०६ अनुकृत्यधिकरणम्

२२ अनुकृतेस्तस्य च ॥

‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ (मु. उ. २ । २ । ११) इति समामनन्ति । तत्र यं भान्तमनुभाति सर्वं यस्य च भासा सर्वमिदं विभाति, स किं तेजोधातुः कश्चित् , उत प्राज्ञ आत्मेति विचिकित्सायां तेजोधातुरिति तावत्प्राप्तम् । कुतः ? तेजोधातूनामेव सूर्यादिनां भानप्रतिषेधात् । तेजःस्वभावकं हि चन्द्रतारकादि तेजःस्वभावक एव सूर्ये भासमाने अहनि न भासत इति प्रसिद्धम् । तथा सह सूर्येण सर्वमिदं चन्द्रतारकादि यस्मिन्न भासते, सोऽपि तेजःस्वभाव एव कश्चिदित्यवगम्यते । अनुभानमपि तेजःस्वभावक एवोपपद्यते, समानस्वभावकेष्वनुकारदर्शनात् ; ‘गच्छन्तमनुगच्छति’ इतिवत् । तस्मात्तेजोधातुः कश्चिदित्येवं प्राप्ते ब्रूमः —

प्राज्ञ एवायमात्मा भवितुमर्हति । कस्मात् ? अनुकृतेः ; अनुकरणमनुकृतिः ; यदेतत् ‘तमेव भान्तमनुभाति सर्वम्’ इत्यनुभानम् , तत्प्राज्ञपरिग्रहेऽवकल्पते ; ‘भारूपः सत्यसङ्कल्पः’ (छा. उ. ३ । १४ । २) इति हि प्राज्ञमात्मानमामनन्ति ; न तु तेजोधातुं कञ्चित्सूर्यादयोऽनुभान्तीति प्रसिद्धम् ; समत्वाच्च तेजोधातूनां सूर्यादीनां न तेजोधातुमन्यं प्रत्यपेक्षास्ति, यं भान्तमनुभायुः ; न हि प्रदीपः प्रदीपान्तरमनुभाति । यदप्युक्तं समानस्वभावकेष्वनुकारो दृश्यत इति — नायमेकान्तो नियमः ; भिन्नस्वभावकेष्वपि ह्यनुकारो दृश्यते ; यथा सुतप्तोऽयःपिण्डोऽग्न्यनुकृतिरग्निं दहन्तमनुदहति, भौमं वा रजो वायुं वहन्तमनुवहतीति । ‘अनुकृतेः’ इत्यनुभानमसुसूचत् । ‘तस्य च’ इति चतुर्थं पादमस्य श्लोकस्य सूचयति । ‘तस्य भासा सर्वमिदं विभाति’ इति च तद्धेतुकं भानं सूर्यादेरुच्यमानं प्राज्ञमात्मानं गमयति । ‘तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्’ (बृ. उ. ४ । ४ । १६) इति हि प्राज्ञमात्मानमामनन्ति । तेजोन्तरेण तु सूर्यादितेजो विभातीत्यप्रसिद्धम् , विरुद्धं च ; तेजोन्तरेण तेजोन्तरस्य प्रतिघातात् । अथवा न सूर्यादीनामेव श्लोकपरिपठितानामिदं तद्धेतुकं विभानमुच्यते । किं तर्हि ? ‘सर्वमिदम्’ इत्यविशेषश्रुतेः सर्वस्यैवास्य नामरूपक्रियाकारकफलजातस्य या अभिव्यक्तिः, सा ब्रह्मज्योतिःसत्तानिमित्ता ; यथा सूर्यज्योतिःसत्तानिमित्ता सर्वस्य रूपजातस्याभिव्यक्तिः, तद्वत् । ‘न तत्र सूर्यो भाति’ इति च तत्रशब्दमाहरन्प्रकृतग्रहणं दर्शयति ; प्रकृतं च ब्रह्म ‘यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतम्’ (मु. उ. २ । २ । ५) इत्यादिना ; अनन्तरं च ‘हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः’ इति ; कथं तज्ज्योतिषां ज्योतिरित्यत इदमुत्थितम् — ‘न तत्र सूर्यो भाति’ इति । यदप्युक्तम् सूर्यादीनां तेजसां भानप्रतिषेधस्तेजोधातावेवान्यस्मिन्नवकल्पते, सूर्य इवेतरेषामिति ; तत्र तु स एव तेजोधातुरन्यो न सम्भवतीत्युपपादितम् । ब्रह्मण्यपि चैषां भानप्रतिषेधोऽवकल्पते ; यतः — यदुपलभ्यते तत्सर्वं ब्रह्मणैव ज्योतिषोपलभ्यते ; ब्रह्म तु नान्येन ज्योतिषोपलभ्यते, स्वयंज्योतिःस्वरूपत्वात् , येन सूर्यादयस्तस्मिन्भायुः ; ब्रह्म हि अन्यद्व्यनक्ति, न तु ब्रह्मान्येन व्यज्यते, ‘आत्मनैवायं ज्योतिषास्ते’ (बृ. उ. ४ । ३ । ६) ‘अगृह्यो न हि गृह्यते’ (बृ. उ. ४ । २ । ४) इत्यादिश्रुतिभ्यः ॥ २२ ॥

२३ अपि च स्मर्यते ॥

अपि चेदृग्रूपत्वं प्राज्ञस्यैवात्मनः स्मर्यते भगवद्गीतासु — ‘न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम’ (भ. गी. १५ । ६) इति । ‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्’ (भ. गी. १५ । १२) इति च ॥ २३ ॥