२४ शब्दादेव प्रमितः ॥
‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति’ इति श्रूयते ; तथा ‘अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत्’ (क. उ. २ । १ । १३) इति च । तत्र योऽयमङ्गुष्ठमात्रः पुरुषः श्रूयते, स किं विज्ञानात्मा, किं वा परमात्मेति संशयः । तत्र परिमाणोपदेशाद्विज्ञानात्मेति तावत्प्राप्तम् । न ह्यनन्तायामविस्तारस्य परमात्मनोऽङ्गुष्ठपरिमाणत्वमुपपद्यते ; विज्ञानात्मनस्तूपाधिमत्त्वात्सम्भवति कयाचित्कल्पनयाङ्गुष्ठमात्रत्वम् । स्मृतेश्च — ‘अथ सत्यवतः कायात्पाशबद्धं वशं गतम् । अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्’ (म. भा. ३ । २९७ । १७) इति ; न हि परमेश्वरो बलात् यमेन निष्क्रष्टुं शक्यः ; तेन तत्र संसारी अङ्गुष्ठमात्रो निश्चितः ; स एवेहापीत्येवं प्राप्ते ब्रूमः —
परमात्मैवायमङ्गुष्ठमात्रपरिमितः पुरुषो भवितुमर्हति । कस्मात् ? शब्दात् — ‘ईशानो भूतभव्यस्य’ इति । न ह्यन्यः परमेश्वराद्भूतभव्यस्य निरङ्कुशमीशिता । ‘एतद्वै तत्’ इति च प्रकृतं पृष्टमिहानुसन्दधाति ; एतद्वै तत् , यत्पृष्टं ब्रह्मेत्यर्थः ; पृष्टं चेह ब्रह्म — ‘अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १ । २ । १४) इति । शब्दादेवेति — अभिधानश्रुतेरेव — ईशान इति परमेश्वरोऽवगम्यत इत्यर्थः ॥ २४ ॥
कथं पुनः सर्वगतस्य परमात्मनः परिमाणोपदेश इत्यत्र ब्रूमः —
२५ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥
सर्वगतस्यापि परमात्मनो हृदयेऽवस्थानमपेक्ष्याङ्गुष्ठमात्रत्वमिदमुच्यते ; आकाशस्येव वंशपर्वापेक्षमरत्निमात्रत्वम् । न ह्यञ्जसा अतिमात्रस्य परमात्मनोऽङ्गुष्ठमात्रत्वमुपपद्यते । न चान्यः परमात्मन इह ग्रहणमर्हति ईशानशब्दादिभ्य इत्युक्तम् । ननु प्रतिप्राणिभेदं हृदयानामनवस्थितत्वात्तदपेक्षमप्यङ्गुष्ठमात्रत्वं नोपपद्यत इत्यत उत्तरमुच्यते — मनुष्याधिकारत्वादिति ; ‘शास्त्रं ह्यविशेषप्रवृत्तमपि मनुष्यानेवाधिकरोति ; शक्तत्वात् , अर्थित्वात् , अपर्युदस्तत्वात् उपनयनादिशास्त्राच्च — इति वर्णितमेतदधिकारलक्षणे’ (जै. सू. ६ । १) । मनुष्याणां च नियतपरिमाणः कायः ; औचित्येन नियतपरिमाणमेव चैषामङ्गुष्ठमात्रं हृदयम् ; अतो मनुष्याधिकारत्वाच्छास्त्रस्य मनुष्यहृदयावस्थानापेक्षमङ्गुष्ठमात्रत्वमुपपन्नं परमात्मनः । यदप्युक्तम् — परिमाणोपदेशात् स्मृतेश्च संसार्येवायमङ्गुष्ठमात्रः प्रत्येतव्य इति ; तत्प्रत्युच्यते — ‘स आत्मा तत्त्वमसि’ इत्यादिवत् संसारिण एव सतोऽङ्गुष्ठमात्रस्य ब्रह्मत्वमिदमुपदिश्यत इति । द्विरूपा हि वेदान्तवाक्यानां प्रवृत्तिः — क्वचित्परमात्मस्वरूपनिरूपणपरा ; क्वचिद्विज्ञानात्मनः परमात्मैकत्वोपदेशपरा । तदत्र विज्ञानात्मनः परमात्मनैकत्वमुपदिश्यते ; नाङ्गुष्ठमात्रत्वं कस्यचित् । एतमेवार्थं परेण स्फुटीकरिष्यति — ‘अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतम्’ (क. उ. २ । ३ । १७) इति ॥ २५ ॥