०६ आरम्भणाधिकरणम्

१४ तदनन्यत्वमारम्भणशब्दादिभ्यः ॥

अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागम् ‘ स्याल्लोकवत्’ इति परिहारोऽभिहितः ; न त्वयं विभागः परमार्थतोऽस्ति, यस्मात्तयोः कार्यकारणयोरनन्यत्वमवगम्यते । कार्यमाकाशादिकं बहुप्रपञ्चं जगत् ; कारणं परं ब्रह्म ; तस्मात्कारणात्परमार्थतोऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यते । कुतः ? आरम्भणशब्दादिभ्यः । आरम्भणशब्दस्तावदेकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्तापेक्षायामुच्यते — ‘ यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातँ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) इति ; एतदुक्तं भवति — एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृन्मयं घटशरावोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत् ; यतो वाचारम्भणं विकारो नामधेयम् — वाचैव केवलमस्तीत्यारभ्यते — विकारः घटः शराव उदञ्चनं चेति ; न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति ; नामधेयमात्रं ह्येतदनृतम् ; मृत्तिकेत्येव सत्यम् — इति एष ब्रह्मणो दृष्टान्त आम्नातः ; तत्र श्रुताद्वाचारम्भणशब्दाद्दार्ष्टान्तिकेऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभाव इति गम्यते । पुनश्च तेजोबन्नानां ब्रह्मकार्यतामुक्त्वा तेजोबन्नकार्याणां तेजोबन्नव्यतिरेकेणाभावं ब्रवीति — ‘ अपागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्’ (छा. उ. ६ । ४ । १) इत्यादिना । आरम्भणशब्दादिभ्य इत्यादिशब्दात् ‘ ऐतदात्म्यमिदँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘ इदँ सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) ‘ ब्रह्मैवेदं सर्वम्’ ‘ आत्मैवेदँ सर्वम्’ (छा. उ. ७ । २५ । २) ‘ नेह नानास्ति किञ्चन’ (बृ. उ. ४ । ४ । १९) इत्येवमाद्यप्यात्मैकत्वप्रतिपादनपरं वचनजातमुदाहर्तव्यम् ; न चान्यथा एकविज्ञानेन सर्वविज्ञानं सम्पद्यते । तस्माद्यथा घटकरकाद्याकाशानां महाकाशादनन्यत्वम् , यथा च मृगतृष्णिकोदकादीनामूषरादिभ्योऽनन्यत्वम् , दृष्टनष्टस्वरूपत्वात् स्वरूपेणानुपाख्यत्वात् ; एवमस्य भोग्यभोक्त्रादिप्रपञ्चजातस्य ब्रह्मव्यतिरेकेणाभाव इति द्रष्टव्यम् ॥

नन्वनेकात्मकं ब्रह्म ; यथा वृक्षोऽनेकशाखः, एवमनेकशक्तिप्रवृत्तियुक्तं ब्रह्म ; अत एकत्वं नानात्वं चोभयमपि सत्यमेव — यथा वृक्ष इत्येकत्वं शाखा इति च नानात्वम् ; यथा च समुद्रात्मनैकत्वं फेनतरङ्गाद्यात्मना नानात्वम् , यथा च मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वम् ; तत्रैकत्वांशेन ज्ञानान्मोक्षव्यवहारः सेत्स्यति ; नानात्वांशेन तु कर्मकाण्डाश्रयौ लौकिकवैदिकव्यवहारौ सेत्स्यत इति ; एवं च मृदादिदृष्टान्ता अनुरूपा भविष्यन्तीति । नैवं स्यात् — ‘ मृत्तिकेत्येव सत्यम्’ इति प्रकृतिमात्रस्य दृष्टान्ते सत्यत्वावधारणात् , वाचारम्भणशब्देन च विकारजातस्यानृतत्वाभिधानात् , दार्ष्टान्तिकेऽपि ‘ ऐतदात्म्यमिदँ सर्वं तत्सत्यम्’ इति च परमकारणस्यैवैकस्य सत्यत्वावधारणात् , ‘ स आत्मा तत्त्वमसि श्वेतकेतो’ इति च शारीरस्य ब्रह्मभावोपदेशात् ; स्वयं प्रसिद्धं ह्येतच्छारीरस्य ब्रह्मात्मत्वमुपदिश्यते, न यत्नान्तरप्रसाध्यम् ; अतश्चेदं शास्त्रीयं ब्रह्मात्मत्वमवगम्यमानं स्वाभाविकस्य शारीरात्मत्वस्य बाधकं सम्पद्यते, रज्ज्वादिबुद्धय इव सर्पादिबुद्धीनाम् ; बाधिते च शारीरात्मत्वे तदाश्रयः समस्तः स्वाभाविको व्यवहारो बाधितो भवति, यत्प्रसिद्धये नानात्वांशोऽपरो ब्रह्मणः कल्प्येत ; दर्शयति च — ‘ यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिना ब्रह्मात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारकफललक्षणस्य व्यवहारस्याभावम् ; न चायं व्यवहाराभावोऽवस्थाविशेषनिबद्धोऽभिधीयते इति युक्तं वक्तुम् , ‘ तत्त्वमसि’ इति ब्रह्मात्मभावस्यानवस्थाविशेषनिबन्धनत्वात् ; तस्करदृष्टान्तेन चानृताभिसन्धस्य बन्धनं सत्याभिसन्धस्य च मोक्षं दर्शयन् एकत्वमेवैकं पारमार्थिकं दर्शयति, मिथ्याज्ञानविजृम्भितं च नानात्वम् । उभयसत्यतायां हि कथं व्यवहारगोचरोऽपि जन्तुरनृताभिसन्ध इत्युच्येत । ‘ मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) इति च भेददृष्टिमपवदन्नेतदेव दर्शयति । न चास्मिन्दर्शने ज्ञानान्मोक्ष इत्युपपद्यते, सम्यग्ज्ञानापनोद्यस्य कस्यचिन्मिथ्याज्ञानस्य संसारकारणत्वेनानभ्युपगमात् ; उभयसत्यतायां हि कथमेकत्वज्ञानेन नानात्वज्ञानमपनुद्यत इत्युच्यते । नन्वेकत्वैकान्ताभ्युपगमे नानात्वाभावात्प्रत्यक्षादीनि लौकिकानि प्रमाणानि व्याहन्येरन् , निर्विषयत्वात् , स्थाण्वादिष्विव पुरुषादिज्ञानानि ; तथा विधिप्रतिषेधशास्त्रमपि भेदापेक्षत्वात्तदभावे व्याहन्येत ; मोक्षशास्त्रस्यापि शिष्यशासित्रादि भेदापेक्षत्वात्तदभावे व्याघातः स्यात् ; कथं चानृतेन मोक्षशास्त्रेण प्रतिपादितस्यात्मैकत्वस्य सत्यत्वमुपपद्येतेति । अत्रोच्यते — नैष दोषः, सर्वव्यवहाराणामेव प्राग्ब्रह्मात्मताविज्ञानात्सत्यत्वोपपत्तेः स्वप्नव्यवहारस्येव प्राक्प्रबोधात् ; यावद्धि न सत्यात्मैकत्वप्रतिपत्तिस्तावत्प्रमाणप्रमेयफललक्षणेषु विकारेष्वनृतत्वबुद्धिर्न कस्यचिदुत्पद्यते ; विकारानेव तु ‘ अहम्’ ‘ मम’ इत्यविद्यया आत्मात्मीयेन भावेन सर्वो जन्तुः प्रतिपद्यते स्वाभाविकीं ब्रह्मात्मतां हित्वा ; तस्मात्प्राग्ब्रह्मात्मताप्रतिबोधादुपपन्नः सर्वो लौकिको वैदिकश्च व्यवहारः — यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्ने उच्चावचान्भावान्पश्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक्प्रबोधात् , न च प्रत्यक्षाभासाभिप्रायस्तत्काले भवति, तद्वत् । कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मत्वस्य प्रतिपत्तिरुपपद्येत ? न हि रज्जुसर्पेण दष्टो म्रियते ; नापि मृगतृष्णिकाम्भसा पानावगाहनादिप्रयोजनं क्रियत इति । नैष दोषः, शङ्काविषादिनिमित्तमरणादिकार्योपलब्धेः, स्वप्नदर्शनावस्थस्य च सर्पदंशनोदकस्नानादिकार्यदर्शनात् । तत्कार्यमप्यनृतमेवेति चेद्ब्रूयात् , अत्र ब्रूमः — यद्यपि स्वप्नदर्शनावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृतम् , तथापि तदवगतिः सत्यमेव फलम् , प्रतिबुद्धस्याप्यबाध्यमानत्वात् ; न हि स्वप्नादुत्थितः स्वप्नदृष्टं सर्पदंशनोदकस्नानादिकार्यं मिथ्येति मन्यमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित् । एतेन स्वप्नदृशोऽवगत्यबाधनेन देहमात्रात्मवादो दूषितो वेदितव्यः । तथा च श्रुतिः — ‘ यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने’ (छा. उ. ५ । २ । ८) इत्यसत्येन स्वप्नदर्शनेन सत्यायाः समृद्धेः प्राप्तिं दर्शयति, तथा प्रत्यक्षदर्शनेषु केषुचिदरिष्टेषु जातेषु ‘ न चिरमिव जीविष्यतीति विद्यात्’ इत्युक्त्वा ‘ अथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति’ इत्यादिना तेन तेनासत्येनैव स्वप्नदर्शनेन सत्यमरणं सूच्यत इति दर्शयति ; प्रसिद्धं चेदं लोकेऽन्वयव्यतिरेककुशलानामीदृशेन स्वप्नदर्शनेन साध्वागमः सूच्यते, ईदृशेनासाध्वागम इति ; तथा अकारादिसत्याक्षरप्रतिपत्तिर्दृष्टा रेखानृताक्षरप्रतिपत्तेः । अपि चान्त्यमिदं प्रमाणमात्मैकत्वस्य प्रतिपादकम् — नातःपरं किञ्चिदाकाङ्क्ष्यमस्ति ; यथा हि लोके यजेतेत्युक्ते, किं केन कथम् इत्याकाङ्क्ष्यते ; नैवं ‘ तत्त्वमसि’ ‘ अहं ब्रह्मास्मि’ इत्युक्ते, किञ्चिदन्यदाकाङ्क्ष्यमस्ति — सर्वात्मैकत्वविषयत्वावगतेः ; सति ह्यन्यस्मिन्नवशिष्यमाणेऽर्थे आकाङ्क्षा स्यात् ; न त्वात्मैकत्वव्यतिरेकेणावशिष्यमाणोऽन्योऽर्थोऽस्ति, य आकाङ्क्ष्येत । न चेयमवगतिर्नोत्पद्यत इति शक्यं वक्तुम् , ‘ तद्धास्य विजज्ञौ’ (छा. उ. ६ । १६ । ३) इत्यादिश्रुतिभ्यः, अवगतिसाधनानां च श्रवणादीनां वेदानुवचनादीनां च विधीयमानत्वात् । न चेयमवगतिरनर्थिका भ्रान्तिर्वेति शक्यं वक्तुम् ; अविद्यानिवृत्तिफलदर्शनात् , बाधकज्ञानान्तराभावाच्च । प्राक्चात्मैकत्वावगतेरव्याहतः सर्वः सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचाम । तस्मादन्त्येन प्रमाणेन प्रतिपादिते आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य बाधितत्वात् न अनेकात्मकब्रह्मकल्पनावकाशोऽस्ति । ननु मृदादिदृष्टान्तप्रणयनात्परिणामवद्ब्रह्म शास्त्रस्याभिमतमिति गम्यते ; परिणामिनो हि मृदादयोऽर्था लोके समधिगता इति । नेत्युच्यते — ‘ स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४ । ४ । २५) ‘ स एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) ‘ अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) इत्याद्याभ्यः सर्वविक्रियाप्रतिषेधश्रुतिभ्यः ब्रह्मणः कूटस्थत्वावगमात् ; न ह्येकस्य ब्रह्मणः परिणामधर्मत्वं तद्रहितत्वं च शक्यं प्रतिपत्तुम् । स्थितिगतिवत्स्यादिति चेत् , न ; कूटस्थस्येति विशेषणात् ; न हि कूटस्थस्य ब्रह्मणः स्थितिगतिवदनेकधर्माश्रयत्वं सम्भवति ; कूटस्थं च नित्यं ब्रह्म सर्वविक्रियाप्रतिषेधादित्यवोचाम । न च यथा ब्रह्मण आत्मैकत्वदर्शनं मोक्षसाधनम् , एवं जगदाकारपरिणामित्वदर्शनमपि स्वतन्त्रमेव कस्मैचित्फलायाभिप्रेयते, प्रमाणाभावात् ; कूटस्थब्रह्मात्मैकत्वविज्ञानादेव हि फलं दर्शयति शास्त्रम् — ‘ स एष नेति नेत्यात्मा’ इत्युपक्रम्य ‘ अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४) इत्येवंजातीयकम् । तत्रैतत्सिद्धं भवति — ब्रह्मप्रकरणे सर्वधर्मविशेषरहितब्रह्मदर्शनादेव फलसिद्धौ सत्याम् , यत्तत्राफलं श्रूयते ब्रह्मणो जगदाकारपरिणामित्वादि, तद्ब्रह्मदर्शनोपायत्वेनैव विनियुज्यते, फलवत्सन्निधावफलं तदङ्गमितिवत् ; न तु स्वतन्त्रं फलाय कल्प्यत इति । न हि परिणामवत्त्वविज्ञानात्परिणामवत्त्वमात्मनः फलं स्यादिति वक्तुं युक्तम् , कूटस्थनित्यत्वान्मोक्षस्य । ननु कूटस्थब्रह्मात्मवादिन एकत्वैकान्त्यात् ईशित्रीशितव्याभावे ईश्वरकारणप्रतिज्ञाविरोध इति चेत् , न ; अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात्सर्वज्ञत्वस्य । ‘ तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इत्यादिवाक्येभ्यः नित्यशुद्धबुद्धमुक्तस्वरूपात्सर्वज्ञात्सर्वशक्तेरीश्वराज्जगज्जनिस्थितिप्रलयाः, चेतनात्प्रधानादन्यस्माद्वा — इत्येषोऽर्थः प्रतिज्ञातः — ‘ जन्माद्यस्य यतः’ (ब्र. सू. १ । १ । २) इति ; सा प्रतिज्ञा तदवस्थैव, न तद्विरुद्धोऽर्थः पुनरिहोच्यते । कथं नोच्यते, अत्यन्तमात्मन एकत्वमद्वितीयत्वं च ब्रुवता ? शृणु यथा नोच्यते — सर्वज्ञस्येश्वरस्यात्मभूते इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्येश्वरस्य मायाशक्तिः प्रकृतिरिति च श्रुतिस्मृत्योरभिलप्येते ; ताभ्यामन्यः सर्वज्ञ ईश्वरः, ‘ आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८ । १४ । १) इति श्रुतेः, ‘ नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) ‘ सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३ । १२ । ७) ‘ एकं बीजं बहुधा यः करोति’ (श्वे. उ. ६ । १२) इत्यादिश्रुतिभ्यश्च ; एवमविद्याकृतनामरूपोपाध्यनुरोधीश्वरो भवति, व्योमेव घटकरकाद्युपाध्यनुरोधि ; स च स्वात्मभूतानेव घटाकाशस्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसङ्घातानुरोधिनो जीवाख्यान्विज्ञानात्मनः प्रतीष्टे व्यवहारविषये ; तदेवमविद्यात्मकोपाधिपरिच्छेदापेक्षमेवेश्वरस्येश्वरत्वं सर्वज्ञत्वं सर्वशक्तित्वं च, न परमार्थतो विद्यया अपास्तसर्वोपाधिस्वरूपे आत्मनि ईशित्रीशितव्यसर्वज्ञत्वादिव्यवहार उपपद्यते ; तथा चोक्तम् — ‘ यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’ (छा. उ. ७ । २४ । १) इति ; ‘ यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादि च ; एवं परमार्थावस्थायां सर्वव्यवहाराभावं वदन्ति वेदान्ताः सर्वे ; तथेश्वरगीतास्वपि — ‘ न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते’ (भ. गी. ५ । १४) ॥ ‘ नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः’ (भ. गी. ५ । १५) इति परमार्थावस्थायामीशित्रीशितव्यादिव्यवहाराभावः प्रदर्श्यते ; व्यवहारावस्थायां तूक्तः श्रुतावपीश्वरादिव्यवहारः — ‘ एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय’ (बृ. उ. ४ । ४ । २२) इति ; तथा चेश्वरगीतास्वपि — ‘ ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया’ (भ. गी. १८ । ६१) इति ; सूत्रकारोऽपि परमार्थाभिप्रायेण ‘ तदनन्यत्वम्’ इत्याह ; व्यवहाराभिप्रायेण तु ‘ स्याल्लोकवत्’ इति महासमुद्रस्थानीयतां ब्रह्मणः कथयति, अप्रत्याख्यायैव कार्यप्रपञ्चं परिणामप्रक्रियां चाश्रयति सगुणेषूपासनेषूपयोक्ष्यत इति ॥ १४ ॥

१५ भावे चोपलब्धेः ॥

इतश्च कारणादनन्यत्वं कार्यस्य, यत्कारणं भाव एव कारणस्य कार्यमुपलभ्यते, नाभावे ; तद्यथा — सत्यां मृदि घट उपलभ्यते, सत्सु च तन्तुषु पटः ; न च नियमेनान्यभावेऽन्यस्योपलब्धिर्दृष्टा ; न ह्यश्वो गोरन्यः सन्गोर्भाव एवोपलभ्यते ; न च कुलालभाव एव घट उपलभ्यते, सत्यपि निमित्तनैमित्तिकभावेऽन्यत्वात् । नन्वन्यस्य भावेऽप्यन्यस्योपलब्धिर्नियता दृश्यते, यथाग्निभावे धूमस्येति ; नेत्युच्यते — उद्वापितेऽप्यग्नौ गोपालघुटिकादिधारितस्य धूमस्य दृश्यमानत्वात् । अथ धूमं कयाचिदवस्थया विशिंष्यात् — ईदृशो धूमो नासत्यग्नौ भवतीति, नैवमपि कश्चिद्दोषः ; तद्भावानुरक्तां हि बुद्धिं कार्यकारणयोरनन्यत्वे हेतुं वयं वदामः ; न चासावग्निधूमयोर्विद्यते । भावाच्चोपलब्धेः — इति वा सूत्रम् । न केवलं शब्दादेव कार्यकारणयोरनन्यत्वम् , प्रत्यक्षोपलब्धिभावाच्च तयोरनन्यत्वमित्यर्थः ; भवति हि प्रत्यक्षोपलब्धिः कार्यकारणयोरनन्यत्वे ; तद्यथा — तन्तुसंस्थाने पटे तन्तुव्यतिरेकेण पटो नाम कार्यं नैवोपलभ्यते, केवलास्तु तन्तव आतानवितानवन्तः प्रत्यक्षमुपलभ्यन्ते, तथा तन्तुष्वंशवः, अंशुषु तदवयवाः । अनया प्रत्यक्षोपलब्ध्या लोहितशुक्लकृष्णानि त्रीणि रूपाणि, ततो वायुमात्रमाकाशमात्रं चेत्यनुमेयम् , ततः परं ब्रह्मैकमेवाद्वितीयम् ; तत्र सर्वप्रमाणानां निष्ठामवोचाम ॥ १५ ॥

१६ सत्त्वाच्चावरस्य ॥

इतश्च कारणात्कार्यस्यानन्यत्वम् , यत्कारणं प्रागुत्पत्तेः कारणात्मनैव कारणे सत्त्वमवरकालीनस्य कार्यस्य श्रूयते — ‘ सदेव सोम्येदमग्र आसीत्’ (छा. उ. ६ । २ । १) ‘ आत्मा वा इदमेक एवाग्र आसीत्’ (ऐ. आ. १ । १ । १) इत्यादाविदंशब्दगृहीतस्य कार्यस्य कारणेन सामानाधिकरण्यात् ; यच्च यदात्मना यत्र न वर्तते, न तत्तत उत्पद्यते, यथा सिकताभ्यस्तैलम् ; तस्मात्प्रागुत्पत्तेरनन्यत्वादुत्पन्नमप्यनन्यदेव कारणात्कार्यमित्यवगम्यते । यथा च कारणं ब्रह्म त्रिषु कालेषु सत्त्वं न व्यभिचरति, एवं कार्यमपि जगत्त्रिषु कालेषु सत्त्वं न व्यभिचरति । एकं च पुनः सत्त्वम् ; अतोऽप्यनन्यत्वं कारणात्कार्यस्य ॥ १६ ॥

१७ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥

ननु क्वचिदसत्त्वमपि प्रागुत्पत्तेः कार्यस्य व्यपदिशति श्रुतिः — ‘ असदेवेदमग्र आसीत्’ (छा. उ. ३ । १९ । १) इति, ‘ असद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) इति च ; तस्मादसद्व्यपदेशान्न प्रागुत्पत्तेः कार्यस्य सत्त्वमिति चेत् — नेति ब्रूमः ; न ह्ययमत्यन्तासत्त्वाभिप्रायेण प्रागुत्पत्तेः कार्यस्यासद्व्यपदेशः — किं तर्हि ? — व्याकृतनामरूपत्वाद्धर्मादव्याकृतनामरूपत्वं धर्मान्तरम् , तेन धर्मान्तरेणायमसद्व्यपदेशः प्रागुत्पत्तेः सत एव कार्यस्य कारणरूपेणानन्यस्य । कथमेतदवगम्यते ? वाक्यशेषात् । यदुपक्रमे सन्दिग्धार्थं वाक्यं तच्छेषान्निश्चीयते ; इह च तावत् ‘ असदेवेदमग्र आसीत्’ इत्यसच्छब्देनोपक्रमे निर्दिष्टं यत् , तदेव पुनस्तच्छब्देन परामृश्य, सदिति विशिनष्टि — ‘ तत्सदासीत्’ इति — असतश्च पूर्वापरकालासम्बन्धात् आसीच्छब्दानुपपत्तेश्च ; ‘ असद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) इत्यत्रापि ‘ तदात्मानँ स्वयमकुरुत’ (तै. उ. २ । ७ । १) इति वाक्यशेषे विशेषणान्नात्यन्तासत्त्वम् ; तस्माद्धर्मान्तरेणैवायमसद्व्यपदेशः प्रागुत्पत्तेः कार्यस्य ; नामरूपव्याकृतं हि वस्तु सच्छब्दार्हं लोके प्रसिद्धम् ; अतः प्राङ्नामरूपव्याकरणादसदिवासीदित्युपचर्यते ॥ २७ ॥

१८ युक्तेः शब्दान्तराच्च ॥

युक्तेश्च प्रागुत्पत्तेः कार्यस्य सत्त्वमनन्यत्वं च कारणादवगम्यते, शब्दान्तराच्च ॥

युक्तिस्तावद्वर्ण्यते — दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानि क्षीरमृत्तिकासुवर्णादीन्युपादीयमानानि लोके दृश्यन्ते ; न हि दध्यर्थिभिर्मृत्तिकोपादीयते, न घटार्थिभिः क्षीरम् ; तदसत्कार्यवादे नोपपद्येत । अविशिष्टे हि प्रागुत्पत्तेः सर्वस्य सर्वत्रासत्त्वे कस्मात्क्षीरादेव दध्युत्पद्यते, न मृत्तिकायाः, मृत्तिकाया एव च घट उत्पद्यते, न क्षीरात् ? अथाविशिष्टेऽपि प्रागसत्त्वे क्षीर एव दध्नः कश्चिदतिशयो न मृत्तिकायाम् , मृत्तिकायामेव च घटस्य कश्चिदतिशयो न क्षीरे — इत्युच्येत — तर्ह्यतिशयवत्त्वात्प्रागवस्थाया असत्कार्यवादहानिः, सत्कार्यवादसिद्धिश्च ; शक्तिश्च कारणस्य कार्यनियमार्था कल्प्यमाना नान्या असती वा कार्यं नियच्छेत् , असत्त्वाविशेषादन्यत्वाविशेषाच्च ; तस्मात्कारणस्यात्मभूता शक्तिः, शक्तेश्चात्मभूतं कार्यम् । अपि च कार्यकारणयोर्द्रव्यगुणादीनां चाश्वमहिषवद्भेदबुद्ध्यभावात्तादात्म्यमभ्युपगन्तव्यम् । समवायकल्पनायामपि, समवायस्य समवायिभिः सम्बन्धेऽभ्युपगम्यमाने, तस्य तस्यान्योन्यः सम्बन्धः कल्पयितव्य इत्यनवस्थाप्रसङ्गः, अनभ्युपगम्यमाने च विच्छेदप्रसङ्गः ; अथ समवायः स्वयं सम्बन्धरूपत्वादनपेक्ष्यैवापरं सम्बन्धं सम्बध्येत, संयोगोऽपि तर्हि स्वयं सम्बन्धरूपत्वादनपेक्ष्यैव समवायं सम्बध्येत ; तादात्म्यप्रतीतेश्च द्रव्यगुणादीनां समवायकल्पनानर्थक्यम् । कथं च कार्यमवयविद्रव्यं कारणेष्ववयवद्रव्येषु वर्तमानं वर्तेत ? किं समस्तेष्ववयवेषु वर्तेत, उत प्रत्यवयवम् ? यदि तावत्समस्तेषु वर्तेत, ततोऽवयव्यनुपलब्धिः प्रसज्येत, समस्तावयवसन्निकर्षस्याशक्यत्वात् ; न हि बहुत्वं समस्तेष्वाश्रयेषु वर्तमानं व्यस्ताश्रयग्रहणेन गृह्यते ; अथावयवशः समस्तेषु वर्तेत, तदाप्यारम्भकावयवव्यतिरेकेणावयविनोऽवयवाः कल्प्येरन् , यैरारम्भकेष्ववयवेष्ववयवशोऽवयवी वर्तेत ; कोशावयवव्यतिरिक्तैर्ह्यवयवैरसिः कोशं व्याप्नोति ; अनवस्था चैवं प्रसज्येत, तेषु तेष्ववयवेषु वर्तयितुमन्येषामन्येषामवयवानां कल्पनीयत्वात् ; अथ प्रत्यवयवं वर्तेत, तदैकत्र व्यापारेऽन्यत्राव्यापारः स्यात् ; न हि देवदत्तः स्रुघ्ने सन्निधीयमानस्तदहरेव पाटलिपुत्रेऽपि सन्निधीयते ; युगपदनेकत्र वृत्तावनेकत्वप्रसङ्गः स्यात् , देवदत्तयज्ञदत्तयोरिव स्रुघ्नपाटलिपुत्रनिवासिनोः ; गोत्वादिवत्प्रत्येकं परिसमाप्तेर्न दोष इति चेत् , न ; तथा प्रतीत्यभावात् ; यदि गोत्वादिवत्प्रत्येकं परिसमाप्तोऽवयवी स्यात् , यथा गोत्वं प्रतिव्यक्ति प्रत्यक्षं गृह्यते, एवमवयव्यपि प्रत्यवयवं प्रत्यक्षं गृह्येत ; न चैवं नियतं गृह्यते ; प्रत्येकपरिसमाप्तौ चावयविनः कार्येणाधिकारात् , तस्य चैकत्वात् , शृङ्गेणापि स्तनकार्यं कुर्यात् , उरसा च पृष्ठकार्यम् ; न चैवं दृश्यते । प्रागुत्पत्तेश्च कार्यस्यासत्त्वे, उत्पत्तिरकर्तृका निरात्मिका च स्यात् ; उत्पत्तिश्च नाम क्रिया, सा सकर्तृकैव भवितुमर्हति, गत्यादिवत् ; क्रिया च नाम स्यात् , अकर्तृका च — इति विप्रतिषिध्येत ; घटस्य चोत्पत्तिरुच्यमाना न घटकर्तृका — किं तर्हि ? — अन्यकर्तृका — इति कल्प्या स्यात् ; तथा कपालादीनामप्युत्पत्तिरुच्यमानान्यकर्तृकैव कल्प्येत ; तथा च सति ‘ घट उत्पद्यते’ इत्युक्ते, ‘ कुलालादीनि कारणान्युत्पद्यन्ते’ इत्युक्तं स्यात् ; न च लोके घटोत्पत्तिरित्युक्ते कुलालादीनामप्युत्पद्यमानता प्रतीयते, उत्पन्नताप्रतीतेश्च ; अथ स्वकारणसत्तासम्बन्ध एवोत्पत्तिरात्मलाभश्च कार्यस्येति चेत् — कथमलब्धात्मकं सम्बध्येतेति वक्तव्यम् ; सतोर्हि द्वयोः सम्बन्धः सम्भवति, न सदसतोरसतोर्वा ; अभावस्य च निरुपाख्यत्वात्प्रागुत्पत्तेरिति मर्यादाकरणमनुपपन्नम् ; सतां हि लोके क्षेत्रगृहादीनां मर्यादा दृष्टा नाभावस्य ; न हि वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणोऽभिषेकादित्येवंजातीयकेन मर्यादाकरणेन निरुपाख्यो वन्ध्यापुत्रः — राजा बभूव भवति भविष्यतीति वा — विशेष्यते ; यदि च वन्ध्यापुत्रोऽपि कारकव्यापारादूर्ध्वमभविष्यत् , तत इदमप्युपापत्स्यत — कार्याभावोऽपि कारकव्यापारादूर्ध्वं भविष्यतीति ; वयं तु पश्यामः — वन्ध्यापुत्रस्य कार्याभावस्य चाभावत्वाविशेषात् , यथा वन्ध्यापुत्रः कारकव्यापारादूर्ध्वं न भविष्यति, एवं कार्याभावोऽपि कारकव्यापारादूर्ध्वं न भविष्यतीति । नन्वेवं सति कारकव्यापारोऽनर्थकः प्रसज्येत ; यथैव हि प्राक्सिद्धत्वात्कारणस्वरूपसिद्धये न कश्चिद्व्याप्रियते, एवं प्राक्सिद्धत्वात्तदनन्यत्वाच्च कार्यस्य स्वरूपसिद्धयेऽपि न कश्चिद्व्याप्रियेत ; व्याप्रियते च ; अतः कारकव्यापारार्थवत्त्वाय मन्यामहे प्रागुत्पत्तेरभावः कार्यस्येति चेत् , नैष दोषः ; यतः कार्याकारेण कारणं व्यवस्थापयतः कारकव्यापारस्यार्थवत्त्वमुपपद्यते ; कार्याकारोऽपि कारणस्यात्मभूत एव, अनात्मभूतस्यानारभ्यत्वात् — इत्यभाणि ; न च विशेषदर्शनमात्रेण वस्त्वन्यत्वं भवति ; न हि देवदत्तः सङ्कोचितहस्तपादः प्रसारितहस्तपादश्च विशेषेण दृश्यमानोऽपि वस्त्वन्यत्वं गच्छति, स एवेति प्रत्यभिज्ञानात् ; तथा प्रतिदिनमनेकसंस्थानानामपि पित्रादीनां न वस्त्वन्यत्वं भवति, मम पिता मम भ्राता मम पुत्र इति प्रत्यभिज्ञानात् ; जन्मोच्छेदानन्तरितत्वात्तत्र युक्तम् , नान्यत्रेति चेत् , न ; क्षीरादीनामपि दध्याद्याकारसंस्थानस्य प्रत्यक्षत्वात् ; अदृश्यमानानामपि वटधानादीनां समानजातीयावयवान्तरोपचितानामङ्कुरादिभावेन दर्शनगोचरतापत्तौ जन्मसंज्ञा ; तेषामेवावयवानामपचयवशाददर्शनापत्तावुच्छेदसंज्ञा ; तत्रेदृग्जन्मोच्छेदान्तरितत्वाच्चेदसतः सत्त्वापत्तिः, सतश्चासत्त्वापत्तिः, तथा सति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्गः ; तथा बाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्गः, पित्रादिव्यवहारलोपप्रसङ्गश्च । एतेन क्षणभङ्गवादः प्रतिवदितव्यः । यस्य तु पुनः प्रागुत्पत्तेरसत्कार्यम् , तस्य निर्विषयः कारकव्यापारः स्यात् , अभावस्य विषयत्वानुपपत्तेः — आकाशहननप्रयोजनखड्गाद्यनेकायुधप्रयुक्तिवत् ; समवायिकारणविषयः कारकव्यापारः स्यादिति चेत् , न ; अन्यविषयेण कारकव्यापारेणान्यनिष्पत्तेरतिप्रसङ्गात् ; समवायिकारणस्यैवात्मातिशयः कार्यमिति चेत् , न ; सत्कार्यतापत्तेः । तस्मात्क्षीरादीन्येव द्रव्याणि दध्यादिभावेनावतिष्ठमानानि कार्याख्यां लभन्त इति न कारणादन्यत्कार्यं वर्षशतेनापि शक्यं कल्पयितुम् । तथा मूलकारणमेव आ अन्त्यात्कार्यात् तेन तेन कार्याकारेण नटवत्सर्वव्यवहारास्पदत्वं प्रतिपद्यते । एवं युक्तेः, कार्यस्य प्रागुत्पत्तेः सत्त्वम् , अनन्यत्वं च कारणात् , अवगम्यते ॥

शब्दान्तराच्चैतदवगम्यते — पूर्वसूत्रेऽसद्व्यपदेशिनः शब्दस्योदाहृतत्वात्ततोऽन्यः सद्व्यपदेशी शब्दः शब्दान्तरम् — ‘ सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्यादि । ‘ तद्धैक आहुरसदेवेदमग्र आसीत्’ इति चासत्पक्षमुपक्षिप्य, ‘ कथमसतः सज्जायेत’ इत्याक्षिप्य, ‘ सदेव सोम्येदमग्र आसीत्’ इत्यवधारयति ; तत्रेदंशब्दवाच्यस्य कार्यस्य प्रागुत्पत्तेः सच्छब्दवाच्येन कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात् , सत्त्वानन्यत्वे प्रसिध्यतः । यदि तु प्रागुत्पत्तेरसत्कार्यं स्यात् , पश्चाच्चोत्पद्यमानं कारणे समवेयात् , तदान्यत्कारणात्स्यात् , तत्र ‘ येनाश्रुतँ श्रुतं भवति’ (छा. उ. ६ । १ । ३) इतीयं प्रतिज्ञा पीड्येत ; सत्त्वानन्यत्वावगतेस्त्वियं प्रतिज्ञा समर्थ्यते ॥ १८ ॥

१९ पटवच्च ॥

यथा च संवेष्टितः पटो न व्यक्तं गृह्यते — किमयं पटः, किं वान्यद्द्रव्यमिति ; स एव प्रसारितः, यत्संवेष्टितं द्रव्यं तत्पट एवेति प्रसारणेनाभिव्यक्तो गृह्यते । यथा च संवेष्टनसमये पट इति गृह्यमाणोऽपि न विशिष्टायामविस्तारो गृह्यते ; स एव प्रसारणसमये विशिष्टायामविस्तारो गृह्यते — न संवेष्टितरूपादन्योऽयं भिन्नः पट इति, एवं तन्त्वादिकारणावस्थं पटादिकार्यमस्पष्टं सत् , तुरीवेमकुविन्दादिकारकव्यापाराभिव्यक्तं स्पष्टं गृह्यते । अतः संवेष्टितप्रसारितपटन्यायेनैवानन्यत्कारणात्कार्यमित्यर्थः ॥ १९ ॥

२० यथा च प्राणादि ॥

यथा च लोके प्राणापानादिषु प्राणभेदेषु प्राणायामेन निरुद्धेषु कारणमात्रेण रूपेण वर्तमानेषु जीवनमात्रं कार्यं निर्वर्त्यते, नाकुञ्चनप्रसारणादिकं कार्यान्तरम् ; तेष्वेव प्राणभेदेषु पुनः प्रवृत्तेषु जीवनादधिकमाकुञ्चनप्रसारणादिकमपि कार्यान्तरं निर्वर्त्यते ; न च प्राणभेदानां प्रभेदवतः प्राणादन्यत्वम् , समीरणस्वभावाविशेषात् — एवं कार्यस्य कारणादनन्यत्वम् । अतश्च कृत्स्नस्य जगतो ब्रह्मकार्यत्वात्तदनन्यत्वाच्च सिद्धैषा श्रौती प्रतिज्ञा — ‘ येनाश्रुतँ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ (छा. उ. ६ । १ । ३) इति ॥ २० ॥