०२ चमसाधिकरणम्

०८ चमसवदविशेषात् ॥

पुनरपि प्रधानवादी अशब्दत्वं प्रधानस्यासिद्धमित्याह । कस्मात् ? मन्त्रवर्णात् — ‘अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’ (श्वे. उ. ४ । ५) इति ; अत्र हि मन्त्रे लोहितशुक्लकृष्णशब्दैः रजःसत्त्वतमांस्यभिधीयन्ते ; लोहितं रजः, रञ्जनात्मकत्वात् , शुक्लं सत्त्वम् , प्रकाशात्मकत्वात् ; कृष्णं तमः, आवरणात्मकत्वात् ; तेषां साम्यावस्था अवयवधर्मैर्व्यपदिश्यते — लोहितशुक्लकृष्णेति ; न जायत इति च अजा स्यात् , ‘मूलप्रकृतिरविकृतिः’ इत्यभ्युपगमात् । नन्वजाशब्दश्छाग्यां रूढः ; बाढम् ; सा तु रूढिरिह नाश्रयितुं शक्या, विद्याप्रकरणात् । सा च बह्वीः प्रजास्त्रैगुण्यान्विता जनयति ; तां प्रकृतिमज एकः पुरुषो जुषमाणः प्रीयमाणः सेवमानो वा अनुशेते — तामेवाविद्यया आत्मत्वेनोपगम्य सुखी दुःखी मूढोऽहमित्यविवेकितया संसरति ; अन्यः पुनरजः पुरुष उत्पन्नविवेकज्ञानो विरक्तो जहात्येनं प्रकृतिं भुक्तभोगां कृतभोगापवर्गां परित्यजति — मुच्यत इत्यर्थः । तस्माच्छ्रुतिमूलैव प्रधानादिकल्पना कापिलानामित्येवं प्राप्ते ब्रूमः —

नानेन मन्त्रेण श्रुतिमत्त्वं सांख्यवादस्य शक्यमाश्रयितुम् ; न ह्ययं मन्त्रः स्वातन्त्र्येण कञ्चिदपि वादं समर्थयितुमुत्सहते, सर्वत्रापि यया कयाचित्कल्पनया अजात्वादिसम्पादनोपपत्तेः, सांख्यवाद एवेहाभिप्रेत इति विशेषावधारणकारणाभावात् । चमसवत् — यथा हि ‘अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः’ (बृ. उ. २ । २ । ३) इत्यस्मिन्मन्त्रे स्वातन्त्र्येणायं नामासौ चमसोऽभिप्रेत इति न शक्यते नियन्तुम् , सर्वत्रापि यथाकथञ्चिदर्वाग्बिलत्वादिकल्पनोपपत्तेः, एवमिहाप्यविशेषः ‘अजामेकाम्’ इत्यस्य मन्त्रस्य ; नास्मिन्मन्त्रे प्रधानमेवाजाभिप्रेतेति शक्यते नियन्तुम् ॥ ८ ॥

तत्र तु ‘इदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः’ इति वाक्यशेषाच्चमसविशेषप्रतिपत्तिर्भवति ; इह पुनः केयमजा प्रतिपत्तव्येत्यत्र ब्रूमः —

०९ ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥

परमेश्वरादुत्पन्ना ज्योतिःप्रमुखा तेजोबन्नलक्षणा चतुर्विधस्य भूतग्रामस्य प्रकृतिभूतेयमजा प्रतिपत्तव्या । तुशब्दोऽवधारणार्थः — भूतत्रयलक्षणैवेयमजा विज्ञेया, न गुणत्रयलक्षणा । कस्मात् ? तथा ह्येके शाखिनस्तेजोबन्नानां परमेश्वरादुत्पत्तिमाम्नाय तेषामेव रोहितादिरूपतामामनन्ति — ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य’ इति । तान्येवेह तेजोबन्नानि प्रत्यभिज्ञायन्ते, रोहितादिशब्दसामान्यात् , रोहितादीनां च शब्दानां रूपविशेषेषु मुख्यत्वाद्भाक्तत्वाच्च गुणविषयत्वस्य ; असन्दिग्धेन च सन्दिग्धस्य निगमनं न्याय्यं मन्यन्ते । तथेहापि ‘ब्रह्मवादिनो वदन्ति । किङ्कारणं ब्रह्म’ (श्वे. उ. १ । १) इत्युपक्रम्य ‘ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम्’ (श्वे. उ. १ । ३) इति पारमेश्वर्याः शक्तेः समस्तजगद्विधायिन्या वाक्योपक्रमेऽवगमात् , वाक्यशेषेऽपि ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ इति ‘यो योनिं योनिमधितिष्ठत्येकः’ (श्वे. उ. ४ । ११) इति च तस्या एवावगमान्न स्वतन्त्रा काचित्प्रकृतिः प्रधानं नामाजामन्त्रेणाम्नायत इति शक्यते वक्तुम् । प्रकरणात्तु सैव दैवी शक्तिरव्याकृतनामरूपा नामरूपयोः प्रागवस्था अनेनापि मन्त्रेणाम्नायत इत्युच्यते ; तस्याश्च स्वविकारविषयेण त्रैरूप्येण त्रैरूप्यमुक्तम् ॥ ९ ॥

कथं पुनस्तेजोबन्नात्मना त्रैरूप्येण त्रिरूपा अजा प्रतिपत्तुं शक्यते, यावता न तावत्तेजोबन्नेष्वजाकृतिरस्ति, न च तेजोबन्नानां जातिश्रवणादजातिनिमित्तोऽप्यजाशब्दः सम्भवतीति ; अत उत्तरं पठति —

१० कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥

नायमजाकृतिनिमित्तोऽजाशब्दः ; नापि यौगिकः । किं तर्हि ? कल्पनोपदेशोऽयम् — अजारूपककॢप्तिस्तेजोबन्नलक्षणायाश्चराचरयोनेरुपदिश्यते ; यथा हि लोके यदृच्छया काचिदजा रोहितशुक्लकृष्णवर्णा स्याद्बहुबर्करा सरूपबर्करा च, तां च कश्चिदजो जुषमाणोऽनुशयीत, कश्चिच्चैनां भुक्तभोगां जह्यात् — एवमियमपि तेजोबन्नलक्षणा भूतप्रकृतिस्त्रिवर्णा बहु सरूपं चराचरलक्षणं विकारजातं जनयति, अविदुषा च क्षेत्रज्ञेनोपभुज्यते, विदुषा च परित्यज्यत इति । न चेदमाशङ्कितव्यम् — एकः क्षेत्रज्ञोऽनुशेते अन्यो जहातीत्यतः क्षेत्रज्ञभेदः पारमार्थिकः परेषामिष्टः प्राप्नोतीति ; न हीयं क्षेत्रज्ञभेदप्रतिपिपादयिषा ; किन्तु बन्धमोक्षव्यवस्थाप्रतिपिपादयिषैवैषा ; प्रसिद्धं तु भेदमनूद्य बन्धमोक्षव्यवस्था प्रतिपाद्यते ; भेदस्तूपाधिनिमित्तो मिथ्याज्ञानकल्पितः ; न पारमार्थिकः, ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. उ. ६ । ११) इत्यादिश्रुतिभ्यः । मध्वादिवत् — यथा आदित्यस्यामधुनो मधुत्वम्, वाचश्चाधेनोर्धेनुत्वम् , ‘द्युलोकादीनां चानग्नीनामग्नित्वम्’ — इत्येवंजातीयकं कल्प्यते, एवमिदमनजाया अजात्वं कल्प्यत इत्यर्थः । तस्मादविरोधस्तेजोबन्नेष्वजाशब्दप्रयोगस्य ॥ १० ॥