०३ नविलक्षणत्वाधिकरणम्

०४ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥

ब्रह्मास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्याक्षेपः स्मृतिनिमित्तः परिहृतः ; तर्कनिमित्त इदानीमाक्षेपः परिह्रियते । कुतः पुनरस्मिन्नवधारिते आगमार्थे तर्कनिमित्तस्याक्षेपस्यावकाशः ? ननु धर्म इव ब्रह्मण्यप्यनपेक्ष आगमो भवितुमर्हति ; — भवेदयमवष्टम्भो यदि प्रमाणान्तरानवगाह्य आगममात्रप्रमेयोऽयमर्थः स्यादनुष्ठेयरूप इव धर्मः ; परिनिष्पन्नरूपं तु ब्रह्मावगम्यते ; परिनिष्पन्ने च वस्तुनि प्रमाणान्तराणामस्त्यवकाशो यथा पृथिव्यादिषु ; यथा च श्रुतीनां परस्परविरोधे सत्येकवशेनेतरा नीयन्ते, एवं प्रमाणान्तरविरोधेऽपि तद्वशेनैव श्रुतिर्नीयेत ; दृष्टसाधर्म्येण चादृष्टमर्थं समर्पयन्ती युक्तिरनुभवस्य सन्निकृष्यते, विप्रकृष्यते तु श्रुतिः, ऐतिह्यमात्रेण स्वार्थाभिधानात् ; अनुभवावसानं च ब्रह्मविज्ञानमविद्याया निवर्तकं मोक्षसाधनं च दृष्टफलतयेष्यते ; श्रुतिरपि — ‘ श्रोतव्यो मन्तव्यः’ इति श्रवणव्यतिरेकेण मननं विदधती तर्कमप्यत्रादर्तव्यं दर्शयति ; अतस्तर्कनिमित्तः पुनराक्षेपः क्रियते ‘ न विलक्षणत्वादस्य’ इति ॥

यदुक्तम् चेतनं ब्रह्म जगतः कारणं प्रकृतिः इति, तन्नोपपद्यते । कस्मात् ? विलक्षणत्वादस्य विकारस्य प्रकृत्याः — इदं हि ब्रह्मकार्यत्वेनाभिप्रेयमाणं जगद्ब्रह्मविलक्षणमचेतनमशुद्धं च दृश्यते ; ब्रह्म च जगद्विलक्षणं चेतनं शुद्धं च श्रूयते ; न च विलक्षणत्वे प्रकृतिविकारभावो दृष्टः ; न हि रुचकादयो विकारा मृत्प्रकृतिका भवन्ति, शरावादयो वा सुवर्णप्रकृतिकाः ; मृदैव तु मृदन्विता विकाराः क्रियन्ते, सुवर्णेन च सुवर्णान्विताः ; तथेदमपि जगदचेतनं सुखदुःखमोहान्वितं सत् अचेतनस्यैव सुखदुःखमोहात्मकस्य कारणस्य कार्यं भवितुमर्हति, न विलक्षणस्य ब्रह्मणः । ब्रह्मविलक्षणत्वं चास्य जगतोऽशुद्ध्यचेतनत्वदर्शनादवगन्तव्यम् । अशुद्धं हीदं जगत् , सुखदुःखमोहात्मकतया प्रीतिपरितापविषादादिहेतुत्वात्स्वर्गनरकाद्युच्चावचप्रपञ्चत्वाच्च । अचेतनं चेदं जगत् , चेतनं प्रति कार्यकरणभावेनोपकरणभावोपगमात् । न हि साम्ये सत्युपकार्योपकारकभावो भवति ; न हि प्रदीपौ परस्परस्योपकुरुतः । ननु चेतनमपि कार्यकरणं स्वामिभृत्यन्यायेन भोक्तुरुपकरिष्यति । न, स्वामिभृत्ययोरप्यचेतनांशस्यैव चेतनं प्रत्युपकारकत्वात् ; यो ह्येकस्य चेतनस्य परिग्रहो बुद्ध्यादिरचेतनभागः स एवान्यस्य चेतनस्योपकरोति, न तु स्वयमेव चेतनश्चेतनान्तरस्योपकरोत्यपकरोति वा ; निरतिशया ह्यकर्तारश्चेतना इति सांख्या मन्यन्ते ; तस्मादचेतनं कार्यकारणम् । न च काष्ठलोष्टादीनां चेतनत्वे किञ्चित्प्रमाणमस्ति ; प्रसिद्धश्चायं चेतनाचेतनविभागो लोके । तस्माद्ब्रह्मविलक्षणत्वान्नेदं जगत्तत्प्रकृतिकम् । योऽपि कश्चिदाचक्षीत — श्रुत्वा जगतश्चेतनप्रकृतिकताम् , तद्बलेनैव समस्तं जगच्चेतनमवगमयिष्यामि, प्रकृतिरूपस्य विकारेऽन्वयदर्शनात् ; अविभावनं तु चैतन्यस्य परिणामविशेषाद्भविष्यति ; यथा स्पष्टचैतन्यानामप्यात्मनां स्वापमूर्छाद्यवस्थासु चैतन्यं न विभाव्यते, एवं काष्ठलोष्टादीनामपि चैतन्यं न विभावयिष्यते ; एतस्मादेव च विभावितत्वाविभावितत्वकृताद्विशेषाद्रूपादिभावाभावाभ्यां च कार्यकरणानामात्मनां च चेतनत्वाविशेषेऽपि गुणप्रधानभावो न विरोत्स्यते ; यथा च पार्थिवत्वाविशेषेऽपि मांससूपौदनादीनां प्रत्यात्मवर्तिनो विशेषात्परस्परोपकारित्वं भवति, एवमिहापि भविष्यति ; प्रविभागप्रसिद्धिरप्यत एव न विरोत्स्यत इति — तेनापि कथञ्चिच्चेतनाचेतनत्वलक्षणं विलक्षणत्वं परिह्रियेत ; शुद्ध्यशुद्धित्वलक्षणं तु विलक्षणत्वं नैव परिह्रियते । न चेतरदपि विलक्षणत्वं परिहर्तुं शक्यत इत्याह — तथात्वं च शब्दादिति ; अनवगम्यमानमेव हीदं लोके समस्तस्य वस्तुनश्चेतनत्वं चेतनप्रकृतिकत्वश्रवणाच्छब्दशरणतया केवलयोत्प्रेक्ष्यते ; तच्च शब्देनैव विरुध्यते, यतः शब्दादपि तथात्वमवगम्यते ; तथात्वमिति प्रकृतिविलक्षणत्वं कथयति ; शब्द एव ‘ विज्ञानं चाविज्ञानं च’ (तै. उ. २ । ६ । १) इति कस्यचिद्विभागस्याचेतनतां श्रावयंश्चेतनाद्ब्रह्मणो विलक्षणमचेतनं जगच्छ्रावयति ॥ ४ ॥

ननु चेतनत्वमपि क्वचिदचेतनत्वाभिमतानां भूतेन्द्रियाणां श्रूयते — यथा ‘ मृदब्रवीत्’ ‘ आपोऽब्रुवन्’ (श. ब्रा. ६ । १ । ३ । २ । ४) इति ‘ तत्तेज ऐक्षत’ (छा. उ. ६ । २ । ३)‘ ता आप ऐक्षन्त’ (छा. उ. ६ । २ । ४) इति चैवमाद्या भूतविषया चेतनत्वश्रुतिः ; इन्द्रियविषयापि — ‘ ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः’ (बृ. उ. ६ । १ । ७) इति, ‘ ते ह वाचमूचुस्त्वं न उद्गायेति’ (बृ. उ. १ । ३ । २) इत्येवमाद्येन्द्रियविषयेति । अत उत्तरं पठति —

०५ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥

तुशब्द आशङ्कामपनुदति । न खलु ‘ मृदब्रवीत्’ इत्येवंजातीयकया श्रुत्या भूतेन्द्रियाणां चेतनत्वमाशङ्कनीयम् , यतोऽभिमानिव्यपदेश एषः ; मृदाद्यभिमानिन्यो वागाद्यभिमानिन्यश्च चेतना देवता वदनसंवदनादिषु चेतनोचितेषु व्यवहारेषु व्यपदिश्यन्ते, न भूतेन्द्रियमात्रम् । कस्मात् ? विशेषानुगतिभ्याम् — विशेषो हि भोक्तॄणां भूतेन्द्रियाणां च चेतनाचेतनप्रविभागलक्षणः प्रागभिहितः ; सर्वचेतनतायां चासौ नोपपद्येत ; अपि च कौषीतकिनः प्राणसंवादे करणमात्राशङ्काविनिवृत्तयेऽधिष्ठातृचेतनपरिग्रहाय देवताशब्देन विशिंषन्ति — ‘ एता ह वै देवता अहंश्रेयसे विवदमानाः’ इति, ‘ ता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वा’ (कौ. उ. २ । १२) इति च । अनुगताश्च सर्वत्राभिमानिन्यश्चेतना देवता मन्त्रार्थवादेतिहासपुराणादिभ्योऽवगम्यन्ते — ‘ अग्निर्वाग्भूत्वा मुखं प्राविशत्’ (ऐ. आ. २ । ४ । २ । ४) इत्येवमादिका च श्रुतिः करणेष्वनुग्राहिकां देवतामनुगतां दर्शयति ; प्राणसंवादवाक्यशेषे च — ‘ ते ह प्राणाः प्रजापतिं पितरमेत्योचुः’ (छा. उ. ५ । १ । ७) इति श्रेष्ठत्वनिर्धारणाय प्रजापतिगमनम् , तद्वचनाच्चैकैकोत्क्रमणेनान्वयव्यतिरेकाभ्यां प्राणश्रैष्ठ्यप्रतिपत्तिः, ‘ तस्मै बलिहरणम्’ इति चैवंजातीयकोऽस्मदादिष्विव व्यवहारोऽनुगम्यमानोऽभिमानिव्यपदेशं द्रढयति ; ‘ तत्तेज ऐक्षत’ इत्यपि परस्या एव देवताया अधिष्ठात्र्याः स्वविकारेष्वनुगताया इयमीक्षा व्यपदिश्यत इति द्रष्टव्यम् । तस्माद्विलक्षणमेवेदं ब्रह्मणो जगत् ; विलक्षणत्वाच्च न ब्रह्मप्रकृतिकम् ॥ ५ ॥

— इत्याक्षिप्ते, प्रतिविधत्ते —

०६ दृश्यते तु ॥

तुशब्दः पक्षं व्यावर्तयति । यदुक्तम् विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकम् इति, नायमेकान्तः ; दृश्यते हि लोके — चेतनत्वेन प्रसिद्धेभ्यः पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः, अचेतनत्वेन च प्रसिद्धेभ्यो गोमयादिभ्यो वृश्चिकादीनाम् । नन्वचेतनान्येव पुरुषादिशरीराण्यचेतनानां केशनखादीनां कारणानि, अचेतनान्येव च वृश्चिकादिशरीराण्यचेतनानां गोमयादीनां कार्याणीति । उच्यते — एवमपि किञ्चिदचेतनं चेतनस्यायतनभावमुपगच्छति किञ्चिन्नेत्यस्त्येव वैलक्षण्यम् । महांश्चायं पारिणामिकः स्वभावविप्रकर्षः पुरुषादीनां केशनखादीनां च स्वरूपादिभेदात् , तथा गोमयादीनां वृश्चिकादीनां च । अत्यन्तसारूप्ये च प्रकृतिविकारभाव एव प्रलीयेत । अथोच्येत — अस्ति कश्चित्पार्थिवत्वादिस्वभावः पुरुषादीनां केशनखादिष्वनुवर्तमानो गोमयादीनां च वृश्चिकादिष्विति । ब्रह्मणोऽपि तर्हि सत्तालक्षणः स्वभाव आकाशादिष्वनुवर्तमानो दृश्यते । विलक्षणत्वेन च कारणेन ब्रह्मप्रकृतिकत्वं जगतो दूषयता किमशेषस्य ब्रह्मस्वभावस्याननुवर्तनं विलक्षणत्वमभिप्रेयते, उत यस्य कस्यचित् , अथ चैतन्यस्येति वक्तव्यम् । प्रथमे विकल्पे समस्तप्रकृतिविकारभावोच्छेदप्रसङ्गः ; न ह्यसत्यतिशये प्रकृतिविकार इति भवति । द्वितीये चासिद्धत्वम् ; दृश्यते हि सत्तालक्षणो ब्रह्मस्वभाव आकाशादिष्वनुवर्तमान इत्युक्तम् । तृतीये तु दृष्टान्ताभावः ; किं हि यच्चैतन्येनानन्वितं तदब्रह्मप्रकृतिकं दृष्टमिति ब्रह्मकारणवादिनं प्रत्युदाह्रियेत, समस्तस्य वस्तुजातस्य ब्रह्मप्रकृतिकत्वाभ्युपगमात् । आगमविरोधस्तु प्रसिद्ध एव, चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेत्यागमतात्पर्यस्य प्रसाधितत्वात् । यत्तूक्तं परिनिष्पन्नत्वाद्ब्रह्मणि प्रमाणान्तराणि सम्भवेयुरिति, तदपि मनोरथमात्रम् ; रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरः ; लिङ्गाद्यभावाच्च नानुमानादीनाम् ; आगममात्रसमधिगम्य एव त्वयमर्थो धर्मवत् ; तथा च श्रुतिः — ‘ नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ’ (क. उ. १ । २ । ९) इति ; ‘ को अद्धा वेद क इह प्रवोचत्’ ‘ इयं विसृष्टिर्यत आबभूव’ (ऋ. सं. १ । ३० । ६) इति चैते ऋचौ सिद्धानामपीश्वराणां दुर्बोधतां जगत्कारणस्य दर्शयतः ; स्मृतिरपि भवति — ‘ अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्’ इति, ‘ अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते’ (भ. गी. २ । २५) इति च, ‘ न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः’ (भ. गी. १० । २) इति चैवंजातीयका । यदपि श्रवणव्यतिरेकेण मननं विदधच्छब्द एव तर्कमप्यादर्तव्यं दर्शयतीत्युक्तम् , नानेन मिषेण शुष्कतर्कस्यात्रात्मलाभः सम्भवति ; श्रुत्यनुगृहीत एव ह्यत्र तर्कोऽनुभवाङ्गत्वेनाश्रीयते — स्वप्नान्तबुद्धान्तयोरुभयोरितरेतरव्यभिचारादात्मनोऽनन्वागतत्वम् , सम्प्रसादे च प्रपञ्चपरित्यागेन सदात्मना सम्पत्तेर्निष्प्रपञ्चसदात्मत्वम् , प्रपञ्चस्य ब्रह्मप्रभवत्वात्कार्यकारणानन्यत्वन्यायेन ब्रह्माव्यतिरेकः — इत्येवंजातीयकः ; ‘ तर्काप्रतिष्ठानादि’ (ब्र. सू. २ । १ । ११) ति च केवलस्य तर्कस्य विप्रलम्भकत्वं दर्शयिष्यति । योऽपि चेतनकारणश्रवणबलेनैव समस्तस्य जगतश्चेतनतामुत्प्रेक्षेत, तस्यापि ‘ विज्ञानं चाविज्ञानं च’ (तै. उ. २ । ६ । १) इति चेतनाचेतनविभागश्रवणं विभावनाविभावनाभ्यां चैतन्यस्य शक्यत एव योजयितुम् । परस्यैव त्विदमपि विभागश्रवणं न युज्यते । कथम् ? परमकारणस्य ह्यत्र समस्तजगदात्मना समवस्थानं श्राव्यते — ‘ विज्ञानं चाविज्ञानं चाभवत्’ इति ; तत्र यथा चेतनस्याचेतनभावो नोपपद्यते विलक्षणत्वात् , एवमचेतनस्यापि चेतनभावो नोपपद्यते । प्रत्युक्तत्वात्तु विलक्षणत्वस्य यथा श्रुत्यैव चेतनं कारणं ग्रहीतव्यं भवति ॥ ६ ॥

०७ असदिति चेन्न प्रतिषेधमात्रत्वात् ॥

यदि चेतनं शुद्धं शब्दादिहीनं च ब्रह्म तद्विपरीतस्याचेतनस्याशुद्धस्य शब्दादिमतश्च कार्यस्य कारणमिष्येत, असत्तर्हि कार्यं प्रागुत्पत्तेरिति प्रसज्येत ; अनिष्टं चैतत्सत्कार्यवादिनस्तवेति चेत् — नैष दोषः, प्रतिषेधमात्रत्वात् ; प्रतिषेधमात्रं हीदम् ; नास्य प्रतिषेधस्य प्रतिषेध्यमस्ति । न ह्ययं प्रतिषेधः प्रागुत्पत्तेः सत्त्वं कार्यस्य प्रतिषेद्धुं शक्नोति । कथम् ? यथैव हीदानीमपीदं कार्यं कारणात्मना सत् , एवं प्रागुत्पत्तेरपीति गम्यते ; न हीदानीमपीदं कार्यं कारणात्मानमन्तरेण स्वतन्त्रमेवास्ति — ‘ सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद’ (बृ. उ. २ । ४ । ६) इत्यादिश्रवणात् ; कारणात्मना तु सत्त्वं कार्यस्य प्रागुत्पत्तेरविशिष्टम् । ननु शब्दादिहीनं ब्रह्म जगतः कारणम् । बाढम् — न तु शब्दादिमत्कार्यं कारणात्मना हीनं प्रागुत्पत्तेरिदानीं वा अस्ति ; तेन न शक्यते वक्तुं प्रागुत्पत्तेरसत्कार्यमिति । विस्तरेण चैतत्कार्यकारणानन्यत्ववादे वक्ष्यामः ॥ ७ ॥

०८ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥

अत्राह — यदि स्थौल्यसावयवत्त्वाचेतनत्वपरिच्छिन्नत्वाशुद्ध्यादिधर्मकं कार्यं ब्रह्मकारणकमभ्युपगम्येत, तदापीतौ प्रलये प्रतिसंसृज्यमानं कार्यं कारणाविभागमापद्यमानं कारणमात्मीयेन धर्मेण दूषयेदिति — अपीतौ कारणस्यापि ब्रह्मणः कार्यस्येवाशुद्ध्यादिरूपताप्रसङ्गात् सर्वज्ञं ब्रह्म जगतः कारणमित्यसमञ्जसमिदमौपनिषदं दर्शनम् । अपि च समस्तस्य विभागस्याविभागप्राप्तेः पुनरुत्पत्तौ नियमकारणाभावाद्भोक्तृभोग्यादिविभागेनोत्पत्तिर्न प्राप्नोतीत्यसमञ्जसम् । अपि च भोक्तॄणां परेण ब्रह्मणा अविभागं गतानां कर्मादिनिमित्तप्रलयेऽपि पुनरुत्पत्तावभ्युपगम्यमानायां मुक्तानामपि पुनरुत्पत्तिप्रसङ्गादसमञ्जसम् । अथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेत, एवमप्यपीतिश्च न सम्भवति कारणाव्यतिरिक्तं च कार्यं न सम्भवतीत्यसमञ्जसमेवेति ॥ ८ ॥

अत्रोच्यते —

०९ न तु दृष्टान्तभावात् ॥

नैवास्मदीये दर्शने किञ्चिदसामञ्जस्यमस्ति । यत्तावदभिहितम् — कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण दूषयेदिति, न तद्दूषणम् । कस्मात् ? दृष्टान्तभावात् — सन्ति हि दृष्टान्ताः, यथा कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण न दूषयति ; तद्यथा — शरावादयो मृत्प्रकृतिका विकारा विभागावस्थायामुच्चावचमध्यमप्रभेदाः सन्तः पुनः प्रकृतिमपिगच्छन्तो न तामात्मीयेन धर्मेण संसृजन्ति ; रुचकादयश्च सुवर्णविकारा अपीतौ न सुवर्णमात्मीयेन धर्मेण संसृजन्ति ; पृथिवीविकारश्चतुर्विधो भूतग्रामो न पृथिवीमपीतावात्मीयेन धर्मेण संसृजति ; त्वत्पक्षस्य तु न कश्चिद्दृष्टान्तोऽस्ति ; अपीतिरेव हि न सम्भवेत् , यदि कारणे कार्यं स्वधर्मेणैवावतिष्ठेत । अनन्यत्वेऽपि कार्यकारणयोः, कार्यस्य कारणात्मत्वम् , न तु कारणस्य कार्यात्मत्वम् — ‘ आरम्भणशब्दादिभ्यः’ (ब्र. सू. २ । १ । १४) इति वक्ष्यामः । अत्यल्पं चेदमुच्यते — कार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदिति ; स्थितावपि हि समानोऽयं प्रसङ्गः, कार्यकारणयोरनन्यत्वाभ्युपगमात् ; ‘ इदँ सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) ‘ आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) ‘ ब्रह्मैवेदममृतं पुरस्तात्’ (मु. उ. २ । २ । १२) ‘ सर्वं खल्विदं ब्रह्म’ (छा. उ. ३ । १४ । १) इत्येवमाद्याभिर्हि श्रुतिभिरविशेषेण त्रिष्वपि कालेषु कार्यस्य कारणादनन्यत्वं श्राव्यते ; तत्र यः परिहारः कार्यस्य तद्धर्माणां चाविद्याध्यारोपितत्वान्न तैः कारणं संसृज्यत इति, अपीतावपि स समानः । अस्ति चायमपरो दृष्टान्तः — यथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि कालेषु न संस्पृश्यते , अवस्तुत्वात् , एवं परमात्मापि संसारमायया न संस्पृश्यत इति ; यथा च स्वप्नदृगेकः स्वप्नदर्शनमायया न संस्पृश्यते, प्रबोधसम्प्रसादयोरनन्वागतत्वात् , एवमवस्थात्रयसाक्ष्येकोऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा न संस्पृश्यते । मायामात्रं ह्येतत् , यत्परमात्मनोऽवस्थात्रयात्मनावभासनम् , रज्ज्वा इव सर्पादिभावेनेति । अत्रोक्तं वेदान्तार्थसम्प्रदायविद्भिराचार्यैः — ‘ अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा’ (मा. का. १ । १६) इति । तत्र यदुक्तमपीतौ कारणस्यापि कार्यस्येव स्थौल्यादिदोषप्रसङ्ग इति, एतदयुक्तम् । यत्पुनरेतदुक्तम् — समस्तस्य विभागस्याविभागप्राप्तेः पुनर्विभागेनोत्पत्तौ नियमकारणं नोपपद्यत इति, अयमप्यदोषः, दृष्टान्तभावादेव — यथा हि सुषुप्तिसमाध्यादावपि सत्यां स्वाभाविक्यामविभागप्राप्तौ मिथ्याज्ञानस्यानपोदितत्वात्पूर्ववत्पुनः प्रबोधे विभागो भवति, एवमिहापि भविष्यति । श्रुतिश्चात्र भवति — ‘ इमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह इति,’ (छा. उ. ६ । ९ । २) ‘ त इह व्याघ्रो वा सिँहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दँशो वा मशको वा यद्यद्भवन्ति तदा भवन्ति’ (छा. उ. ६ । ९ । ३) इति । यथा ह्यविभागेऽपि परमात्मनि मिथ्याज्ञानप्रतिबद्धो विभागव्यवहारः स्वप्नवदव्याहतः स्थितौ दृश्यते, एवमपीतावपि मिथ्याज्ञानप्रतिबद्धैव विभागशक्तिरनुमास्यते । एतेन मुक्तानां पुनरुत्पत्तिप्रसङ्गः प्रत्युक्तः, सम्यग्ज्ञानेन मिथ्याज्ञानस्यापोदितत्वात् । यः पुनरयमन्तेऽपरो विकल्प उत्प्रेक्षितः — अथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेतेति, सोऽप्यनभ्युपगमादेव प्रतिषिद्धः । तस्मात्समञ्जसमिदमौपनिषदं दर्शनम् ॥ ९ ॥

१० स्वपक्षदोषाच्च ॥

स्वपक्षे चैते प्रतिवादिनः साधारणा दोषाः प्रादुःष्युः । कथमित्युच्यते — यत्तावदभिहितम् , विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकमिति प्रधानप्रकृतिकतायामपि समानमेतत् , शब्दादिहीनात्प्रधानाच्छब्दादिमतो जगत उत्पत्त्यभ्युपगमात् ; अत एव च विलक्षणकार्योत्पत्त्यभ्युपगमात् समानः प्रागुत्पत्तेरसत्कार्यवादप्रसङ्गः ; तथापीतौ कार्यस्य कारणाविभागाभ्युपगमात्तद्वत्प्रसङ्गोऽपि समानः ; तथा मृदितसर्वविशेषेषु विकारेष्वपीतावविभागात्मतां गतेषु , इदमस्य पुरुषस्योपादानमिदमस्येति प्राक्प्रलयात्प्रतिपुरुषं ये नियता भेदाः, न ते तथैव पुनरुत्पत्तौ नियन्तुं शक्यन्ते, कारणाभावात् ; विनैव च कारणेन नियमेऽभ्युपगम्यमाने कारणाभावसाम्यान्मुक्तानामपि पुनर्बन्धप्रसङ्गः ; अथ केचिद्भेदा अपीतावविभागमापद्यन्ते केचिन्नेति चेत् — ये नापद्यन्ते, तेषां प्रधानकार्यत्वं न प्राप्नोति ; इत्येवमेते दोषाः साधारणत्वान्नान्यतरस्मिन्पक्षे चोदयितव्या भवन्तीति अदोषतामेवैषां द्रढयति — अवश्याश्रयितव्यत्वात् ॥ १० ॥

११ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः ॥

इतश्च नागमगम्येऽर्थे केवलेन तर्केण प्रत्यवस्थातव्यम् ; यस्मान्निरागमाः पुरुषोत्प्रेक्षामात्रनिबन्धनास्तर्का अप्रतिष्ठिता भवन्ति, उत्प्रेक्षाया निरङ्कुशत्वात् ; तथा हि — कैश्चिदभियुक्तैर्यत्नेनोत्प्रेक्षितास्तर्का अभियुक्ततरैरन्यैराभास्यमाना दृश्यन्ते ; तैरप्युत्प्रेक्षिताः सन्तस्ततोऽन्यैराभास्यन्त इति न प्रतिष्ठितत्वं तर्काणां शक्यमाश्रयितुम् , पुरुषमतिवैरूप्यात् । अथ कस्यचित्प्रसिद्धमाहात्म्यस्य कपिलस्य अन्यस्य वा सम्मतस्तर्कः प्रतिष्ठित इत्याश्रीयेत — एवमप्यप्रतिष्ठितत्वमेव, प्रसिद्धमाहात्म्याभिमतानामपि तीर्थकराणां कपिलकणभुक्प्रभृतीनां परस्परविप्रतिपत्तिदर्शनात् । अथोच्येत — अन्यथा वयमनुमास्यामहे, यथा नाप्रतिष्ठादोषो भविष्यति ; न हि प्रतिष्ठितस्तर्क एव नास्तीति शक्यते वक्तुम् ; एतदपि हि तर्काणामप्रतिष्ठितत्वं तर्केणैव प्रतिष्ठाप्यते, केषाञ्चित्तर्काणामप्रतिष्ठितत्वदर्शनेनान्येषामपि तज्जातीयकानां तर्काणामप्रतिष्ठितत्वकल्पनात् ; सर्वतर्काप्रतिष्ठायां च लोकव्यवहारोच्छेदप्रसङ्गः ; अतीतवर्तमानाध्वसाम्येन ह्यनागतेऽप्यध्वनि सुखदुःखप्राप्तिपरिहाराय प्रवर्तमानो लोको दृश्यते ; श्रुत्यर्थविप्रतिपत्तौ चार्थाभासनिराकरणेन सम्यगर्थनिर्धारणं तर्केणैव वाक्यवृत्तिनिरूपणरूपेण क्रियते ; मनुरपि चैवं मन्यते — ‘ प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता’ इति ‘ आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः’ (मनु. स्मृ. १२ । १०५,१०६) इति च ब्रुवन् । अयमेव च तर्कस्यालङ्कारः — यदप्रतिष्ठितत्वं नाम ; एवं हि सावद्यतर्कपरित्यागेन निरवद्यस्तर्कः प्रतिपत्तव्यो भवति ; न हि पूर्वजो मूढ आसीदित्यात्मनापि मूढेन भवितव्यमिति किञ्चिदस्ति प्रमाणम् । तस्मान्न तर्काप्रतिष्ठानं दोष इति चेत् — एवमप्यविमोक्षप्रसङ्गः ; यद्यपि क्वचिद्विषये तर्कस्य प्रतिष्ठितत्वमुपलक्ष्यते, तथापि प्रकृते तावद्विषये प्रसज्यत एवाप्रतिष्ठितत्वदोषादनिर्मोक्षस्तर्कस्य ; न हीदमतिगम्भीरं भावयाथात्म्यं मुक्तिनिबन्धनमागममन्तरेणोत्प्रेक्षितुमपि शक्यम् ; रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरः, लिङ्गाद्यभावाच्च नानुमानादीनामिति चावोचाम । अपि च सम्यग्ज्ञानान्मोक्ष इति सर्वेषां मोक्षवादिनामभ्युपगमः ; तच्च सम्यग्ज्ञानम् एकरूपम् , वस्तुतन्त्रत्वात् ; एकरूपेण ह्यवस्थितो योऽर्थः स परमार्थः ; लोके तद्विषयं ज्ञानं सम्यग्ज्ञानमित्युच्यते — यथाग्निरुष्ण इति ; तत्रैवं सति सम्यग्ज्ञाने पुरुषाणां विप्रतिपत्तिरनुपपन्ना ; तर्कज्ञानानां त्वन्योन्यविरोधात्प्रसिद्धा विप्रतिपत्तिः ; यद्धि केनचित्तार्किकेणेदमेव सम्यग्ज्ञानमिति प्रतिष्ठापितम् , तदपरेण व्युत्थाप्यते ; तेनापि प्रतिष्ठापितं ततोऽपरेण व्युत्थाप्यत इति च प्रसिद्धं लोके ; कथमेकरूपानवस्थितविषयं तर्कप्रभवं सम्यग्ज्ञानं भवेत् ; न च प्रधानवादी तर्कविदामुत्तम इति सर्वैस्तार्किकैः परिगृहीतः, येन तदीयं मतं सम्यग्ज्ञानमिति प्रतिपद्येमहि ; न च शक्यन्तेऽतीतानागतवर्तमानास्तार्किका एकस्मिन्देशे काले च समाहर्तुम् , येन तन्मतिरेकरूपैकार्थविषया सम्यङ्मतिरिति स्यात् ; वेदस्य तु नित्यत्वे विज्ञानोत्पत्तिहेतुत्वे च सति व्यवस्थितार्थविषयत्वोपपत्तेः, तज्जनितस्य ज्ञानस्य सम्यक्त्वमतीतानागतवर्तमानैः सर्वैरपि तार्किकैरपह्नोतुमशक्यम् ; अतः सिद्धमस्यैवौपनिषदस्य ज्ञानस्य सम्यग्ज्ञानत्वम् ; अतोऽन्यत्र सम्यग्ज्ञानत्वानुपपत्तेः संसाराविमोक्ष एव प्रसज्येत । अत आगमवशेन आगमानुसारितर्कवशेन च चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेति स्थितम् ॥ ११ ॥