प्रथमेऽध्याये — सर्वज्ञः सर्वेश्वरो जगतः उत्पत्तिकारणम् , मृत्सुवर्णादय इव घटरुचकादीनाम् ; उत्पन्नस्य जगतो नियन्तृत्वेन स्थितिकारणम् , मायावीव मायायाः ; प्रसारितस्य जगतः पुनः स्वात्मन्येवोपसंहारकारणम् , अवनिरिव चतुर्विधस्य भूतग्रामस्य ; स एव च सर्वेषां न आत्मा — इत्येतद्वेदान्तवाक्यसमन्वयप्रतिपादनेन प्रतिपादितम् ; प्रधानादिकारणवादाश्चाशब्दत्वेन निराकृताः । इदानीं स्वपक्षे स्मृतिन्यायविरोधपरिहारः प्रधानादिवादानां च न्यायाभासोपबृंहितत्वं प्रतिवेदान्तं च सृष्ट्यादिप्रक्रियाया अविगीतत्वमित्यस्यार्थजातस्य प्रतिपादनाय द्वितीयोऽध्याय आरभ्यते । तत्र प्रथमं तावत्स्मृतिविरोधमुपन्यस्य परिहरति —