१६ जगद्वाचित्वात् ॥
कौषीतकिब्राह्मणे बालाक्यजातशत्रुसंवादे श्रूयते — ‘यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यः’ (कौ. ब्रा. ४ । १९) इति । तत्र किं जीवो वेदितव्यत्वेनोपदिश्यते, उत मुख्यः प्राणः, उत परमात्मेति विशयः । किं तावत्प्राप्तम् ? प्राण इति । कुतः ? ‘यस्य वैतत्कर्म’ इति श्रवणात् , परिस्पन्दलक्षणस्य च कर्मणः प्राणाश्रयत्वात् ; वाक्यशेषे च ‘अथास्मिन्प्राण एवैकधा भवति’ इति प्राणशब्दश्रवणात् , प्राणशब्दस्य च मुख्ये प्राणे प्रसिद्धत्वात् ; ये चैते पुरस्ताद्बालाकिना ‘आदित्ये पुरुषश्चन्द्रमसि पुरुषः’ इत्येवमादयः पुरुषा निर्दिष्टाः, तेषामपि भवति प्राणः कर्ता, प्राणावस्थाविशेषत्वादादित्यादिदेवतात्मनाम् — ‘कतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते’ (बृ. उ. ३ । ९ । ९) इति श्रुत्यन्तरप्रसिद्धेः । जीवो वायमिह वेदितव्यतयोपदिश्यते ; तस्यापि धर्माधर्मलक्षणं कर्म शक्यते श्रावयितुम् — ‘यस्य वैतत्कर्म’ इति ; सोऽपि भोक्तृत्वाद्भोगोपकरणभूतानामेतेषां पुरुषाणां कर्तोपपद्यते ; वाक्यशेषे च जीवलिङ्गमवगम्यते — यत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं बालाकिं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्य आमन्त्रणशब्दाश्रवणात्प्राणादीनामभोक्तृत्वं प्रतिबोध्य यष्टिघातोत्थापनात्प्राणादिव्यतिरिक्तं जीवं भोक्तारं प्रतिबोधयति ; तथा परस्तादपि जीवलिङ्गमवगम्यते — ‘तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एतमात्मानं भुञ्जन्ति’ (कौ. ब्रा. ४ । २०) इति ; प्राणभृत्त्वाच्च जीवस्योपपन्नं प्राणशब्दत्वम् । तस्माज्जीवमुख्यप्राणयोरन्यतर इह ग्रहणीयः, न परमेश्वरः, तल्लिङ्गानवगमादित्येवं प्राप्ते ब्रूमः —
परमेश्वर एवायमेतेषां पुरुषाणां कर्ता स्यात् । कस्मात् ? उपक्रमसामर्थ्यात् । इह हि बालाकिरजातशत्रुणा सह ‘ब्रह्म ते ब्रवाणि’ इति संवदितुमुपचक्रमे ; स च कतिचिदादित्याद्यधिकरणान्पुरुषानमुख्यब्रह्मदृष्टिभाज उक्त्वा तूष्णीं बभूव ; तमजातशत्रुः ‘मृषा वै खलु मा संवदिष्ठा ब्रह्म ते ब्रवाणि’ इत्यमुख्यब्रह्मवादितयापोद्य, तत्कर्तारमन्यं वेदितव्यतयोपचिक्षेप ; यदि सोऽप्यमुख्यब्रह्मदृष्टिभाक्स्यात् , उपक्रमो बाध्येत ; तस्मात्परमेश्वर एवायं भवितुमर्हति । कर्तृत्वं चैतेषां पुरुषाणां न परमेश्वरादन्यस्य स्वातन्त्र्येणावकल्पते । ‘यस्य वैतत्कर्म’ इत्यपि नायं परिस्पन्दलक्षणस्य धर्माधर्मलक्षणस्य वा कर्मणो निर्देशः, तयोरन्यतरस्याप्यप्रकृतत्वात् , असंशब्दितत्वाच्च ; नापि पुरुषाणामयं निर्देशः, ‘एतेषां पुरुषाणां कर्ता’ इत्येव तेषां निर्दिष्टत्वात् , लिङ्गवचनविगानाच्च ; नापि पुरुषविषयस्य करोत्यर्थस्य क्रियाफलस्य वायं निर्देशः, कर्तृशब्देनैव तयोरुपात्तत्वात् ; पारिशेष्यात्प्रत्यक्षसन्निहितं जगत्सर्वनाम्नैतच्छब्देन निर्दिश्यते ; क्रियत इति च तदेव जगत्कर्म । ननु जगदप्यप्रकृतमसंशब्दितं च । सत्यमेतत् ; तथाप्यसति विशेषोपादाने साधारणेनार्थेन सन्निधानेन सन्निहितवस्तुमात्रस्यायं निर्देश इति गम्यते, न विशिष्टस्य कस्यचित् , विशेषसन्निधानाभावात् ; पूर्वत्र च जगदेकदेशभूतानां पुरुषाणां विशेषोपादानादविशेषितं जगदेवेहोपादीयत इति गम्यते । एतदुक्तं भवति — य एतेषां पुरुषाणां जगदेकदेशभूतानां कर्ता — किमनेन विशेषेण ? — यस्य वा कृत्स्नमेव जगदविशेषितं कर्मेति वाशब्द एकदेशावच्छिन्नकर्तृत्वव्यावृत्त्यर्थः ; ये बालाकिना ब्रह्मत्वाभिमताः पुरुषाः कीर्तिताः, तेषामब्रह्मत्वख्यापनाय विशेषोपादानम् । एवं ब्राह्मणपरिव्राजकन्यायेन सामान्यविशेषाभ्यां जगतः कर्ता वेदितव्यतयोपदिश्यते ; परमेश्वरश्च सर्वजगतः कर्ता सर्ववेदान्तेष्ववधारितः ॥ १६ ॥
१७ जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् ॥
अथ यदुक्तं वाक्यशेषगताज्जीवलिङ्गान्मुख्यप्राणलिङ्गाच्च तयोरेवान्यतरस्येह ग्रहणं न्याय्यं न परमेश्वरस्येति, तत्परिहर्तव्यम् । अत्रोच्यते — परिहृतं चैतत् ‘नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्’ (ब्र. सू. १ । १ । ३१) इत्यत्र ; त्रिविधं ह्यत्रोपासनमेवं सति प्रसज्येत — जीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति ; न चैतन्न्याय्यम् ; उपक्रमोपसंहाराभ्यां हि ब्रह्मविषयत्वमस्य वाक्यस्यावगम्यते ; तत्रोपक्रमस्य तावद्ब्रह्मविषयत्वं दर्शितम् ; उपसंहारस्यापि निरतिशयफलश्रवणाद्ब्रह्मविषयत्वं दृश्यते — ‘सर्वान्पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद’ इति । नन्वेवं सति प्रतर्दनवाक्यनिर्णयेनैवेदमपि वाक्यं निर्णीयेत । न निर्णीयते, ‘यस्य वैतत्कर्म’ इत्यस्य ब्रह्मविषयत्वेन तत्र अनिर्धारितत्वात् ; तस्मादत्र जीवमुख्यप्राणशङ्का पुनरुत्पद्यमाना निवर्त्यते । प्राणशब्दोऽपि ब्रह्मविषयो दृष्टः ‘प्राणबन्धनं हि सोम्य मनः’ (छा. उ. ६ । ८ । २) इत्यत्र । जीवलिङ्गमप्युपक्रमोपसंहारयोर्ब्रह्मविषयत्वादभेदाभिप्रायेण योजयितव्यम् ॥ १७ ॥
१८ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥
अपि च नैवात्र विवदितव्यम् — जीवप्रधानं वेदं वाक्यं स्यात् ब्रह्मप्रधानं वेति ; यतोऽन्यार्थं जीवपरामर्शं ब्रह्मप्रतिपत्त्यर्थमस्मिन्वाक्ये जैमिनिराचार्यो मन्यते । कस्मात् ? प्रश्नव्याख्यानाभ्याम् । प्रश्नस्तावत्सुप्तपुरुषप्रतिबोधनेन प्राणादिव्यतिरिक्ते जीवे प्रतिबोधिते पुनर्जीवव्यतिरिक्तविषयो दृश्यते — ‘क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्व वा एतदभूत्कुत एतदागात्’ (कौ. ब्रा. ४ । १९) इति ; प्रतिवचनमपि — ‘यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति’ (कौ. ब्रा. ४ । २०) इत्यादि, ‘एतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’ इति च । सुषुप्तिकाले च परेण ब्रह्मणा जीव एकतां गच्छति ; परस्माच्च ब्रह्मणः प्राणादिकं जगज्जायत इति वेदान्तमर्यादा । तस्माद्यत्रास्य जीवस्य निःसम्बोधतास्वच्छतारूपः स्वापः — उपाधिजनितविशेषविज्ञानरहितं स्वरूपम् , यतस्तद्भ्रंशरूपमागमनम् , सोऽत्र परमात्मा वेदितव्यतया श्रावित इति गम्यते । अपि चैवमेके शाखिनो वाजसनेयिनोऽस्मिन्नेव बालाक्यजातशत्रुसंवादे स्पष्टं विज्ञानमयशब्देन जीवमाम्नाय तद्व्यतिरिक्तं परमात्मानमामनन्ति ‘य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागात्’ (बृ. उ. २ । १ । १६) इति प्रश्ने ; प्रतिवचनेऽपि ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’ (बृ. उ. २ । १ । १७) इति ; आकाशशब्दश्च परमात्मनि प्रयुक्तः ‘दहरोऽस्मिन्नन्तराकाशः’ (छा. उ. ८ । १ । २) इत्यत्र । ‘सर्व एत आत्मानो व्युच्चरन्ति’ इति चोपाधिमतामात्मनामन्यतो व्युच्चरणमामनन्तः परमात्मानमेव कारणत्वेनामनन्तीति गम्यते । प्राणनिराकरणस्यापि सुषुप्तपुरुषोत्थापनेन प्राणादिव्यतिरिक्तोपदेशोऽभ्युच्चयः ॥ १८ ॥