०३ संख्योपसङ्ग्रहाधिकरणम्

११ न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥

एवं परिहृतेऽप्यजामन्त्रे पुनरन्यस्मान्मन्त्रात्सांख्यः प्रत्यवतिष्ठते — ‘यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्’ (बृ. उ. ४ । ४ । १७) इति । अस्मिन्मन्त्रे पञ्च पञ्चजना इति पञ्चसंख्याविषया अपरा पञ्चसंख्या श्रूयते, पञ्चशब्दद्वयदर्शनात् ; त एते पञ्च पञ्चकाः पञ्चविंशतिः सम्पद्यन्ते ; तया च पञ्चविंशतिसंख्यया यावन्तः संख्येया आकाङ्क्ष्यन्ते तावन्त्येव च तत्त्वानि सांख्यैः संख्यायन्ते — ‘मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः’ इति ; तया श्रुतिप्रसिद्धया पञ्चविंशतिसंख्यया तेषां स्मृतिप्रसिद्धानां पञ्चविंशतेस्तत्त्वानामुपसङ्ग्रहात्प्राप्तं पुनः श्रुतिमत्त्वमेव प्रधानादीनाम् ॥

ततो ब्रूमः — न संख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वं प्रत्याशा कर्तव्या । कस्मात् ? नानाभावात् ; नाना ह्येतानि पञ्चविंशतिस्तत्त्वानि ; नैषां पञ्चशः पञ्चशः साधारणो धर्मोऽस्ति, येन पञ्चविंशतेरन्तराले पराः पञ्च पञ्च संख्या निविशेरन् ; न ह्येकनिबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः संख्या निविशन्ते । अथोच्येत — पञ्चविंशतिसंख्यैवेयमवयवद्वारेण लक्ष्यते, यथा ‘पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुः’ इति द्वादशवार्षिकीमनावृष्टिं कथयन्ति, तद्वदिति ; तदपि नोपपद्यते ; अयमेवास्मिन्पक्षे दोषः, यल्लक्षणाश्रयणीया स्यात् । परश्चात्र पञ्चशब्दो जनशब्देन समस्तः पञ्चजनाः इति, भाषिकस्वरेणैकपदत्वनिश्चयात् ; प्रयोगान्तरे च ‘पञ्चानां त्वा पञ्चजनानाम्’ (तै. सं. १ । ६ । २ । २) इत्यैकपद्यैकस्वर्यैकविभक्तिकत्वावगमात् ; समस्तत्वाच्च न वीप्सा ‘पञ्च पञ्च’ इति । तेन न पञ्चकद्वयग्रहणं पञ्च पञ्चेति । न च पञ्चसंख्याया एकस्याः पञ्चसंख्यया परया विशेषणम् ‘पञ्च पञ्चकाः’ इति, उपसर्जनस्य विशेषणेनासंयोगात् । नन्वापन्नपञ्चसंख्याका जना एव पुनः पञ्चसंख्यया विशेष्यमाणाः पञ्चविंशतिः प्रत्येष्यन्ते, यथा पञ्च पञ्चपूल्य इति पञ्चविंशतिः पूलाः प्रतीयन्ते, तद्वत् ; नेति ब्रूमः ; युक्तं यत्पञ्चपूलीशब्दस्य समाहाराभिप्रायत्वात् कतीति सत्यां भेदाकाङ्क्षायां पञ्च पञ्चपूल्य इति विशेषणम् ; इह तु पञ्च जना इत्यादित एव भेदोपादानात्कतीत्यसत्यां भेदाकाङ्क्षायां न पञ्च पञ्चजना इति विशेषणं भवेत् ; भवदपीदं विशेषणं पञ्चसंख्याया एव भवेत् ; तत्र चोक्तो दोषः ; तस्मात्पञ्च पञ्चजना इति न पञ्चविंशतितत्त्वाभिप्रायम् । अतिरेकाच्च न पञ्चविंशतितत्त्वाभिप्रायम् ; अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशतिसंख्यायाः ; आत्मा तावदिह प्रतिष्ठां प्रत्याधारत्वेन निर्दिष्टः, ‘यस्मिन्’ इति सप्तमीसूचितस्य ‘तमेव मन्य आत्मानम्’ इत्यात्मत्वेनानुकर्षणात् ; आत्मा च चेतनः पुरुषः ; स च पञ्चविंशतावन्तर्गत एवेति न तस्यैवाधारत्वमाधेयत्वं च युज्येत ; अर्थान्तरपरिग्रहे वा तत्त्वसंख्यातिरेकः सिद्धान्तविरुद्धः प्रसज्येत ; तथा ‘आकाशश्च प्रतिष्ठितः’ इत्याकाशस्यापि पञ्चविंशतावन्तर्गतस्य न पृथगुपादानं न्याय्यम् ; अर्थान्तरपरिग्रहे चोक्तं दूषणम् । कथं च संख्यामात्रश्रवणे सत्यश्रुतानां पञ्चविंशतितत्त्वानामुपसङ्ग्रहः प्रतीयेत ? जनशब्दस्य तत्त्वेष्वरूढत्वात् , अर्थान्तरोपसङ्ग्रहेऽपि संख्योपपत्तेः । कथं तर्हि पञ्च पञ्चजना इति ? उच्यते — ‘दिक्संख्ये संज्ञायाम्’ (पा. सू. २ । १ । ५०) इति विशेषस्मरणात्संज्ञायामेव पञ्चशब्दस्य जनशब्देन समासः ; ततश्च रूढत्वाभिप्रायेणैव केचित्पञ्चजना नाम विवक्ष्यन्ते, न सांख्यतत्त्वाभिप्रायेण ; ते कतीत्यस्यामाकाङ्क्षायां पुनः पञ्चेति प्रयुज्यते ; पञ्चजना नाम ये केचित् , ते च पञ्चैवेत्यर्थः, सप्तर्षयः सप्तेति यथा ॥ ११ ॥

के पुनस्ते पञ्चजना नामेति, तदुच्यते —

१२ प्राणादयो वाक्यशेषात् ॥

‘यस्मिन्पञ्च पञ्चजनाः’ इत्यत उत्तरस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणाय प्राणादयः पञ्च निर्दिष्टाः — ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुः’ इति ; तेऽत्र वाक्यशेषगताः सन्निधानात्पञ्चजना विवक्ष्यन्ते । कथं पुनः प्राणादिषु जनशब्दप्रयोगः ? तत्त्वेषु वा कथं जनशब्दप्रयोगः ? समाने तु प्रसिद्ध्यतिक्रमे वाक्यशेषवशात्प्राणादय एव ग्रहीतव्या भवन्ति ; जनसम्बन्धाच्च प्राणादयो जनशब्दभाजो भवन्ति ; जनवचनश्च पुरुषशब्दः प्राणेषु प्रयुक्तः — ‘ते वा एते पञ्च ब्रह्मपुरुषाः’ (छा. उ. ३ । १३ । ६) इत्यत्र ; ‘प्राणो ह पिता प्राणो ह माता’ (छा. उ. ७ । १५ । १) इत्यादि च ब्राह्मणम् । समासबलाच्च समुदायस्य रूढत्वमविरुद्धम् । कथं पुनरसति प्रथमप्रयोगे रूढिः शक्याश्रयितुम् ? शक्या उद्भिदादिवदित्याह — प्रसिद्धार्थसन्निधाने ह्यप्रसिद्धार्थः शब्दः प्रयुज्यमानः समभिव्याहारात्तद्विषयो नियम्यते ; यथा ‘उद्भिदा यजेत’ ‘यूपं छिनत्ति’ ‘वेदिं करोति’ इति, तथा अयमपि पञ्चजनशब्दः समासान्वाख्यानादवगतसंज्ञाभावः संज्ञ्याकाङ्क्षी वाक्यशेषसमभिव्याहृतेषु प्राणादिषु वर्तिष्यते । कैश्चित्तु देवाः पितरो गन्धर्वा असुरा रक्षांसि च पञ्च पञ्चजना व्याख्याताः ; अन्यैश्च चत्वारो वर्णा निषादपञ्चमाः परिगृहीताः ; क्वचिच्च ‘यत्पाञ्चजन्यया विशा’ (ऋ. सं. ८ । ५३ । ९) इति प्रजापरः प्रयोगः पञ्चजनशब्दस्य दृश्यते ; तत्परिग्रहेऽपीह न कश्चिद्विरोधः ; आचार्यस्तु न पञ्चविंशतेस्तत्त्वानामिह प्रतीतिरस्तीत्येवंपरतया ‘प्राणादयो वाक्यशेषात्’ इति जगाद ॥ १२ ॥

भवेयुस्तावत्प्राणादयः पञ्चजना माध्यन्दिनानाम् , येऽन्नं प्राणादिष्वामनन्ति ; काण्वानां तु कथं प्राणादयः पञ्चजना भवेयुः, येऽन्नं प्राणादिषु नामनन्तीति — अत उत्तरं पठति —

१३ ज्योतिषैकेषामसत्यन्ने ॥

असत्यपि काण्वानामन्ने ज्योतिषा तेषां पञ्चसंख्या पूर्येत ; तेऽपि हि ‘यस्मिन्पञ्च पञ्चजनाः’ इत्यतः पूर्वस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणायैव ज्योतिरधीयते ‘तद्देवा ज्योतिषां ज्योतिः’ इति । कथं पुनरुभयेषामपि तुल्यवदिदं ज्योतिः पठ्यमानं समानमन्त्रगतया पञ्चसंख्यया केषाञ्चिद्गृह्यते केषाञ्चिन्नेति — अपेक्षाभेदादित्याह — माध्यन्दिनानां हि समानमन्त्रपठितप्राणादिपञ्चजनलाभान्नास्मिन्मन्त्रान्तरपठिते ज्योतिष्यपेक्षा भवति ; तदलाभात्तु काण्वानां भवत्यपेक्षा ; अपेक्षाभेदाच्च समानेऽपि मन्त्रे ज्योतिषो ग्रहणाग्रहणे ; यथा समानेऽप्यतिरात्रे वचनभेदात्षोडशिनो ग्रहणाग्रहणे, तद्वत् । तदेवं न तावच्छ्रुतिप्रसिद्धिः काचित्प्रधानविषयास्ति ; स्मृतिन्यायप्रसिद्धी तु परिहरिष्येते ॥ १३ ॥