०७ प्रकृत्यधिकरणम्

२३ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥

यथाभ्युदयहेतुत्वाद्धर्मो जिज्ञास्यः, एवं निःश्रेयसहेतुत्वाद्ब्रह्मापि जिज्ञास्यमित्युक्तम् ; ब्रह्म च ‘जन्माद्यस्य यतः’ (ब्र. सू. १ । १ । २) इति लक्षितम् ; तच्च लक्षणं घटरुचकादीनां मृत्सुवर्णादिवत्प्रकृतित्वे कुलालसुवर्णकारादिवन्निमित्तत्वे च समानमित्यतो भवति विमर्शः — किमात्मकं पुनर्ब्रह्मणः कारणत्वं स्यादिति । तत्र निमित्तकारणमेव तावत्केवलं स्यादिति प्रतिभाति । कस्मात् ? ईक्षापूर्वककर्तृत्वश्रवणात् — ईक्षापूर्वकं हि ब्रह्मणः कर्तृत्वमवगम्यते — ‘स ईक्षाञ्चक्रे’ (प्र. उ. ६ । ३) ‘स प्राणमसृजत’ (प्र. उ. ६ । ४) इत्यादिश्रुतिभ्यः ; ईक्षापूर्वकं च कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु दृष्टम् ; अनेककारकपूर्विका च क्रियाफलसिद्धिर्लोके दृष्टा ; स च न्याय आदिकर्तर्यपि युक्तः सङ्क्रमयितुम् । ईश्वरत्वप्रसिद्धेश्च — ईश्वराणां हि राजवैवस्वतादीनां निमित्तकारणत्वमेव केवलं प्रतीयते ; तद्वत्परमेश्वरस्यापि निमित्तकारणत्वमेव युक्तं प्रतिपत्तुम् । कार्यं चेदं जगत्सावयवमचेतनमशुद्धं च दृश्यते, कारणेनापि तस्य तादृशेनैव भवितव्यम् , कार्यकारणयोः सारूप्यदर्शनात् ; ब्रह्म चानेवंलक्षणमवगम्यते — ‘निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’ (श्वे. उ. ६ । १९) इत्यादिश्रुतिभ्यः ; पारिशेष्याद्ब्रह्मणोऽन्यदुपादानकारणमशुद्ध्यादिगुणकं स्मृतिप्रसिद्धमभ्युपगन्तव्यम् , ब्रह्मकारणत्वश्रुतेर्निमित्तत्वमात्रे पर्यवसानादित्येवं प्राप्ते ब्रूमः —

प्रकृतिश्चोपादानकारणं च ब्रह्माभ्युपगन्तव्यम् , निमित्तकारणं च । न केवलं निमित्तकारणमेव । कस्मात् ? प्रतिज्ञादृष्टान्तानुपरोधात् । एवं हि प्रतिज्ञादृष्टान्तौ श्रौतौ नोपुरुध्येते । प्रतिज्ञा तावत् — ‘उत तमादेशमप्राक्ष्यः येनाश्रुतँ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ (छा. उ. ६ । १ । ३) इति ; तत्र चैकेन विज्ञातेन सर्वमन्यदविज्ञातमपि विज्ञातं भवतीति प्रतीयते ; तच्चोपादानकारणविज्ञाने सर्वविज्ञानं सम्भवति, उपादानकारणाव्यतिरेकात्कार्यस्य ; निमित्तकारणाव्यतिरेकस्तु कार्यस्य नास्ति, लोके तक्ष्णः प्रासादव्यतिरेकदर्शनात् । दृष्टान्तोऽपि ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातँ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) इत्युपादानकारणगोचर एवाम्नायते ; तथा ‘एकेन लोहमणिना सर्वं लोहमयं विज्ञातँ स्यात्’ (छा. उ. ६ । १ । ५) ‘एकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातँ स्यात्’ (छा. उ. ६ । १ । ६) इति च । तथान्यत्रापि ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इति प्रतिज्ञा ; ‘यथा पृथिव्यामोषधयः सम्भवन्ति’ (मु. उ. १ । १ । ७) इति दृष्टान्तः । तथा ‘आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदँ सर्वं विदितम्’ (बृ. उ. ४ । ५ । ६) इति प्रतिज्ञा ; ‘स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः’ (बृ. उ. ४ । ५ । ८) इति दृष्टान्तः । एवं यथासम्भवं प्रतिवेदान्तं प्रतिज्ञादृष्टान्तौ प्रकृतित्वसाधनौ प्रत्येतव्यौ । यत इतीयं पञ्चमी — ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इत्यत्र ‘जनिकर्तुः प्रकृतिः’ (पा. सू. १ । ४ । ३०) इति विशेषस्मरणात्प्रकृतिलक्षण एवापादाने द्रष्टव्या । निमित्तत्वं त्वधिष्ठात्रन्तराभावादधिगन्तव्यम् ; यथा हि लोके मृत्सुवर्णादिकमुपादानकारणं कुलालसुवर्णकारादीनधिष्ठातॄनपेक्ष्य प्रवर्तते, नैवं ब्रह्मण उपादानकारणस्य सतोऽन्योऽधिष्ठातापेक्ष्योऽस्ति, प्रागुत्पत्तेः ‘एकमेवाद्वितीयम्’ इत्यवधारणात् ; अधिष्ठात्रन्तराभावोऽपि प्रतिज्ञादृष्टान्तानुपरोधादेवोदितो वेदितव्यः — अधिष्ठातरि ह्युपादानादन्यस्मिन्नभ्युपगम्यमाने पुनरप्येकविज्ञानेन सर्वविज्ञानस्यासम्भवात्प्रतिज्ञादृष्टान्तोपरोध एव स्यात् । तस्मादधिष्ठात्रन्तराभावादात्मनः कर्तृत्वमुपादानान्तराभावाच्च प्रकृतित्वम् ॥ २३ ॥

कुतश्चात्मनः कर्तृत्वप्रकृतित्वे ? —

२४ अभिध्योपदेशाच्च ॥

अभिध्योपदेशश्चात्मनः कर्तृत्वप्रकृतित्वे गमयति ‘सोऽकामयत बहु स्यां प्रजायेय’ (तै. उ. २ । ६ । १) इति, ‘तदैक्षत बहु स्यां प्रजायेय’ (छा. उ. ६ । २ । ३) इति च । तत्राभिध्यानपूर्विकायाः स्वातन्त्र्यप्रवृत्तेः कर्तेति गम्यते । बहु स्यामिति प्रत्यगात्मविषयत्वाद्बहुभवनाभिध्यानस्य प्रकृतिरित्यपि गम्यते ॥ २४ ॥

२५ साक्षाच्चोभयाम्नानात् ॥

प्रकृतित्वस्यायमभ्युच्चयः । इतश्च प्रकृतिर्ब्रह्म, यत्कारणं साक्षाद्ब्रह्मैव कारणमुपादाय उभौ प्रभवप्रलयावाम्नायेते — ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्ति’ (छा. उ. १ । ९ । १) इति । यद्धि यस्मात्प्रभवति, यस्मिंश्च प्रलीयते तत्तस्योपादानं प्रसिद्धम् , यथा व्रीहियवादीनां पृथिवी । ‘साक्षात्’ इति च — उपादानान्तरानुपादानं सूचयति ‘आकाशादेव’ इति । प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः ॥ २५ ॥

२६ आत्मकृतेः परिणामात् ॥

इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मप्रक्रियायाम् ‘तदात्मानं स्वयमकुरुत’ (तै. उ. २ । ७ । १) इत्यात्मनः कर्मत्वं कर्तृत्वं च दर्शयति — आत्मानमिति कर्मत्वम् , स्वयमकुरुतेति कर्तृत्वम् । कथं पुनः पूर्वसिद्धस्य सतः कर्तृत्वेन व्यवस्थितस्य क्रियमाणत्वं शक्यं सम्पादयितुम् ? परिणामादिति ब्रूमः — पूर्वसिद्धोऽपि हि सन्नात्मा विशेषेण विकारात्मना परिणमयामासात्मानमिति । विकारात्मना च परिणामो मृदाद्यासु प्रकृतिषूपलब्धः ; स्वयमिति च विशेषणान्निमित्तान्तरानपेक्षत्वमपि प्रतीयते । ‘परिणामात्’ इति वा पृथक्सूत्रम् । तस्यैषोऽर्थः — इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मण एव विकारात्मना परिणामः सामानाधिकरण्येनाम्नायते ‘सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च’ (तै. उ. २ । ६ । १) इत्यादिनेति ॥ २६ ॥

२७ योनिश्च हि गीयते ॥

इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्म योनिरित्यपि पठ्यते वेदान्तेषु — ‘कर्तारमीशं पुरुषं ब्रह्मयोनिम्’ (मु. उ. ३ । १ । ३) इति ‘यद्भूतयोनिं परिपश्यन्ति धीराः’ (मु. उ. १ । १ । ६) इति च । योनिशब्दश्च प्रकृतिवचनःसमधिगतो लोके — ‘पृथिवी योनिरोषधिवनस्पतीनाम्’ इति । स्त्रीयोनेरप्यस्त्येवावयवद्वारेण गर्भं प्रत्युपादानकारणत्वम् । क्वचित्स्थानवचनोऽपि योनिशब्दो दृष्टः ‘योनिष्ट इन्द्र निषदे अकारि’ (ऋ. सं. १ । १०४ । १) इति । वाक्यशेषात्त्वत्र प्रकृतिवचनता परिगृह्यते — ‘यथोर्णनाभिः सृजते गृह्णते च’ (मु. उ. १ । १ । ७) इत्येवंजातीयकात् । तदेवं प्रकृतित्वं ब्रह्मणः प्रसिद्धम् । यत्पुनरिदमुक्तम् , ईक्षापूर्वकं कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु लोके दृष्टम् , नोपादानेष्वित्यादि ; तत्प्रत्युच्यते — न लोकवदिह भवितव्यम् ; न ह्ययमनुमानगम्योऽर्थः ; शब्दगम्यत्वात्त्वस्यार्थस्य यथाशब्दमिह भवितव्यम् ; शब्दश्चेक्षितुरीश्वरस्य प्रकृतित्वं प्रतिपादयतीत्यवोचाम । पुनश्चैतत्सर्वं विस्तरेण प्रतिवक्ष्यामः ॥ २७ ॥