४१ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥
‘आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा’ (छा. उ. ८ । १४ । १) इति श्रूयते । तत्किमाकाशशब्दं परं ब्रह्म, किं वा प्रसिद्धमेव भूताकाशमिति विचारे — भूतपरिग्रहो युक्तः ; आकाशशब्दस्य तस्मिन् रूढत्वात् ; नामरूपनिर्वहणस्य चावकाशदानद्वारेण तस्मिन्योजयितुं शक्यत्वात् ; स्रष्टृत्वादेश्च स्पष्टस्य ब्रह्मलिङ्गस्याश्रवणादित्येवं प्राप्ते इदमुच्यते —
परमेव ब्रह्म इहाकाशशब्दं भवितुमर्हति । कस्मात् ? अर्थान्तरत्वादि व्यपदेशात् । ‘ते यदन्तरा तद्ब्रह्म’ इति हि नामरूपाभ्यामर्थान्तरभूतमाकाशं व्यपदिशति ; न च ब्रह्मणोऽन्यन्नामरूपाभ्यामर्थान्तरं सम्भवति, सर्वस्य विकारजातस्य नामरूपाभ्यामेव व्याकृतत्वात् ; नामरूपयोरपि निर्वहणं निरङ्कुशं न ब्रह्मणोऽन्यत्र सम्भवति, ‘अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति ब्रह्मकर्तृकत्वश्रवणात् । ननु जीवस्यापि प्रत्यक्षं नामरूपविषयं निर्वोढृत्वमस्ति ; बाढमस्ति ; अभेदस्त्विह विवक्षितः । नामरूपनिर्वहणाभिधानादेव च स्रष्टृत्वादि ब्रह्मलिङ्गमभिहितं भवति । ‘तद्ब्रह्म तदमृतं स आत्मा’ (छा. उ. ८ । १४ । १) इति च ब्रह्मवादस्य लिङ्गानि । ‘आकाशस्तल्लिङ्गात्’ (ब्र. सू. १ । १ । २२) इत्यस्यैवायं प्रपञ्चः ॥ ४१ ॥