नैष दोषः ; स्वयमपि हि क्षीरं यां च यावतीं च परिणाममात्रामनुभवत्येव त्वार्यते त्वौष्ण्यादिना दधिभावाय ; यदि च स्वयं दधिभावशीलता न स्यात् , नैवौष्ण्यादिनापि बलाद्दधिभावमापद्येत ; न हि वायुराकाशो वा औष्ण्यादिना बलाद्दधिभावमापद्यते ; साधनसामग्र्या च तस्य पूर्णता सम्पाद्यते ; परिपूर्णशक्तिकं तु ब्रह्म ; न तस्यान्येन केनचित्पूर्णता सम्पादयितव्या ; श्रुतिश्च भवति — ‘ न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ (श्वे. उ. ६ । ८) इति । तस्मादेकस्यापि ब्रह्मणो विचित्रशक्तियोगात् क्षीरादिवद्विचित्रपरिणाम उपपद्यते ॥ २४ ॥
२५ देवादिवदपि लोके ॥
स्यादेतत् — उपपद्यते क्षीरादीनामचेतनानामनपेक्ष्यापि बाह्यं साधनं दध्यादिभावः, दृष्टत्वात् ; चेतनाः पुनः कुलालादयः साधनसामग्रीमपेक्ष्यैव तस्मै तस्मै कार्याय प्रवर्तमाना दृश्यन्ते ; कथं ब्रह्म चेतनं सत् असहायं प्रवर्तेतेति — देवादिवदिति ब्रूमः — यथा लोके देवाः पितर ऋषय इत्येवमादयो महाप्रभावाश्चेतना अपि सन्तोऽनपेक्ष्यैव किञ्चिद्बाह्यं साधनमैश्वर्यविशेषयोगादभिध्यानमात्रेण स्वत एव बहूनि नानासंस्थानानि शरीराणि प्रासादादीनि रथादीनि च निर्मिमाणा उपलभ्यन्ते, मन्त्रार्थवादेतिहासपुराणप्रामाण्यात् ; तन्तुनाभश्च स्वत एव तन्तून्सृजति ; बलाका चान्तरेणैव शुक्रं गर्भं धत्ते ; पद्मिनी चानपेक्ष्य किञ्चित्प्रस्थानसाधनं सरोन्तरात्सरोन्तरं प्रतिष्ठते — एवं चेतनमति ब्रह्म अनपेक्ष्यैव बाह्यं साधनं स्वत एव जगत्स्रक्ष्यति । स यदि ब्रूयात् — य एते देवादयो ब्रह्मणो दृष्टान्ता उपात्तास्ते दार्ष्टान्तिकेन ब्रह्मणा न समाना भवन्ति ; शरीरमेव ह्यचेतनं देवादीनां शरीरान्तरादिविभूत्युत्पादने उपादानम् , न तु चेतन आत्मा ; तन्तुनाभस्य च क्षुद्रतरजन्तुभक्षणाल्लाला कठिनतामापद्यमाना तन्तुर्भवति ; बलाका च स्तनयित्नुरवश्रवणाद्गर्भं धत्ते ; पद्मिनी च चेतनप्रयुक्ता सती अचेतनेनैव शरीरेण सरोन्तरात्सरोन्तरमुपसर्पति, वल्लीव वृक्षम् , न तु स्वयमेवाचेतना सरोन्तरोपसर्पणे व्याप्रियते ; तस्मान्नैते ब्रह्मणो दृष्टान्ता इति — तं प्रति ब्रूयात् — नायं दोषः ; कुलालादिदृष्टान्तवैलक्षण्यमात्रस्य विवक्षितत्वादिति — यथा हि कुलालादीनां देवादीनां च समाने चेतनत्वे कुलालादयः कार्यारम्भे बाह्यं साधनमपेक्षन्ते, न देवादयः ; तथा ब्रह्म चेतनमपि न बाह्यं साधनमपेक्षिष्यत इत्येतावद्वयं देवाद्युदाहरणेन विवक्षामः । तस्माद्यथैकस्य सामर्थ्यं दृष्टं तथा सर्वेषामेव भवितुमर्हतीति नास्त्येकान्त इत्यभिप्रायः ॥ २५ ॥