०५ दहराधिकरणम्

१४ दहर उत्तरेभ्यः ॥

‘अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’ (छा. उ. ८ । १ । १) इत्यादि वाक्यं समाम्नायते । तत्र योऽयं दहरे हृदयपुण्डरीके दहर आकाशः श्रुतः, स किं भूताकाशः, अथ विज्ञानात्मा, अथवा परमात्मेति संशय्यते । कुतः संशयः ? आकाशब्रह्मपुरशब्दाभ्याम् । आकाशशब्दो ह्ययं भूताकाशे परस्मिंश्च ब्रह्मणि प्रयुज्यमानो दृश्यते । तत्र किं भूताकाश एव दहरः स्यात् , किं वा पर इति संशयः । तथा ब्रह्मपुरमिति — किं जीवोऽत्र ब्रह्मनामा, तस्येदं पुरं शरीरं ब्रह्मपुरम् , अथवा परस्यैव ब्रह्मणः पुरं ब्रह्मपुरमिति । तत्र जीवस्य परस्य वान्यतरस्य पुरस्वामिनो दहराकाशत्वे संशयः । तत्राकाशशब्दस्य भूताकाशे रूढत्वाद्भूताकाश एव दहरशब्द इति प्राप्तम् ; तस्य च दहरायतनापेक्षया दहरत्वम् ; ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः’ इति च बाह्याभ्यन्तरभावकृतभेदस्योपमानोपमेयभावः ; द्यावापृथिव्यादि च तस्मिन्नन्तःसमाहितम् , अवकाशात्मनाकाशस्यैकत्वात् । अथवा जीवो दहर इति प्राप्तम् , ब्रह्मपुरशब्दात् ; जीवस्य हीदं पुरं सत् शरीरं ब्रह्मपुरमित्युच्यते, तस्य स्वकर्मणोपार्जितत्वात् ; भक्त्या च तस्य ब्रह्मशब्दवाच्यत्वम् ; न हि परस्य ब्रह्मणः शरीरेण स्वस्वामिभावः सम्बन्धोऽस्ति ; तत्र पुरस्वामिनः पुरैकदेशेऽवस्थानं दृष्टम् , यथा राज्ञः ; मनउपाधिकश्च जीवः ; मनश्च प्रायेण हृदये प्रतिष्ठितम् — इत्यतो जीवस्यैवेदं हृदयान्तरवस्थानं स्यात् ; दहरत्वमपि तस्यैव आराग्रोपमितत्वात् अवकल्पते ; आकाशोपमितत्वादि च ब्रह्माभेदविवक्षया भविष्यति ; न चात्र दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वं च श्रूयते ; ‘तस्मिन्यदन्तः’ इति परविशेषणत्वेनोपादानादिति ॥

अत उत्तरं ब्रूमः — परमेश्वर एवात्र दहराकाशो भवितुमर्हति, न भूताकाशो जीवो वा । कस्मात् ? उत्तरेभ्यः वाक्यशेषगतेभ्यो हेतुभ्यः । तथाहि — अन्वेष्टव्यतयाभिहितस्य दहराकाशस्य ‘तं चेद्ब्रूयुः’ इत्युपक्रम्य ‘किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यम्’ इत्येवमाक्षेपपूर्वकं प्रतिसमाधानवचनं भवति — ‘स ब्रूयाद्यावान्वा’ (छा. उ. ८ । १ । २) ‘अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते’ (छा. उ. ८ । १ । ३) इत्यादि । तत्र पुण्डरीकदहरत्वेन प्राप्तदहरत्वस्याकाशस्य प्रसिद्धाकाशौपम्येन दहरत्वं निवर्तयन् भूताकाशत्वं दहरस्याकाशस्य निवर्तयतीति गम्यते । यद्यप्याकाशशब्दो भूताकाशे रूढः, तथापि तेनैव तस्योपमा नोपपद्यत इति भूताकाशशङ्का निवर्तिता भवति । नन्वेकस्याप्याकाशस्य बाह्याभ्यन्तरत्वकल्पितेन भेदेनोपमानोपमेयभावः सम्भवतीत्युक्तम् । नैवं सम्भवति ; अगतिका हीयं गतिः, यत्काल्पनिकभेदाश्रयणम् । अपि च कल्पयित्वापि भेदमुपमानोपमेयभावं वर्णयतः परिच्छिन्नत्वादभ्यन्तराकाशस्य न बाह्याकाशपरिमाणत्वमुपपद्येत । ननु परमेश्वरस्यापि ‘ज्यायानाकाशात्’ (श. ब्रा. १० । ६ । ३ । २) इति श्रुत्यन्तरात् नैवाकाशपरिमाणत्वमुपपद्यते । नैष दोषः ; पुण्डरीकवेष्टनप्राप्तदहरत्वनिवृत्तिपरत्वाद्वाक्यस्य न तावत्त्वप्रतिपादनपरत्वम् ; उभयप्रतिपादने हि वाक्यं भिद्येत । न च कल्पितभेदे पुण्डरीकवेष्टित आकाशैकदेशे द्यावापृथिव्यादीनामन्तः समाधानमुपपद्यते । ‘एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः’ इति चात्मत्वापहतपाप्मत्वादयश्च गुणा न भूताकाशे सम्भवन्ति । यद्यप्यात्मशब्दो जीवे सम्भवति, तथापीतरेभ्यः कारणेभ्यो जीवाशङ्कापि निवर्तिता भवति । न ह्युपाधिपरिच्छिन्नस्याराग्रोपमितस्य जीवस्य पुण्डरीकवेष्टनकृतं दहरत्वं शक्यं निवर्तयितुम् । ब्रह्माभेदविवक्षया जीवस्य सर्वगतत्वादि विवक्ष्येतेति चेत् ; यदात्मतया जीवस्य सर्वगतत्वादि विवक्ष्येत, तस्यैव ब्रह्मणः साक्षात्सर्वगतत्वादि विवक्ष्यतामिति युक्तम् । यदप्युक्तम् — ‘ब्रह्मपुरम्’ इति जीवेन पुरस्योपलक्षितत्वाद्राज्ञ इव जीवस्यैवेदं पुरस्वामिनः पुरैकदेशवर्तित्वमस्त्विति ; अत्र ब्रूमः — परस्यैवेदं ब्रह्मणः पुरं सत् शरीरं ब्रह्मपुरमित्युच्यते, ब्रह्मशब्दस्य तस्मिन्मुख्यत्वात् । तस्याप्यस्ति पुरेणानेन सम्बन्धः, उपलब्ध्यधिष्ठानत्वात् — ‘स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते’ (प्र. उ. ५ । ५) ‘स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः’ (बृ. उ. २ । ५ । १८) इत्यादिश्रुतिभ्यः । अथवा जीवपुर एवास्मिन् ब्रह्म सन्निहितमुपलक्ष्यते, यथा सालग्रामे विष्णुः सन्निहित इति, तद्वत् । ‘तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८ । १ । ६) इति च कर्मणामन्तवत्फलत्वमुक्त्वा, ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति’ इति प्रकृतदहराकाशविज्ञानस्यानन्तफलत्वं वदन् , परमात्मत्वमस्य सूचयति । यदप्येतदुक्तम् — न दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वं च श्रुतं परविशेषणत्वेनोपादानादिति ; अत्र ब्रूमः — यद्याकाशो नान्वेष्टव्यत्वेनोक्तः स्यात् ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः’ इत्याद्याकाशस्वरूपप्रदर्शनं नोपपद्येत । नन्वेतदप्यन्तर्वर्तिवस्तुसद्भावप्रदर्शनायैव प्रदर्श्यते, ‘तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यम्’ इत्याक्षिप्य परिहारावसरे आकाशौपम्योपक्रमेण द्यावापृथिव्यादीनामन्तःसमाहितत्वप्रदर्शनात् । नैतदेवम् ; एवं हि सति यदन्तःसमाहितं द्यावापृथिव्यादि, तदन्वेष्टव्यं विजिज्ञासितव्यं चोक्तं स्यात् ; तत्र वाक्यशेषो नोपपद्येत ; ‘अस्मिन्कामाः समाहिताः’ ‘एष आत्मापहतपाप्मा’ इति हि प्रकृतं द्यावापृथिव्यादिसमाधानाधारमाकाशमाकृष्य ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्’ इति समुच्चयार्थेन चशब्देनात्मानं कामाधारम् आश्रितांश्च कामान् विज्ञेयान् वाक्यशेषो दर्शयति । तस्माद्वाक्योपक्रमेऽपि दहर एवाकाशो हृदयपुण्डरीकाधिष्ठानः सहान्तःस्थैः समाहितैः पृथिव्यादिभिः सत्यैश्च कामैर्विज्ञेय उक्त इति गम्यते । स चोक्तेभ्यो हेतुभ्यः परमेश्वर इति स्थितम् ॥ १४ ॥

१५ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥

दहरः परमेश्वर उत्तरेभ्यो हेतुभ्य इत्युक्तम् ; त एवोत्तरे हेतव इदानीं प्रपञ्च्यन्ते । इतश्च परमेश्वर एव दहरः ; यस्माद्दहरवाक्यशेषे परमेश्वरस्यैव प्रतिपादकौ गतिशब्दौ भवतः — ‘इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ (छा. उ. ८ । ३ । २) इति । तत्र प्रकृतं दहरं ब्रह्मलोकशब्देनाभिधाय तद्विषया गतिः प्रजाशब्दवाच्यानां जीवानामभिधीयमाना दहरस्य ब्रह्मतां गमयति । तथा ह्यहरहर्जीवानां सुषुप्तावस्थायां ब्रह्मविषयं गमनं दृष्टं श्रुत्यन्तरे — ‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) इत्येवमादौ । लोकेऽपि किल गाढं सुषुप्तमाचक्षते ‘ब्रह्मीभूतो ब्रह्मतां गतः’ इति । तथा ब्रह्मलोकशब्दोऽपि प्रकृते दहरे प्रयुज्यमानो जीवभूताकाशाशङ्कां निवर्तयन्ब्रह्मतामस्य गमयति । ननु कमलासनलोकमपि ब्रह्मलोकशब्दो गमयेत् । गमयेद्यदि ब्रह्मणो लोक इति षष्ठीसमासवृत्त्या व्युत्पाद्येत ; सामानाधिकरण्यवृत्त्या तु व्युत्पाद्यमानो ब्रह्मैव लोको ब्रह्मलोक इति परमेव ब्रह्म गमयिष्यति । एतदेव चाहरहर्ब्रह्मलोकगमनं दृष्टं ब्रह्मलोकशब्दस्य सामानाधिकरण्यवृत्तिपरिग्रहे लिङ्गम् । न ह्यहरहरिमाः प्रजाः कार्यब्रह्मलोकं सत्यलोकाख्यं गच्छन्तीति शक्यं कल्पयितुम् ॥ १५ ॥

१६ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥

धृतेश्च हेतोः परमेश्वर एवायं दहरः । कथम् ? ‘दहरोऽस्मिन्नन्तराकाशः’ इति हि प्रकृत्य आकाशौपम्यपूर्वकं तस्मिन्सर्वसमाधानमुक्त्वा तस्मिन्नेव चात्मशब्दं प्रयुज्यापहतपाप्मत्वादिगुणयोगं चोपदिश्य तमेवानतिवृत्तप्रकरणं निर्दिशति — ‘अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय’ (छा. उ. ८ । ४ । १) इति । तत्र विधृतिरित्यात्मशब्दसामानाधिकरण्याद्विधारयितोच्यते ; क्तिचः कर्तरि स्मरणात् । यथोदकसन्तानस्य विधारयिता लोके सेतुः क्षेत्रसम्पदामसम्भेदाय, एवमयमात्मा एषामध्यात्मादिभेदभिन्नानां लोकानां वर्णाश्रमादीनां च विधारयिता सेतुः, असम्भेदाय असङ्करायेति । एवमिह प्रकृते दहरे विधारणलक्षणं महिमानं दर्शयति । अयं च महिमा परमेश्वर एव श्रुत्यन्तरादुपलभ्यते — ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इत्यादेः । तथान्यत्रापि निश्चिते परमेश्वरवाक्ये श्रूयते — ‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय’ इति । एवं धृतेश्च हेतोः परमेश्वर एवायं दहरः ॥ १६ ॥

१७ प्रसिद्धेश्च ॥

इतश्च परमेश्वर एव ‘दहरोऽस्मिन्नन्तराकाशः’ इत्युच्यते ; यत्कारणमाकाशशब्दः परमेश्वरे प्रसिद्धः — ‘आकाशो वै नाम नामरूपयोर्निर्वहिता’ (छा. उ. ८ । १४ । १) ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’ (छा. उ. १ । ९ । १) इत्यादिप्रयोगदर्शनात् । जीवे तु न क्वचिदाकाशशब्दः प्रयुज्यमानो दृश्यते । भूताकाशस्तु सत्यामप्याकाशशब्दप्रसिद्धौ उपमानोपमेयभावाद्यसम्भवान्न ग्रहीतव्य इत्युक्तम् ॥ १७ ॥

१८ इतरपरामर्शात्स इति चेन्नासम्भवात् ॥

यदि वाक्यशेषबलेन दहर इति परमेश्वरः परिगृह्येत, अस्ति हीतरस्यापि जीवस्य वाक्यशेषे परामर्शः — ‘अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाच’ (छा. उ. ८ । ३ । ४) इति ; अत्र हि सम्प्रसादशब्दः श्रुत्यन्तरे सुषुप्तावस्थायां दृष्टत्वात्तदवस्थावन्तं जीवं शक्नोत्युपस्थापयितुम् , नार्थान्तरम् ; तथा शरीरव्यपाश्रयस्यैव जीवस्य शरीरात्समुत्थानं सम्भवति, यथाकाशव्यपाश्रयाणां वाय्वादीनामाकाशात्समुत्थानम् , तद्वत् ; यथा चादृष्टोऽपि लोके परमेश्वरविषय आकाशशब्दः परमेश्वरधर्मसमभिव्याहारात् ‘आकाशो वै नाम नामरूपयोर्निर्वहिता’ (छा. उ. ८ । १४ । १) इत्येवमादौ परमेश्वरविषयोऽभ्युपगतः, एवं जीवविषयोऽपि भविष्यति ; तस्मादितरपरामर्शात् ‘दहरोऽस्मिन्नन्तराकाशः’ इत्यत्र स एव जीव उच्यत इति चेत् — नैतदेवं स्यात् । कस्मात् ? असम्भवात् । न हि जीवो बुद्ध्याद्युपाधिपरिच्छेदाभिमानी सन् आकाशेनोपमीयेत । न चोपाधिधर्मानभिमन्यमानस्यापहतपाप्मत्वादयो धर्माः सम्भवन्ति । प्रपञ्चितं चैतत्प्रथमसूत्रे । अतिरेकाशङ्कापरिहाराय अत्र तु पुनरुपन्यस्तम् । पठिष्यति चोपरिष्टात् — ‘अन्यार्थश्च परामर्शः’ (ब्र. सू. १ । ३ । २०) इति ॥ १‍८ ॥

१९ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥

इतरपरामर्शाद्या जीवाशङ्का जाता, सा असम्भवान्निराकृता । अथेदानीं मृतस्येवामृतसेकात् पुनः समुत्थानं जीवाशङ्कायाः क्रियते — उत्तरस्मात्प्राजापत्याद्वाक्यात् । तत्र हि ‘य आत्मापहतपाप्मा’ इत्यपहतपाप्मत्वादिगुणकमात्मानमन्वेष्टव्यं विजिज्ञासितव्यं च प्रतिज्ञाय, ‘य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मा’ (छा. उ. ८ । ७ । ४) इति ब्रुवन् अक्षिस्थं द्रष्टारं जीवमात्मानं निर्दिशति । ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छा. उ. ८ । ९ । ३) इति च तमेव पुनः पुनः परामृश्य, ‘य एष स्वप्ने महीयमानश्चरत्येष आत्मा’ (छा. उ. ८ । १० । १) इति ‘तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष आत्मा’ (छा. उ. ८ । ११ । १) इति च जीवमेवावस्थान्तरगतं व्याचष्टे । तस्यैव चापहतपाप्मत्वादि दर्शयति — ‘एतदमृतमभयमेतद्ब्रह्म’ इति । ‘नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि’ (छा. उ. ८ । ११ । २) इति च सुषुप्तावस्थायां दोषमुपलभ्य, ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्’ इति चोपक्रम्य, शरीरसम्बन्धनिन्दापूर्वकम् ‘एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः’ इति जीवमेव शरीरात्समुत्थितमुत्तमं पुरुषं दर्शयति । तस्मादस्ति सम्भवो जीवे पारमेश्वराणां धर्माणाम् । अतः ‘दहरोऽस्मिन्नन्तराकाशः’ इति जीव एवोक्त इति चेत्कश्चिद्ब्रूयात् ; तं प्रति ब्रूयात् — ‘आविर्भूतस्वरूपस्तु’ इति । तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः ; नोत्तरस्मादपि वाक्यादिह जीवस्याशङ्का सम्भवतीत्यर्थः । कस्मात् ? यतस्तत्राप्याविर्भूतस्वरूपो जीवो विवक्ष्यते । आविर्भूतं स्वरूपमस्येत्याविर्भूतस्वरूपः ; भूतपूर्वगत्या जीववचनम् । एतदुक्तं भवति — ‘य एषोऽक्षिणि’ इत्यक्षिलक्षितं द्रष्टारं निर्दिश्य, उदशरावब्राह्मणेन एनं शरीरात्मताया व्युत्थाप्य, ‘एतं त्वेव ते’ इति पुनः पुनस्तमेव व्याख्येयत्वेनाकृष्य, स्वप्नसुषुप्तोपन्यासक्रमेण ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ इति यदस्य पारमार्थिकं स्वरूपं परं ब्रह्म, तद्रूपतयैनं जीवं व्याचष्टे ; न जैवेन रूपेण । यत्तत् परं ज्योतिरुपसम्पत्तव्यं श्रुतम् , तत्परं ब्रह्म ; तच्चापहतपाप्मत्वादिधर्मकम् ; तदेव च जीवस्य पारमार्थिकं स्वरूपम् — ‘तत्त्वमसि’ इत्यादिशास्त्रेभ्यः, नेतरदुपाधिकल्पितम् । यावदेव हि स्थाणाविव पुरुषबुद्धिं द्वैतलक्षणामविद्यां निवर्तयन्कूटस्थनित्यदृक्स्वरूपमात्मानम् ‘अहं ब्रह्मास्मि’ इति न प्रतिपद्यते, तावज्जीवस्य जीवत्वम् । यदा तु देहेन्द्रियमनोबुद्धिसङ्घाताद्व्युत्थाप्य श्रुत्या प्रतिबोध्यते नासि त्वं देहेन्द्रियमनोबुद्धिसङ्घातः, नासि संसारी — किं तर्हि ? — तद्यत्सत्यं स आत्मा चैतन्यमात्रस्वरूपस्तत्त्वमसीति ; तदा कूटस्थनित्यदृक्स्वरूपमात्मानं प्रतिबुध्य अस्माच्छरीराद्यभिमानात्समुत्तिष्ठन् स एव कूटस्थनित्यदृक्स्वरूप आत्मा भवति — ‘स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इत्यादिश्रुतिभ्यः । तदेव चास्य पारमार्थिकं स्वरूपम् , येन शरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यते । कथं पुनः स्वं च रूपं स्वेनैव च निष्पद्यत इति सम्भवति कूटस्थनित्यस्य ? सुवर्णादीनां तु द्रव्यान्तरसम्पर्कादभिभूतस्वरूपाणामनभिव्यक्तासाधारणविशेषाणां क्षारप्रक्षेपादिभिः शोध्यमानानां स्वरूपेणाभिनिष्पत्तिः स्यात् ; तथा नक्षत्रादीनामहन्यभिभूतप्रकाशानामभिभावकवियोगे रात्रौ स्वरूपेणाभिनिष्पत्तिः स्यात् ; न तु तथात्मचैतन्यज्योतिषो नित्यस्य केनचिदभिभवः सम्भवति असंसर्गित्वात् व्योम्न इव, दृष्टविरोधाच्च ; दृष्टिश्रुतिमतिविज्ञातयो हि जीवस्य स्वरूपम् ; तच्च शरीरादसमुत्थितस्यापि जीवस्य सदा निष्पन्नमेव दृश्यते ; सर्वो हि जीवः पश्यन् शृण्वन् मन्वानो विजानन्व्यवहरति, अन्यथा व्यवहारानुपपत्तेः ; तच्चेत् शरीरात्समुत्थितस्य निष्पद्येत, प्राक्समुत्थानाद्दृष्टो व्यवहारो विरुध्येत । अतः किमात्मकमिदं शरीरात्समुत्थानम् , किमात्मिका वा स्वरूपेणाभिनिष्पत्तिरिति । अत्रोच्यते — प्राग्विवेकविज्ञानोत्पत्तेः शरीरेन्द्रियमनोबुद्धिविषयवेदनोपाधिभिरविविक्तमिव जीवस्य दृष्ट्यादिज्योतिःस्वरूपं भवति ; यथा शुद्धस्य स्फटिकस्य स्वाच्छ्यं शौक्ल्यं च स्वरूपं प्राग्विवेकग्रहणाद्रक्तनीलाद्युपाधिभिरविविक्तमिव भवति ; प्रमाणजनितविवेकग्रहणात्तु पराचीनः स्फटिकः स्वाच्छ्येन शौक्ल्येन च स्वेन रूपेणाभिनिष्पद्यत इत्युच्यते प्रागपि तथैव सन् ; तथा देहाद्युपाध्यविविक्तस्यैव सतो जीवस्य श्रुतिकृतं विवेकविज्ञानं शरीरात्समुत्थानम् , विवेकविज्ञानफलं स्वरूपेणाभिनिष्पत्तिः केवलात्मस्वरूपावगतिः । तथा विवेकाविवेकमात्रेणैवात्मनोऽशरीरत्वं सशरीरत्वं च मन्त्रवर्णात् ‘अशरीरं शरीरेषु’ (क. उ. १ । २ । २२) इति, ‘शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते’ (भ. गी. १३ । ३१) इति च सशरीरत्वाशरीरत्वविशेषाभावस्मरणात् । तस्माद्विवेकविज्ञानाभावादनाविर्भूतस्वरूपः सन् विवेकविज्ञानादाविर्भूतस्वरूप इत्युच्यते । न त्वन्यादृशौ आविर्भावानाविर्भावौ स्वरूपस्य सम्भवतः, स्वरूपत्वादेव । एवं मिथ्याज्ञानकृत एव जीवपरमेश्वरयोर्भेदः, न वस्तुकृतः ; व्योमवदसङ्गत्वाविशेषात् । कुतश्चैतदेवं प्रतिपत्तव्यम् ? यतः ‘य एषोऽक्षिणि पुरुषो दृश्यते’ इत्युपदिश्य ‘एतदमृतमभयमेतद्ब्रह्म’ इत्युपदिशति । योऽक्षिणि प्रसिद्धो द्रष्टा द्रष्टृत्वेन विभाव्यते, सोऽमृताभयलक्षणाद्ब्रह्मणोऽन्यश्चेत्स्यात् , ततोऽमृताभयब्रह्मसामानाधिकरण्यं न स्यात् । नापि प्रतिच्छायात्मायमक्षिलक्षितो निर्दिश्यते, प्रजापतेर्मृषावादित्वप्रसङ्गात् । तथा द्वितीयेऽपि पर्याये ‘य एष स्वप्ने महीयमानश्चरति’ इति न प्रथमपर्यायनिर्दिष्टादक्षिपुरुषाद्द्रष्टुरन्यो निर्दिष्टः, ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ इत्युपक्रमात् । किञ्च ‘अहमद्य स्वप्ने हस्तिनमद्राक्षम् , नेदानीं तं पश्यामि’ इति दृष्टमेव प्रतिबुद्धः प्रत्याचष्टे । द्रष्टारं तु तमेव प्रत्यभिजानाति — ‘य एवाहं स्वप्नमद्राक्षम् , स एवाहं जागरितं पश्यामि’ इति । तथा तृतीयेऽपि पर्याये — ‘नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि’ इति सुषुप्तावस्थायां विशेषविज्ञानाभावमेव दर्शयति, न विज्ञातारं प्रतिषेधति । यत्तु तत्र ‘विनाशमेवापीतो भवति’ इति, तदपि विशेषविज्ञानविनाशाभिप्रायमेव, न विज्ञातृविनाशाभिप्रायम् ; ‘न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ (बृ. उ. ४ । ३ । ३०) इति श्रुत्यन्तरात् । तथा चतुर्थेऽपि पर्याये ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्’ इत्युपक्रम्य ‘मघवन् मर्त्यं वा इदं शरीरम्’ इत्यादिना प्रपञ्चेन शरीराद्युपाधिसम्बन्धप्रत्याख्यानेन सम्प्रसादशब्दोदितं जीवम् ‘स्वेन रूपेणाभिनिष्पद्यते’ इति ब्रह्मस्वरूपापन्नं दर्शयन् , न परस्माद्ब्रह्मणोऽमृताभयस्वरूपादन्यं जीवं दर्शयति । केचित्तु परमात्मविवक्षायाम् ‘एतं त्वेव ते’ इति जीवाकर्षणमन्याय्यं मन्यमाना एतमेव वाक्योपक्रमसूचितमपहतपाप्मत्वादिगुणकमात्मानं ते भूयोऽनुव्याख्यास्यामीति कल्पयन्ति । तेषाम् ‘एतम्’ इति सन्निहितावलम्बिनी सर्वनामश्रुतिर्विप्रकृष्येत ; भूयःश्रुतिश्चोपरुध्येत ; पर्यायान्तराभिहितस्य पर्यायान्तरेऽनभिधीयमानत्वात् । ‘एतं त्वेव ते’ इति च प्रतिज्ञाय प्राक्चतुर्थात्पर्यायादन्यमन्यं व्याचक्षाणस्य प्रजापतेः प्रतारकत्वं प्रसज्येत । तस्मात् यदविद्याप्रत्युपस्थापितमपारमार्थिकं जैवं रूपं कर्तृत्वभोक्तृत्वरागद्वेषादिदोषकलुषितमनेकानर्थयोगि, तद्विलयनेन तद्विपरीतमपहतपाप्मत्वादिगुणकं पारमेश्वरं स्वरूपं विद्यया प्रतिपद्यते, सर्पादिविलयनेनेव रज्ज्वादीन् । अपरे तु वादिनः पारमार्थिकमेव जैवं रूपमिति मन्यन्तेऽस्मदीयाश्च केचित् । तेषां सर्वेषामात्मैकत्वसम्यग्दर्शनप्रतिपक्षभूतानां प्रतिषेधायेदं शारीरकमारब्धम् — एक एव परमेश्वरः कूटस्थनित्यो विज्ञानधातुरविद्यया, मायया मायाविवत् , अनेकधा विभाव्यते, नान्यो विज्ञानधातुरस्तीति । यत्त्विदं परमेश्वरवाक्ये जीवमाशङ्क्य प्रतिषेधति सूत्रकारः — ‘नासम्भवात्’ (ब्र. सू. १ । ३ । १८) इत्यादिना, तत्रायमभिप्रायः — नित्यशुद्धबुद्धमुक्तस्वभावे कूटस्थनित्ये एकस्मिन्नसङ्गे परमात्मनि तद्विपरीतं जैवं रूपं व्योम्नीव तलमलादि परिकल्पितम् ; तत् आत्मैकत्वप्रतिपादनपरैर्वाक्यैर्न्यायोपेतैर्द्वैतवादप्रतिषेधैश्चापनेष्यामीति — परमात्मनो जीवादन्यत्वं द्रढयति ; जीवस्य तु न परस्मादन्यत्वं प्रतिपिपादयिषति ; किं त्वनुवदत्येवाविद्याकल्पितं लोकप्रसिद्धं जीवभेदम् ; एवं हि स्वाभाविककर्तृत्वभोक्तृत्वानुवादेन प्रवृत्ताः कर्मविधयो न विरुध्यन्त इति मन्यते । प्रतिपाद्यं तु शास्त्रार्थमात्मैकत्वमेव दर्शयति — ‘शास्त्रदृष्ट्या तूपदेशो वामदेववत्’ (ब्र. सू. १ । १ । ३०) इत्यादिना । वर्णितश्चास्माभिः विद्वदविद्वद्भेदेन कर्मविधिविरोधपरिहारः ॥ १९ ॥

२० अन्यार्थश्च परामर्शः ॥

अथ योऽयं दहरवाक्यशेषे जीवपरामर्शो दर्शितः — ‘अथ य एष सम्प्रसादः’ (छा. उ. ८ । ३ । ४) इत्यादिः, स दहरे परमेश्वरे व्याख्यायमाने, न जीवोपासनोपदेशः, नापि प्रकृतविशेषोपदेशः — इत्यनर्थकत्वं प्राप्नोतीत्यत आह — अन्यार्थोऽयं जीवपरामर्शो न जीवस्वरूपपर्यवसायी — किं तर्हि ? — परमेश्वरस्वरूपपर्यवसायी । कथम् ? सम्प्रसादशब्दोदितो जीवो जागरितव्यवहारे देहेन्द्रियपञ्जराध्यक्षो भूत्वा, तद्वासनानिर्मितांश्च स्वप्नान्नाडीचरोऽनुभूय, श्रान्तः शरणं प्रेप्सुरुभयरूपादपि शरीराभिमानात्समुत्थाय, सुषुप्तावस्थायां परं ज्योतिराकाशशब्दितं परं ब्रह्मोपसम्पद्य, विशेषविज्ञानवत्त्वं च परित्यज्य, स्वेन रूपेणाभिनिष्पद्यते ; यदस्योपसम्पत्तव्यं परं ज्योतिः, येन स्वेन रूपेणायमभिनिष्पद्यते, स एष आत्मापहतपाप्मत्वादिगुण उपास्यः — इत्येवमर्थोऽयं जीवपरामर्शः परमेश्वरवादिनोऽप्युपपद्यते ॥ २० ॥

२१ अल्पश्रुतेरिति चेत्तदुक्तम् ॥

यदप्युक्तम् — ‘दहरोऽस्मिन्नन्तराकाशः’ इत्याकाशस्याल्पत्वं श्रूयमाणं परमेश्वरे नोपपद्यते, जीवस्य तु आराग्रोपमितस्याल्पत्वमवकल्पत इति ; तस्य परिहारो वक्तव्यः । उक्तो ह्यस्य परिहारः — परमेश्वरेऽप्यापेक्षिकमल्पत्वमवकल्पत इति, ‘अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च’ (ब्र. सू. १ । २ । ७) इत्यत्र ; स एवेह परिहारोऽनुसन्धातव्य इति सूचयति । श्रुत्यैव च इदमल्पत्वं प्रत्युक्तं प्रसिद्धेनाकाशेनोपमिमानया ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः’ इति ॥ २१ ॥