०२ योगप्रत्युक्त्यधिकरणम्

०३ एतेन योगः प्रत्युक्तः ॥

एतेन सांख्यस्मृतिप्रत्याख्यानेन, योगस्मृतिरपि प्रत्याख्याता द्रष्टव्येत्यतिदिशति । तत्रापि श्रुतिविरोधेन प्रधानं स्वतन्त्रमेव कारणम् , महदादीनि च कार्याण्यलोकवेदप्रसिद्धानि कल्प्यन्ते । नन्वेवं सति समानन्यायत्वात्पूर्वेणैवैतद्गतम् ; किमर्थं पुनरतिदिश्यते । अस्ति ह्यत्राभ्यधिकाशङ्का — सम्यग्दर्शनाभ्युपायो हि योगो वेदे विहितः — ‘ श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) इति ; ‘ त्रिरुन्नतं स्थाप्य समं शरीरम्’ (श्वे. उ. २ । ८) इत्यादिना चासनादिकल्पनापुरःसरं बहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि दृश्यते ; लिङ्गानि च वैदिकानि योगविषयाणि सहस्रश उपलभ्यन्ते — ‘ तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्’ (क. उ. २ । ३ । ११) इति, ‘ विद्यामेतां योगविधिं च कृत्स्नम्’ (क. उ. २ । ३ । १८) इति चैवमादीनि ; योगशास्त्रेऽपि — ‘ अथ तत्त्वदर्शनोपायो योगः’ इति सम्यग्दर्शनाभ्युपायत्वेनैव योगोऽङ्गीक्रियते ; अतः सम्प्रतिपन्नार्थैकदेशत्वादष्टकादिस्मृतिवद्योगस्मृतिरप्यनपवदनीया भविष्यतीति — इयमभ्यधिका शङ्कातिदेशेन निवर्त्यते, अर्थैकदेशसम्प्रतिपत्तावप्यर्थैकदेशविप्रतिपत्तेः पूर्वोक्ताया दर्शनात् । सतीष्वप्यध्यात्मविषयासु बह्वीषु स्मृतिषु सांख्ययोगस्मृत्योरेव निराकरणे यत्नः कृतः ; सांख्ययोगौ हि परमपुरुषार्थसाधनत्वेन लोके प्रख्यातौ, शिष्टैश्च परिगृहीतौ, लिङ्गेन च श्रौतेनोपबृंहितौ — ‘ तत्कारणं सांख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपाशैः’ (श्वे. उ. ६ । १३) इति ; निराकरणं तु — न सांख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यत इति ; श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयति — ‘ तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इति ; द्वैतिनो हि ते सांख्या योगाश्च नात्मैकत्वदर्शिनः । यत्तु दर्शनमुक्तम् ‘ तत्कारणं सांख्ययोगाभिपन्नम्’ इति, वैदिकमेव तत्र ज्ञानं ध्यानं च सांख्ययोगशब्दाभ्यामभिलप्येते प्रत्यासत्तेरित्यवगन्तव्यम् । येन त्वंशेन न विरुध्येते, तेनेष्टमेव सांख्ययोगस्मृत्योः सावकाशत्वम् ; तद्यथा — ‘ असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १६) इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्वं निर्गुणपुरुषनिरूपणेन सांख्यैरभ्युपगम्यते ; तथा यौगैरपि ‘ अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः’ (जा. उ. ५) इत्येवमादि श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यते । एतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानि ; तान्यपि तर्कोपपत्तिभ्यां तत्त्वज्ञानायोपकुर्वन्तीति चेत् , उपकुर्वन्तु नाम ; तत्त्वज्ञानं तु वेदान्तवाक्येभ्य एव भवति — ‘ नावेदविन्मनुते तं बृहन्तम्’ (तै. ब्रा. ३ । १२ । ९ । ७) ‘ तं त्वौपनिषदं पुरुषं पृच्छामि’ (बृ. उ. ३ । ९ । २६) इत्येवमादिश्रुतिभ्यः ॥ ३ ॥