०७ इतरव्यपदेशाधिकरणम्

२१ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥

अन्यथा पुनश्चेतनकारणवाद आक्षिप्यते — चेतनाद्धि जगत्प्रक्रियायामाश्रीयमाणायां हिताकरणादयो दोषाः प्रसज्यन्ते । कुतः ? इतरव्यपदेशात् । इतरस्य शारीरस्य ब्रह्मात्मत्वं व्यपदिशति श्रुतिः — ‘ स आत्मा तत्त्वमसि श्वेतकेतो’ (छा. उ. ६ । ८ । ७) इति प्रतिबोधनात् ; यद्वा — इतरस्य च ब्रह्मणः शारीरात्मत्वं व्यपदिशति — ‘ तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) इति स्रष्टुरेवाविकृतस्य ब्रह्मणः कार्यानुप्रवेशेन शारीरात्मत्वदर्शनात् ; ‘ अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति च परा देवता जीवमात्मशब्देन व्यपदिशन्ती, न ब्रह्मणो भिन्नः शारीर इति दर्शयति ; तस्माद्यद्ब्रह्मणः स्रष्टृत्वं तच्छारीरस्यैवेति । अतस्सः स्वतन्त्रः कर्ता सन् हितमेवात्मनः सौमनस्यकरं कुर्यात् , नाहितं जन्ममरणजरारोगाद्यनेकानर्थजालम् ; न हि कश्चिदपरतन्त्रो बन्धनागारमात्मनः कृत्वानुप्रविशति ; न च स्वयमत्यन्तनिर्मलः सन् अत्यन्तमलिनं देहमात्मत्वेनोपेयात् ; कृतमपि कथञ्चिद्यद्दुःखकरं तदिच्छया जह्यात् ; सुखकरं चोपाददीत ; स्मरेच्च — मयेदं जगद्बिम्बं विचित्रं विरचितमिति ; सर्वो हि लोकः स्पष्टं कार्यं कृत्वा स्मरति — मयेदं कृतमिति ; यथा च मायावी स्वयं प्रसारितां मायामिच्छया अनायासेनैवोपसंहरति, एवं शारीरोऽपीमां सृष्टिमुपसंहरेत् ; स्वकीयमपि तावच्छरीरं शारीरो न शक्नोत्यनायासेनोपसंहर्तुम् ; एवं हितक्रियाद्यदर्शनादन्याय्या चेतनाज्जगत्प्रक्रियेति गम्यते ॥ २१ ॥

२२ अधिकं तु भेदनिर्देशात् ॥

तुशब्दः पक्षं व्यावर्तयति । यत्सर्वज्ञं सर्वशक्ति ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं शारीरादधिकमन्यत् , तत् वयं जगतः स्रष्टृ ब्रूमः ; न तस्मिन्हिताकरणादयो दोषाः प्रसज्यन्ते ; न हि तस्य हितं किञ्चित्कर्तव्यमस्ति, अहितं वा परिहर्तव्यम् , नित्यमुक्तस्वभावत्वात् ; न च तस्य ज्ञानप्रतिबन्धः शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति, सर्वज्ञत्वात्सर्वशक्तित्वाच्च । शारीरस्त्वनेवंविधः ; तस्मिन्प्रसज्यन्ते हिताकरणादयो दोषाः ; न तु तं वयं जगतः स्रष्टारं ब्रूमः । कुत एतत् ? भेदनिर्देशात् — ‘ आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) ‘ सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ (छा. उ. ८ । ७ । १) ‘ सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) ‘ शारीर आत्मा प्राज्ञेनात्मनान्वारूढः’ (बृ. उ. ४ । ३ । ३५) इत्येवंजातीयकः कर्तृकर्मादिभेदनिर्देशो जीवादधिकं ब्रह्म दर्शयति । नन्वभेदनिर्देशोऽपि दर्शितः — ‘ तत्त्वमसि’ इत्येवंजातीयकः ; कथं भेदाभेदौ विरुद्धौ सम्भवतः ? नैष दोषः, महाकाशघटाकाशन्यायेनोभयसम्भवस्य तत्र तत्र प्रतिष्ठापितत्वात् । अपि च यदा ‘ तत्त्वमसि’ इत्येवंजातीयकेनाभेदनिर्देशेनाभेदः प्रतिबोधितो भवति ; अपगतं भवति तदा जीवस्य संसारित्वं ब्रह्मणश्च स्रष्टृत्वम् , समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात् ; तत्र कुत एव सृष्टिः कुतो वा हिताकरणादयो दोषाः । अविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसङ्घातोपाध्यविवेककृता हि भ्रान्तिर्हिताकरणादिलक्षणः संसारः, न तु परमार्थतोऽस्तीत्यसकृदवोचाम — जन्ममरणच्छेदनभेदनाद्यभिमानवत् ; अबाधिते तु भेदव्यवहारे ‘ सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ इत्येवंजातीयकेन भेदनिर्देशेनावगम्यमानं ब्रह्मणोऽधिकत्वं हिताकरणादिदोषप्रसक्तिं निरुणद्धि ॥ २२ ॥

२३ अश्मादिवच्च तदनुपपत्तिः ॥

यथा च लोके पृथिवीत्वसामान्यान्वितानामप्यश्मनां केचिन्महार्हा मणयो वज्रवैडूर्यादयः, अन्ये मध्यमवीर्याः सूर्यकान्तादयः, अन्ये प्रहीणाः श्ववायसप्रक्षेपणार्हाः पाषाणाः — इत्यनेकविधं वैचित्र्‌यं दृश्यते ; यथा चैकपृथिवीव्यपाश्रयाणामपि बीजानां बहुविधं पत्रपुष्पफलगन्धरसादिवैचित्र्‌यं चन्दनकिंपाकचम्पकादिषूपलक्ष्यते ; यथा चैकस्याप्यन्नरसस्य लोहितादीनि केशलोमादीनि च विचित्राणि कार्याणि भवन्ति — एवमेकस्यापि ब्रह्मणो जीवप्राज्ञपृथक्त्वं कार्यवैचित्र्यं चोपपद्यत इत्यतः तदनुपपत्तिः, परपरिकल्पितदोषानुपपत्तिरित्यर्थः । श्रुतेश्च प्रामाण्यात् , विकारस्य च वाचारम्भणमात्रत्वात् स्वप्नदृश्यभाववैचित्र्यवच्च — इत्यभ्युच्चयः ॥ २३ ॥