०४ कारणत्वाधिकरणम्

१४ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥

प्रतिपादितं ब्रह्मणो लक्षणम् ; प्रतिपादितं ब्रह्मविषयं गतिसामान्यं वेदान्तवाक्यानाम् ; प्रतिपादितं च प्रधानस्याशब्दत्वम् । तत्रेदमपरमाशङ्क्यते — न जन्मादिकारणत्वं ब्रह्मणो ब्रह्मविषयं वा गतिसामान्यं वेदान्तवाक्यानां प्रतिपादयितुं शक्यम् । कस्मात् ? विगानदर्शनात् ; प्रतिवेदान्तं ह्यन्यान्या सृष्टिरुपलभ्यते, क्रमादिवैचित्र्यात् । तथा हि — क्वचित् ‘आत्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इत्याकाशादिका सृष्टिराम्नायते ; क्वचित्तेजआदिका ‘तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इति ; क्वचित्प्राणादिका ‘स प्राणमसृजत प्राणाच्छ्रद्धाम्’ (प्र. उ. ६ । ४) इति ; क्वचिदक्रमेणैव लोकानामुत्पत्तिराम्नायते — ‘स इमाल्ँलोकानसृजत । अम्भो मरीचिर्मरमापः’ (ऐ. उ. १ । १ । २) इति ; तथा क्वचिदसत्पूर्विका सृष्टिः पठ्यते — ‘असद्वा इदमग्र आसीत् । ततो वै सदजायत’ (तै. उ. २ । ७ । १) इति, ‘असदेवेदमग्र आसीत्तत्सदासीत्तत्समभवत्’ (छा. उ. ३ । १९ । १) इति च ; क्वचिदसद्वादनिराकरणेन सत्पूर्विका प्रक्रिया प्रतिज्ञायते — ‘तद्धैक आहुरसदेवेदमग्र आसीत्’ (छा. उ. ६ । २ । १) इत्युपक्रम्य, ‘कुतस्तु खलु सोम्यैवँ स्यादिति होवाच कथमसतः सज्जायेतेति । सत्त्वेव सोम्येदमग्र आसीत्’ (छा. उ. ६ । २ । २) इति ; क्वचित्स्वयंकर्तृकैव व्याक्रिया जगतो निगद्यते — ‘तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत’ (बृ. उ. १ । ४ । ७) इति । एवमनेकधा विप्रतिपत्तेर्वस्तुनि च विकल्पस्यानुपपत्तेर्न वेदान्तवाक्यानां जगत्कारणावधारणपरता न्याय्या ; स्मृतिन्यायप्रसिद्धिभ्यां तु कारणान्तरपरिग्रहो न्याय्य इत्येवं प्राप्ते ब्रूमः —

सत्यपि प्रतिवेदान्तं सृज्यमानेष्वाकाशादिषु क्रमादिद्वारके विगाने, न स्रष्टरि किञ्चिद्विगानमस्ति । कुतः ? यथाव्यपदिष्टोक्तेः — यथाभूतो ह्येकस्मिन्वेदान्ते सर्वज्ञः सर्वेश्वरः सर्वात्मैकोऽद्वितीयः कारणत्वेन व्यपदिष्टः, तथाभूत एव वेदान्तान्तरेष्वपि व्यपदिश्यते ; तद्यथा — ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति ; अत्र तावज्ज्ञानशब्देन परेण च तद्विषयेण कामयितृत्ववचनेन चेतनं ब्रह्म न्यरूपयत् ; अपरप्रयोज्यत्वेनेश्वरं कारणमब्रवीत् ; तद्विषयेणैव परेणात्मशब्देन शरीरादिकोशपरम्परया चान्तरनुप्रवेशनेन सर्वेषामन्तः प्रत्यगात्मानं निरधारयत् ; ‘बहु स्यां प्रजायेय’ (तै. उ. २ । ६ । १) इति चात्मविषयेण बहुभवनानुशंसनेन सृज्यमानानां विकाराणां स्रष्टुरभेदमभाषत ; तथा ‘इदं सर्वमसृजत । यदिदं किं च’ (तै. उ. २ । ६ । १) इति समस्तजगत्सृष्टिनिर्देशेन प्राक्सृष्टेरद्वितीयं स्रष्टारमाचष्टे ; तदत्र यल्लक्षणं ब्रह्म कारणत्वेन विज्ञातम् , तल्लक्षणमेवान्यत्रापि विज्ञायते — ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इति ; तथा ‘आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत् । स ईक्षत लोकान्नु सृजै’ (ऐ. उ. १ । १ । १) इति च — एवंजातीयकस्य कारणस्वरूपनिरूपणपरस्य वाक्यजातस्य प्रतिवेदान्तमविगीतार्थत्वात् । कार्यविषयं तु विगानं दृश्यते — क्वचिदाकाशादिका सृष्टिः क्वचित्तेजआदिकेत्येवंजातीयकम् । न च कार्यविषयेण विगानेन कारणमपि ब्रह्म सर्ववेदान्तेष्वविगीतमधिगम्यमानमविवक्षितं भवितुमर्हतीति शक्यते वक्तुम् , अतिप्रसङ्गात् । समाधास्यति चाचार्यः कार्यविषयमपि विगानम् ‘न वियदश्रुतेः’ (ब्र. सू. २ । ३ । १) इत्यारभ्य । भवेदपि कार्यस्य विगीतत्वमप्रतिपाद्यत्वात् । न ह्ययं सृष्ट्यादिप्रपञ्चः प्रतिपिपादयिषितः । न हि तत्प्रतिबद्धः कश्चित्पुरुषार्थो दृश्यते श्रूयते वा । न च कल्पयितुं शक्यते, उपक्रमोपसंहाराभ्यां तत्र तत्र ब्रह्मविषयैर्वाक्यैः साकमेकवाक्यताया गम्यमानत्वात् । दर्शयति च सृष्ट्यादिप्रपञ्चस्य ब्रह्मप्रतिपत्त्यर्थताम् — ‘अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ’ (छा. उ. ६ । ८ । ४) इति । मृदादिदृष्टान्तैश्च कार्यस्य कारणेनाभेदं वदितुं सृष्ट्यादिप्रपञ्चः श्राव्यत इति गम्यते । तथा च सम्प्रदायविदो वदन्ति — ‘मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा । उपायः सोऽवताराय नास्ति भेदः कथञ्चन’ (मा. का. ३ । १५) इति । ब्रह्मप्रतिपत्तिप्रतिबद्धं तु फलं श्रूयते — ‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) ‘तरति शोकमात्मवित्’ (छा. उ. ७ । १ । ३) ‘तमेव विदित्वाति मृत्युमेति’ (श्वे. उ. ३ । ८) इति । प्रत्यक्षावगमं चेदं फलम् , ‘तत्त्वमसि’ इत्यसंसार्यात्मत्वप्रतिपत्तौ सत्यां संसार्यात्मत्वव्यावृत्तेः ॥ १४ ॥

यत्पुनः कारणविषयं विगानं दर्शितम् ‘असद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) इत्यादि, तत्परिहर्तव्यम् ; अत्रोच्यते —

१५ समाकर्षात् ॥

‘असद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) इति नात्रासन्निरात्मकं कारणत्वेन श्राव्यते ; यतः ‘असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः’ (तै. उ. २ । ६ । १) इत्यसद्वादापवादेनास्तित्वलक्षणं ब्रह्मान्नमयादिकोशपरम्परया प्रत्यगात्मानं निर्धार्य, ‘सोऽकामयत’ इति तमेव प्रकृतं समाकृष्य, सप्रपञ्चां सृष्टिं तस्माच्छ्रावयित्वा, ‘तत्सत्यमित्याचक्षते’ इति चोपसंहृत्य, ‘तदप्येष श्लोको भवति’ इति तस्मिन्नेव प्रकृतेऽर्थे श्लोकमिममुदाहरति — ‘असद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) इति । यदि त्वसन्निरात्मकमस्मिञ्श्लोकेऽभिप्रेयेत, ततोऽन्यसमाकर्षणेऽन्यस्योदाहरणादसम्बद्धं वाक्यमापद्येत ; तस्मान्नामरूपव्याकृतवस्तुविषयः प्रायेण सच्छब्दः प्रसिद्ध इति तद्व्याकरणाभावापेक्षया प्रागुत्पत्तेः सदेव ब्रह्मासदिवासीदित्युपचर्यते । एषैव ‘असदेवेदमग्र आसीत्’ (छा. उ. ३ । १९ । १) इत्यत्रापि योजना, ‘तत्सदासीत्’ इति समाकर्षणात् ; अत्यन्ताभावाभ्युपगमे हि ‘तत्सदासीत्’ इति किं समाकृष्येत ? ‘तद्धैक आहुरसदेवेदमग्र आसीत्’ (छा. उ. ६ । २ । १) इत्यत्रापि न श्रुत्यन्तराभिप्रायेणायमेकीयमतोपन्यासः, क्रियायामिव वस्तुनि विकल्पस्यासम्भवात् ; तस्माच्छ्रुतिपरिगृहीतसत्पक्षदार्ढ्यायैवायं मन्दमतिपरिकल्पितस्यासत्पक्षस्योपन्यस्य निरास इति द्रष्टव्यम् । ‘तद्धेदं तर्ह्यव्याकृतमासीत्’ (बृ. उ. १ । ४ । ७) इत्यत्रापि न निरध्यक्षस्य जगतो व्याकरणं कथ्यते, ‘स एष इह प्रविष्ट आ नखाग्रेभ्यः’ इत्यध्यक्षस्य व्याकृतकार्यानुप्रवेशित्वेन समाकर्षात् ; निरध्यक्षे व्याकरणाभ्युपगमे ह्यनन्तरेण प्रकृतावलम्बिना स इत्यनेन सर्वनाम्ना कः कार्यानुप्रवेशित्वेन समाकृष्येत ? चेतनस्य चायमात्मनः शरीरेऽनुप्रवेशः श्रूयते, अनुप्रविष्टस्य चेतनत्वश्रवणात् — ‘पश्यँश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनः’ इति ; अपि च यादृशमिदमद्यत्वे नामरूपाभ्यां व्याक्रियमाणं जगत्साध्यक्षं व्याक्रियते, एवमादिसर्गेऽपीति गम्यते, दृष्टविपरीतकल्पनानुपपत्तेः ; श्रुत्यन्तरमपि ‘अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति साध्यक्षामेव जगतो व्याक्रियां दर्शयति ; ‘व्याक्रियत’ इत्यपि कर्मकर्तरि लकारः सत्येव परमेश्वरे व्याकर्तरि सौकर्यमपेक्ष्य द्रष्टव्यः — यथा लूयते केदारः स्वयमेवेति सत्येव पूर्णके लवितरि ; यद्वा कर्मण्येवैष लकारोऽर्थाक्षिप्तं कर्तारमपेक्ष्य द्रष्टव्यः — यथा गम्यते ग्राम इति ॥ १५ ॥